श्रीकृष्ण उवाच ॥
अथातः संप्रवक्ष्यामि रत्नाचलमनुत्तमम् । यत्प्रदान्नान्नरो यातिलोकान्स भर्षिसेवितान् ॥१॥
मुक्ताफलसहस्त्रेण पर्वतः स्यादनुत्तमः । मध्यमः पंचशतिकस्त्रिशतेनावरः स्मृतः ॥२॥
अल्पवित्त कुर्वीत मुक्ताफलशतेन च । चतुर्थाशेन विष्कंभपर्वताः स्युः समंततः ॥३॥
पूर्वेण वज्रगोमेदैर्दक्षिणेनेद्रनीलकैः । पुष्पराग्युतः कार्यो विद्धद्धिर्गधमादनः ॥४॥
वैड्र्यविद्रूमैः पश्वात्सावित्रो विपुलाचलः । पद्मरागं ससौवर्णमुत्तरेणापि विन्यसेत् ॥५॥
धान्यपर्वतच्छेषमत्रापि परिकल्पयेत् । तद्वदावाहनं कृत्वा वृक्षान्देवांश्व कांचनान् ॥६॥
पूजयेत्पुष्पनैवेद्यैः प्रभाते तु विसर्जनम् । पूर्ववद्गुरुऋत्विग्भ्य इमान्मंत्रानुदीरयेत् ॥७॥
यथा देवगणाः सर्वे सर्वरत्नेष्वस्थिताः । त्वं च रत्नमयोनित्यमतः पाहि महाचल ॥८॥
यस्माद्रत्नप्रदानेन तुष्टिमेति जनार्दनः । पूजारत्नप्रदानेन तस्मान्नः पाहि सर्वदा ॥९॥
अनेन विधिना यस्तु दद्याद्रत्नमयं गिरिम् । स याति वैष्णवं लोकममरेश्वरपूजितम् ॥१०॥
यावत्कल्पशतं साग्रं वसित्वेह नराधिप । रुपारोम्यगुणोपेतः । सप्तद्वीपापाधिपो भवेत् ॥११॥
ब्रह्महत्यादिकं किंचेदत्र चामुत्रवाकृतम् । तत्सर्व नाशमायाति ग्रिरिर्वज्रहतो यथा ॥१२॥
मुक्तामपंकनकविद्रुभिभवेत्सुरलोकलोके ॥१३॥ [ ७८८३ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रत्नाचलदानविधिवर्णनं नाम व्घधिकद्विशततमोऽध्यायः ॥२०२॥