युधिष्ठिर उवाच ।
वृक्षारोपणमाहात्म्यं वद देवकिनन्दन । उद्यापनविधिंचैव सरहस्यं समासतः ॥१॥
श्रीकृष्ण उवाच ॥
वरं भूमिरुहः पञ्च नगकाष्ठरुहा दश । पत्रैः पुष्पैः फलैर्मूलः कुर्वति पितृतर्पणस् ॥२॥
बहुभिर्मताकिञ्जातैः पुत्रैर्धर्मार्थवर्जितैः । वरमेकंपथि तरुर्यत्र विश्रमते जनः ॥३॥
प्राणिनः प्रीणयंति स्म च्छायावल्कलपल्लवैः । घनच्छदाः सुतरवः पुष्पैर्दवान्फलैः पितृन् ॥४॥
पुष्पपत्रफलच्छायामूलवल्कदारुभिः । धन्यामहीरुहायेषां विफला यांति नार्थिनः ॥५॥
पुत्राः संवत्सरस्यांते श्राद्धं कुर्वति वा न वा । प्रत्यहं पादपाः पुष्टिं श्रेयोऽर्थ जनयंति हि ॥६॥
न तत्कारोत्याग्निहोत्रं सुखं यद्योषितः सुतः । यत्करोति घनच्छायः पादपः पथि रोपितः ॥७॥
सच्छाया च सपुष्पा च सफला वृक्षवाटिका । कुलयोषेव भवति भर्तृलोकद्वयानुगा ॥८॥
अशोकफलावकरा तिलकालंकृतानना । सर्वोपभोगवेश्येव वाटिका रसिका सदा ॥९॥
सवित्री भवति सदा दानं प्रयच्छति । सदा यज्ञं स यजते यो रोपयति पादपम् ॥१०॥
अश्वत्थमेकं पिचुमंदमेकं न्यग्रोधमेकं दश चिच्ञिणीकम् । कपित्थाबिल्वामलकीत्रयं च पञ्चाम्रवापी नरकं पश्येत् ॥११॥
पुष्पोपगंधाढ्यफलोपगन्धं यः पादपं स्पर्शयेत द्विजाय । सस्त्रीसमृद्धं बहुरत्नपूर्ण लभेद्विमानप्रतिमं गृहं वै ॥१२॥
प्रतिश्रान्तसमाश्रयत्वात्समीहितं तत्र फलं बुभुक्षोः । अपत्यमेकं परलोकहेतोर्विमृश्यतांकिं तरवो न रोपिताः ॥१३॥
न खानिताः पुष्करिण्यो रोपिता न महीरुहाः । मातुर्यौवनचौरेण तेन जातेन किं कृतम् ॥१४॥
छायामन्यस्यकुर्वतिस्वयमातपे । फलंति च परार्थेषु न मनं सर्वकीर्तिवर्द्धनस ॥१६॥
अपुत्रयापुरापार्थपार्वत्यामन्दराचले । अशोकः शोकशमनः पुत्रत्वे परिकल्पितः ॥१७॥
जातकर्मादिकास्तस याः क्रियाः किल बुद्धिमन् । चकारहि वातातपसहः संरकार्यस्तरुणस्तरुः ॥१९॥
स्त्रीनामकंटकीकुब्जकीटवृश्विककोटरः । नोद्याप्यः पादपः पार्थ शिष्टानां यो न संमतः ॥२०॥
आलवाले सुविहिते शुभे बद्धचतुप्किके । शोधयित्वा तमुद्देशं सुगुप्तं कारयेत्ततः ॥२१॥
सदैवोद्यापनं पार्थ पादपानां प्रशरयते । शुभेऽह्री विप्रकथिते ग्रहनक्षत्र संयुते ॥२२॥
पताकालंकृतं वृक्षं पूर्वेद्युरधिवासयेत् । रक्तवस्त्रैः समाच्छाद्य रक्तसूत्रेण वेष्टयेत ॥२३॥
पिष्टातकेनावकिरेत्सर्वौषध्या च पादपम् । स्थापयेत्पूर्णकलशांश्वर्दिक्षु विचक्षणः ॥२४॥
पल्लवालंकृतमुखान्सितचन्दनचर्चितान् । सितवासोयुगच्छन्नान्सकलान्रनगर्भिणः ॥२५॥
