युधिष्ठिर उवाच ॥
स्त्रीणां संपद्यते येन मर्त्यलोके गृहं शुभम् । पतिप्रेम तथात्यन्तं तन्मे ब्रूहि व्रतं शुभम् ॥१॥
श्रीकृष्ण उवाच॥ एकदा पर्वितीशंभू स्थितौ मुनिसुरावृतौ । कैलासशिखरे रम्ये नानाधातुविचिव्रिते ॥२॥
नानाद्रुमलताकीणें नानायुष्योपशोभिते । मुनिकिन्नरसंघूष्टे गेयनृत्यसमाकुले ॥३॥
शंकरः पार्वतींर्दुंप्राह । किं त्यया सढव्रतं कृतम् । वामारूपेण मेत्यन्तं प्रियासि वरवर्णिनि ॥४॥
अगच्छ जानुदेशं तु सुषसन्नमनाः प्रिये । ब्रूहि चावितथं सर्वं त्वया । पार्वति यत्कृतम ॥५॥
इत्युक्ता । प्रणता भूत्वा। गौरी प्राह शिवं शुभा । तृतीयायां मया चीर्णं पुरा । रम्भाव्रतं शुभम् ॥६॥
तेन मे त्वं मनोहरी भर्ता लब्धोऽसि शंकर । ईश्वरी वाप्यहं स्त्रीणां तव देहार्द्धहारिणी ॥७॥
ईश्वर उवाच ॥ कीद्दशं तद्द्वतं भद्रे सर्वसौख्यप्रदायकम् । ब्रूहिपार्वति यत्नेन । यच्चर्णिं पितुरन्तिके ॥८॥
गौर्युवाच ॥ पराहं देव तिष्ठामि कुमारी भवने पितुः हिमवद्नह्ररे रम्ये सखीगणसमावृंता ॥९॥
ततोऽहं मेनया प्रोक्त स्वपिव्रा च हिमाद्रिणा । पुव्रि रम्भाव्रतं चार्यं वरसौभाग्यवर्धनम् ॥१०॥
येन प्रारब्धमाव्रेण सर्वं संपत्स्यते तब । सौभाग्यं स्त्रीगणैश्वर्यं म्हादेवीपदं । तथा ॥११॥
एवं कसेमि वै मातर्मम चोक्तं । पुरस्त्वया । मनोभिलषितं येन येन । प्रान्पोति शंकरम् ॥१२॥
मेनोबाच ॥ अद्य शुक्रुतृतीयायां स्त्रात्वा नियमतत्परां । कुरु पार्श्वेषु पञ्चान्पोञ्ज्वालमानान्हुताशनान् ॥१३॥
गार्हप्रत्यं दक्षिणाग्निमन्यं चाहवनीयकम् । पञ्चमं भास्करं तेज इत्येते । पञ्च बह्लयः ॥१४॥
एतेषां मध्यतो भूत्वा तिष्ठ । पूर्वमुखा चिरम् । चतुर्भुजां ध्यानपरां पद्द्वयोपरि संस्थिसाम् ॥१५॥
मृगाजिनच्छिन्नकुचां जटावल्कलधारिणीम् । सर्वाभरणसंयुक्तां देवीमभिमुखीं कुरु ॥१६॥
महालक्ष्मीर्महाकाली महामाया , महामतिः । गङ्गा च यमुना सिन्धुः शतद्रुर्नर्मदा मही ॥१७॥
सारस्वती वैतरिणी सर्वप्रोक्ता महासती । सस्याश्व प्रेक्षणपरा भव तद्भावभासिता ॥१८॥
होमं कुर्युर्यतात्मानो ब्राह्मणाः सर्वतोदिशम् । देव्याः पूजा प्रकर्तव्या पुष्यधूपादिना ततः ॥१९॥
चहुप्रकारनैवेद्यं नैवेद्यं घृतपाचितम् । स्थापयेत्पुरतो देव्याः पृथक्सौभाग्यमेव च ॥२०॥
जीरकं कङुहुण्ढश्वाप्यपूयान्कुसुमं तथा । निपाचां पावनतरां लवणं शर्करां गुडम् ॥२१॥
पुष्पमण्ढपिका कार्या मन्घपुष्याधिवासिता । पद्मासनेन संतिष्ठेद्यावत्परिणतो रविः ॥२२॥
ततः प्रणम्य रुद्राणीं मन्व्रमेतमुदीरयेत् । वेदेषु सर्वशाव्रेस्त्रेषु दिवि भूमौ धरातले ॥२३॥
द्दष्टः श्रुतश्व्व बहुशो शङ्काविरहितः स्तवः । त्वं शक्तिस्त्वं स्वधा स्वाहा त्वं साविव्रा सरस्वती ॥२४॥
पतिं दोहि गृहं देहि वसु देहि नमोस्तु ते । एवं क्षमापयेद्देवीं प्रणिपत्य पुनःपुनः ॥२५॥
देहि भक्त्या गृहं रम्यं विचिव्रं बहुभूमिकम् । आच्छाद्य द्वारकेदाकपोतादिविभूचितम् ॥२६॥
कुडन्यस्तम्भगवाक्षाढन्य मणिमण्डिततोरणम् । पद्मरागमहानीलवज्त्रवैडूर्यभुषितम् ॥२७॥
गृद्ददानविधानेन ब्राह्मणाय यशस्त्रिने । सपत्नीकाय संपूज्य सर्वोपस्करसंयुतम् ॥२८॥
सुवासिनीभ्यस्तद्देव नैवेद्यं सूर्यसंस्थितम् । निर्वर्त्य विधिनानेन ततः पश्वात्क्षमापयेत् ॥२९॥
दाम्पत्यानि च भोज्यानि चतुर्थ्यां मधुरै रसैः। इत्युक्तमुमया चीर्णं हररम्भाव्रतं परम् ॥३०॥
व्रतान्तेऽगस्त्यमुनये द्त्तं गुहवरं शुभम् लोपामुद्रा प्रिया पत्नी तस्य वेश्ननि पूजिता ॥३१॥
तेन धर्मेण देव त्वं भर्ता लब्धोऽसि शंकरः । अर्धाङ्गेऽपि स्थिता तेन याश्वरिष्यन्ति योषितः ॥३२॥
कौन्तेय पुरुषो वापि ख्यातं रम्भाव्रतं भुवि । तासां पुव्रा गृहं भोगाः कुलवृद्धिर्भविष्यति ॥३३॥
स्त्रीणां चातुर्यसौभाग्यं गार्हस्थ्य सर्वकामिकम् । बालवृद्धस्थमध्यानां रूपलावण्यबृहणम् ॥३४॥
सपत्नीदर्पदलनं वशीकरणमुत्तमम । हिमवद्विन्ध्ययोर्मध्ये आर्यावर्ते मनोहरे ॥३५॥
उत्पत्य शोमते वासे पूर्वोत्पन्नधने कुले । मृतः शक्रपुरं याति ततो विष्णुपुरं व्रजेत् ॥३६॥
ततः शिवपुरं याति व्यासस्य वचनं यथा ॥३७॥
यद्रम्भ्याऽबलभयापहरं ततश्व गौर्या हिमाद्रिभवनस्थितयापि चीर्णम् । तस्या व्रतं सुविकरोति रता च धमें ब्रह्मेशकेशवपतिं सुखदं लभेत्सा ॥३८॥ [ ९९७ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वाणि श्रीकृष्णयुधिष्ठिरसंवादे पञ्चाग्निसाधनाख्यं स्म्भातृतीयाव्रतं नामाष्टादशोऽध्यायः ॥१८॥