युधिष्ठिर उवाच ॥
किमर्थ फाल्गुनस्यांते पूर्णमास्यां जनार्दन । उत्सवो जायते लोके खाने ग्रामे पुरे पुरे ॥१॥
किमर्थ शिशवस्तस्यां गेहे गेहेऽतिवादिनः । होलिका दीप्यते कस्मात्फाल्गुनांते किमुच्यते ॥२॥
अडाढेति च का संज्ञाशीतोष्णेति किमुच्यते । को हास्यां पूज्यते देवः केनेयमवतारिता ॥३॥
किमस्यां क्रियते कृष्ण एतद्विस्तरतो वद । श्रीकृष्ण उवाच ॥ आसीत्कृतयुगे सार्थ रघुर्नाम नराधिपः ॥४॥
शूरः सर्वगुणोपेतः प्रियवादी बहुश्रुतः । स सर्वा पृथिवी जित्वा वशीकृत्य नराधिपान् ॥५॥
धर्मतः पालयमास प्रजाः पुत्रानिवौरसान् । न दुर्भिक्षं न च व्याधिर्नाकालमरणं तथा ॥६॥
नाधर्मरुचयः पौरास्तस्मिञ्छसति पार्थिव । तस्यैवं शासतो राज्यं क्षात्रधर्मतस्य वै ॥७॥
पौराः सर्वे समागम्य त्राहि त्यथाब्रुवन् । पौरा ऊचुः । अस्माकं हि गृहे काचिढ्ढौंढा नामेति राक्षसी ॥८॥
दिवा रात्रौ समागम्य बालान्पीडयते बलात् । रक्षया कंडकेनापि मेषकैर्वा नराधिप ॥९॥
मंत्रज्ञैः परमाचार्यैः सानियंतुं न शक्यते । पौराणां वचनं श्रुत्वा रघुर्विस्मयमागतः ॥१०॥
विस्मयाविष्टहृदयः पुरोहितमथाब्रवीत । रघुरुवाच । ढौढेति राक्षसी केयं किंप्रभावा द्विजोत्तम ॥११॥
कथमेषा नियं तव्या मया दुष्कृतकारिणी । रक्षणात्प्रोच्यतेराजापृथिवीपालनात्पतिः ॥१२॥
अरक्षमाणः पृथिवीं राजा भवतिकिल्बिमी । वसिष्ठ उवाच । श्रृगुराजन्परं गुह्यं यज्जास्यातं सया क्कचित् ॥१३॥
ढौढांनामेति विख्याता राक्षसी मालिनः सुता । तया चाराधितः शंभुरुद्रेण तपसा पुरा ॥१४॥
प्रतिस्तामाह भगवान्वरं वरय सुव्रते । यत्ते मनोऽभिलरितं तद्ददाम्यविवारितम् ॥१५॥
डौंढा प्राह महादेव यदि तृष्टः स्वयं मम । न च वध्या सुरादीनां मनुजानां च शंकर ॥१६॥
मा कुरु त्वं त्रिलोकेशशस्त्रास्त्राणांतथैवच । शीतोष्णवर्षासमये दिवारात्रौ बहिर्गृहे ॥१७॥
अभयं सर्वदा मे स्यात्त्वत्प्रसादान्महेश्वर । शंकर उवाच । एवमस्तिवायथोक्त्वा तां पुनः प्रोवाच शूलभूत ॥१८॥
उन्मत्तेभ्यः शिशुभ्यश्व भयं ते संभविष्यति । ऋतावुतौ महाभागे मा न्यथां हृदये कृथाः ॥१९॥
एवं दत्वा बरं तस्या भगवान्भगनेत्रहा । स्वप्ने लब्धो यथार्थार्थस्तत्रैदांतधीयत् ॥२०॥
एवं लब्धवरा सा तु राक्षसी कामरुपिणी । नित्यं पीड्यते बालान्संस्मृत्ये हरभाषितम् ॥२१॥
अडादयेति गृह्यति सिद्धंमत्रं कुटुंबिनी । गृहेषु तेन सालोके हाडादेत्याभिधीयते ॥२२॥
एतत्ते सर्वमाख्यातं ढौंडायाश्वरितं मया । सांप्रतं कथयिष्याभि येनोपायेन हन्यते ॥२३॥
अद्य पञ्चदशी शुल्का फाल्गुनस्य नराधिप । शीतकालो विनिष्क्रान्तः प्रातर्ग्रीष्मोःभविष्यति ॥२४॥
अभयप्रदानं लोकानां दीयतां पुरुषोत्तम । यथाद्याशंकिता लोका रमंति च हसंति च ॥२५॥
दारुजानि च खंडानि गृहीत्वा समरोत्सुकाः । योधा एव विनिर्या तु शिशवः संग्रहर्षिताः ॥२६॥
संचयं शुष्ककाष्ठानामुपलानां च कारयेत् । तत्राग्निं विधिवद्भुत्वा रक्षोघ्नैर्मन्त्रविस्तरैः ॥२७॥