पताकालंकृताः सर्वे कार्यास्तात्सन्निधौ द्रुमाः । मूलविन्यस्तकलशा रक्तसूत्रावगुण्ठिताः ॥२६॥
रक्तपीतसिताच्छोदैश्वर्चिताः सुमनोःहरैः कलधौतभयान्यत्र फलानि दश पंच वा ॥२७॥
ताम्रपात्र्यां सवीजानि सरत्नान्यधिवा सयेत् । तूर्यमङ्गलघोषेण चतुर्दिक्षु क्षिपेद्धलिम् ॥२८॥
इन्द्रादिलोकपालेभ्यो भूतेभ्यो मंत्रविद्गुरुः । ततः प्रभाते विमले कुंडं कृत्वा समेखलम् ॥२९॥
ग्रहयज्ञा शांतिकर्म समारभेत् । सुवर्णालं कृतान्कृत्वा ब्राह्मणान्वेदपारगान् ॥३०॥
चतुरोऽश्तौ यथाशक्त्या वासोभिरभिपूजयेत् । तिलाज्येन च होमः स्यात्तृष्टिकरः सदा ॥३१॥
मातरं स्थापयित्वाग्रे पूजयेत्कुसुमाक्षतैः । श्रपयित्वा चरुं सम्यक्पायसाद्यपरिप्लुतम् ॥३२॥
होमादौ जातकर्मादि गोदानं यावदेव तु । पादपं स्नापयित्वा तु संमत्रैस्तीर्थवारिभिः ॥३३॥
जातकं नामकरणमन्नप्राशनमेव च । सुवर्णसूच्या कुर्वीत कर्णवेधं विधानवित् ॥३४॥
जातरुपक्षुरेणात्र चूडा कार्या यथाक्रमम् । बध्नी यान्मेखला मौञ्जी वासश्व परिधापयेत् ॥३५॥
यजमानस्ततः स्त्रातः शुल्कांबरधरः शुचिः । पुष्पाञ्जलिः समभ्येत्य मंत्रमे तमुदीरयेत ३६
ये शाखिनः शिखरिणां शिरसा विभूषा ये नन्दनादिषु वनेषु कृतप्रतिष्ठाः । ये कामदाः सुरनरोरगकिन्नराणां ते मे नतस्य दुरितार्तिहरो भवंतु ॥३७॥
एतैर्द्विजैर्विधिवरप्रहुतो हुताशः पश्यत्यसावहिमदीधितिरबंरस्थः । त्वं वृक्षपुत्रपरिकल्पनया वृतोऽसि कार्य सदैव भवता मम पुत्रकार्यम् ॥३८॥
इत्येवमुक्त्वा तं वृक्षं लालयित्वा पुनः पुनः । घृतपात्रे स्ववदनं दृष्टावशिषमुदीरयेत ॥३९॥
अङ्गादङ्गत्संभवसि हृदयादभिजायसे । आत्मा वै पुत्र नामासि स जीव शरदःशतम ॥४०॥
ब्राह्मणानां ततो देया दक्षिणा हृष्टमानसैः । स्थापकाय शुभां धेनुं दत्वा कुर्यान्महोत्सवम् ॥४१॥
दीनानाथ जनानां च भोजनं चानिवारितम् । इतरेषां प्रदातव्यं संतुष्टेन सुरासवम् ॥४२॥
ज्ञातिबंधुजनैः सार्ध स्वयं भुञ्जीत कामतः । प्रेष्याः कर्मकराः सर्वे पूजनीयाः स्वशक्तितः ॥४३॥
य एवं कुरुते पार्थ वृक्षाणां महदुत्सवम् । सर्वकामानवाप्नोति इह लोके परत्र च ॥४४॥
पुत्रैर्विना शुभगतिर्न भवेन्नराणां दुष्पुत्रैकरिति तथोभयलोकनाशः । एतद्विचार्य सुधिया परिपाल्यवृक्षान्पुत्राः पुत्राणविधिना परिकल्पनीयाः ॥४५॥ [ ५५७६ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृक्षोद्यापनविधिवर्णनं नामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥१२८॥