श्रीकृष्ण उवाच ॥
रम्भातृतीयां वक्ष्याभि सर्वपापयणाशिनीम् । पुव्रसौभाग्यकलदां सर्वामयनिवारिणीम् ॥१॥
सवदुष्टहरां पुण्यां सर्वसौख्यप्रदां तथा । सपत्नीदर्पदलनां तथैश्वर्यकरीं शिवाम् ॥२॥
शङ्करेण पुरा प्रोक्ता पार्वत्याः प्रियकाम्यया । ताभिमां शुणु भूपाल सर्वभुतहिताय वै ॥३॥
मार्गशीर्षि शुभे मासि तूतीयायां नाराधिप । शुक्लायां प्रातरुत्थाय दन्तधावनपूर्वकम् ॥४॥
उपवासस्य नियमं गृह्रीयाद्भक्तिभाविता । देवि संवत्सरंयावत्तृती यायामुपोषिता ॥५॥
प्रतिमासं करिष्यामि पारणं चापरेऽहजि । तदविन्घेन मे यातु प्रसादात्तव पार्वति ॥६॥
एवं संकल्प्य विधिवत्कौन्तेय कृतनिष्वयः भक्त्या नरो वा नारी वा स्त्रानं कुर्यादतन्द्रितः ॥७॥
नद्यां तडागे वाप्यां वा गृहे वा निपतात्मवान । पूजयोत्पार्वतीं नाम राव्रौ प्राश्य कुशोद्कम् ॥८॥
प्रभाते भोजयेद्विद्वाञ्छिवभक्तान्विरोषतः । डिरण्यं लवणं चैव तेषां ददतु दक्षिणाम् ॥९॥
गौरीश्वर यथाशक्त्या भोजयेत्ययता सती । अनेन विधिना राजन्यः कुर्यान्मासि पौषके ॥१०॥
गोमूव्रं पाशयेद्राव्रौ प्रभाते भोजयेद् द्वजान । हिरण्ये जीरकं चैव स्वशक्त्या दापयेत्ततः ॥११॥
कडुहुण्डं च कनकं तेभ्यो दत्त्वा विसर्जयेत् । वाजपेयानिराव्राभ्यां फलं प्राप्नोत्पसंशयः ॥१२॥
शकलोके वसेत्कल्पं ततः शिवपुरं व्रजेत् । माघे मासि तुतीयायां सुदेवीं नाम पूजयेत् ॥१३॥
गोमयं प्राशयेप्राव्रौ ततश्वैका किनी स्वपेत् । प्रातः कुसुम्भं कनकं दद्याच्छक्त्या द्विजातिषु ॥१४॥
विष्णुलोके चिरं स्थित्वा प्रान्पोति शिवसात्म्यताम् । गौरीति फाल्गुने नाम गोक्षीरं प्राशयेन्निशि ॥१५॥
प्रभाते भोजयोद्विद्वाञ्छिवभक्तान्सुवासिनीः । कडुहुण्डं सकनकं तेभ्यो दत्त्वा विसर्जयेतू ॥१६॥
वाजपेयातिराव्राभ्यां फलं प्रान्पोत्यसंशयः । चैव्रे मासि विशालाक्षीं पूजयेद्भक्तितत्परा ॥१७॥
दधि प्राश्य स्वपेत्यातर्दद्याद्धेमं सकुङ्रकुमम् । सौभाग्यं महादान्पोति विशालाक्ष्याः प्रसादतः ॥१८॥
वैशाखस्य तृतीयायां श्रीमुखीं नाम पूजयेत् । घृतं च प्राशयेद्राव्रौ ततश्वैककिनी स्वपेत् ॥१९॥
शिवभक्तान्द्विजान्प्रत्तर्भोजयित्वा यथेप्सित्तम् । ताम्बूलं लवणं दत्त्वा प्रणिपत्य विसर्जयेत् ॥२०॥
अनेन विधिना दत्त्वा पुव्रानान्पोति शोभनान् । आपाढे माधवीं नत्वा प्राशयीत तिलोदकम् ॥२१॥