ततः किलकिलाशब्दैतालशब्दैर्मनोहरैः । तमाग्रिं त्रिःपरिक्रम्य गायंतु च हसंतु च ॥२८॥
जल्पंतु स्वेच्छया लोकानिःशंका यस्य यन्मतम् । तेन शब्देन सा पापा होमेन ल्च निराकृता ॥२९॥
अदृष्टघौतर्डिभानां राक्षसी क्षयमेष्यति । श्रीकृष्ण उवाच ॥ तस्यर्षेर्वेचनं श्रुत्वा स नृपः पांडुनंदैन ॥३०॥
सर्व चंकार विधिवदुक्तं तथ च धीमता । गता सा राक्षसी नाशं तेन चोग्रेण कर्मणा ॥३१॥
ततः प्रभृति लोकेऽस्मिन्नडाडाख्यातिमागता । सर्वदुष्टपहो होमः सर्वरोगोपशांतिदः ॥३२॥
क्रियेतेस्यां द्विजैः पार्थ तेन साहीलिकामता । सर्वसारातिविश्वेयं पूर्वमासीद्युधिष्ठिर ॥३३॥
सारत्वात्फल्गुरित्येषा परमानंददायिनी । अ यां निशागमे पार्थ संरक्ष्याः शिशवो गुहे ॥३४॥
गोमयेनोपसं लिप्ते सचतुष्के गृहागण । आकारयेच्छिशुप्रायान्खड्गव्यग्रकरान्नरान् ॥३५॥
ते काष्ठखण्डैः संस्पृश्य गीतैर्हास्यकरैः शिशून । रक्षंति तेषा दातव्यं गुडं पक्कान्नमेव च ॥३६॥
एवं ढौंडिनिशाचर्याः स दोषः प्रशमं व्रजेत् । बालानां रक्षणं कार्य तस्मात्तस्मिन्निशागमे ॥३७॥
युधिष्ठिर उवाच ॥
प्रभाते किञ्जनैर्देव कर्त्यव्यं सुखमीप्सुभिः । प्रवृत्ते माधवे मासि प्रतिपद्भारकरोदये ॥३८॥
श्रीकृष्ण उवाच ॥
कृत्वा चावश्यकार्याणि संतर्प्य पितृदेवताः । वंदयेद्भोलिकाभूतिं सर्वदुष्टोपशांतये ॥३९॥
मंडिते चर्चिते चैव उपलिप्ते गृहाजिरे । चतुष्कं कारयेच्छ्रेष्ठं वर्षकैश्वाक्षतैः शुभै ॥४०॥
तन्मध्ये स्थापयेत्पीठं शुल्कवस्त्रोत्तरच्दम् । अग्रतः पूर्णकलशं स्थापयेत्पल्लवैर्युतम् ॥४१॥
साक्षतं सहिरण्यं चसितचन्दनचर्चितम् । कलशस्याग्रतो देया उपानहवरांशुकाः ॥४२॥
आसने चोपविष्टस्य ब्रह्मघोषेन भारत । चर्चयेच्चन्दनं नारी अव्यंगांगा सुलक्षणा ॥४३॥
पद्मरागोत्तरपटा श्रेष्टांशुकविभूषिता । वसुधारां शिरोग्रे च दधिदूर्वाक्षतान्विताम् ॥४४॥
चर्चापयित्वा श्रीखंडमायुरारोग्यवृद्धये । पश्चाच्च प्राशयेद्विद्वांश्वूतपुष्पं सचंदनम् ॥४५॥
मनोभवस्य सा पूजा ऋषिभिः संप्रदर्शिता । ये पिबंति वसंतादौ चूतपुष्पं सचन्दनम् ॥४६॥
सत्य हृदिस्थकामस्य तत्पूर्तिर्जायतेञ्जप्ता । अनंतरं द्विजेन्द्राणां सूतमागधबंदिनाम् ॥४७॥
दद्याद्दानं यथाशक्त्या कामो मे प्रीयतामिति । ततो भोजनवेलायां शृतं य त्प्राक्तनेऽहनि ॥४८॥
प्राशयेत्प्रथमंचान्नं ततो भुञ्चतमाकम्तः । ए एवं कुरुते पाश शस्त्रोक्तं फाल्गुनोत्सवम् ॥४९॥
अनायासेन सिद्ध्यंति तस्य सर्वे मनोरथाः । आधयोव्यधयश्वैव यांति नाशं न संशयः ॥५०॥
पुत्रपौत्रसमायुक्तः सुखं तिष्ठति मानवः । पुण्या पवित्रा जयदा सर्वविघ्नविनाशिनी ॥५१॥
एषा ते कथिता पार्थ तिथी नामुत्तमा तिथिः ॥५२॥
वृत्ते तुषारसमये सितपञ्चदश्यां प्रातर्वसन्तसमये समुपस्थिते च । सप्राश्य चूतकुसुमं सह चन्दनेन सत्यं हि पार्थ पुरुषस्स सुखी समास्ते ॥५३॥ [ ५७३४ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे फाल्गुनपूर्णिमोत्सववर्णन नाम द्वात्रिंशदुत्तरशततमाऽध्यायः ॥१३२॥