प्रभाते भोजयेद्विप्रान्दक्षिणायां गुडः स्मृतः । सकाञ्चनः शुर्भाल्लोकान्याप्नोति हि न संशयः ॥२२॥
श्रावणे तु श्रियं पूज्य पिबेद्नोशृङ्गजं जलम् । शिवभक्तांश्व संपूज्य दद्याद्धेम फलैः सह ॥२३॥
सर्वलोकेश्वरो भूत्वा सर्वकामानवान्पुयात् । भाद्रे चैव तृतीयायां हरितालीति पूजयेत् ॥२४॥
माहिषं च पिबेद्दुग्धं सौभाग्यमतुलं लभेत् । इहलोके सुखं भुक्त्वा चान्ते शिवपुरं व्रजेत् ॥२५॥
आश्विने तु तृतीयायां गिरिपुव्रीति पूजयेत् । संप्राश्य तण्डुलजलं प्रातर्विप्रांश्व पूजयेत् ॥२६॥
दक्षिणा चापि निर्विष्टा कनकं च सचन्दनम् । सर्वयज्ञफलं प्राप्य गौरीलोके महीयते ॥२७॥
पद्मोद्भवा कार्तिके च पञ्चगव्यं पिबेत्ततः । राव्रौ प्रजागरं कुर्यात्प्रभाते भोजयेद् द्विजान् ॥२८॥
सपत्नीकाञ्चुभाचारान्माल्यवखाविभुषणैः पूजयेच्छिवभक्तांश्व कुमारीश्वैव भोजयेत् ॥२९॥
उमामहेश्वरं हैमं समाप्ते कारयेन्नृप । यथाविभवसारेण वितानं पञ्चवर्णकम् ॥३०॥
अशनं च शुभं दद्याच्छ्र्वेतच्छव्रं कमण्डलुन् । पाडुकोपानहैर्दिव्यैर्वस्त्रयुग्मैश्व पाण्डव ॥३१॥
पीतयनोपवीसैश्व दीपपाव्रैः समृज्ज्व्रलैः । शङ्खशुक्तिसमोपेतैर्दर्पणैश्व सुशोभितैः ॥३२॥
उनामहेश्वरं स्थाप्य पूजयित्वा यथाविधि । नानाविधैः सुगर्न्धश्व पव्रेः पुष्पैः फलैस्तथा ॥३३॥
घृतपक्कैश्व नैवेद्यैर्दीपमालाभिरेव च । शर्करानालिकेरैश्व दाडिभैर्बीजपूरकैः ॥३४॥
जीरकैर्लवणैश्वैव कुसुम्भैः कुङ्कुभैस्तथा । सतास्त्रभाजनैर्दिव्यैर्भोदकै रससंयुतैः ॥३५॥
पूजयेद्देवदेवेशं ततः पश्वात्क्षमापयत् । शङ्खवादिव्रनिर्घोषैर्वेदध्वनिसमन्वितैः ॥३६॥
एवं कृते फलं यत्स्यात्तन्न शक्यं मयोदितुम् । पूर्वोक्तफलभागी स्यात्सर्वदेवैश्व पूज्यते ॥३७॥
कल्पकोटिशतयावत्सर्वकामानवाप्रुयात् । तदन्ते शिवसायुज्यं प्रान्पोताह न संशयः ॥३८॥
पुरैतद्रम्भया चीर्णं तेन रम्भाव्रतं स्मृतम । योऽहं सा च स्मृता गौरी या गौरी स महेश्वरः ॥३९॥
इति मत्वा महाराज शरणं व्रज पार्वतीम् ॥४०॥
एषा हि मद्रदुहितुर्दयिता तृनीया रम्भाविधानमलभद्भुवि तात्कृतेनि । सत्प्राशितैरूदितनामयुतामुपोष्य प्रान्पोति वाञ्छितफलान्यबला बहूनि ॥४१॥ [ ११९६ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रम्भातृतीयाव्रत नाम चतुर्विशतितमोऽध्यायः ॥२४॥