युधिष्ठिर उवाच ॥
षष्ठीविधानमधना कथयस्व जनार्दन । सर्वव्याधिप्रशमनं सर्वकर्मफलप्रदम् ॥१॥
ध्रुतं मया पुज्यमानो भानुः र्विप्रयच्छति । दिवाकराराधनं म तस्मात्कयय केशव ॥२॥
श्रीकृष्ण उवाच ॥ विशोकषष्ठीमतुलां वक्ष्यामि मनुजात्तम । यामुपोष्य नरः शोकं कदाचिन्नेह जायते ॥३॥
काघे कृष्णतिलैः स्त्रातः पञ्चभ्यां शुक्लपक्षनः । कृताहारः कृसरया दन्तधावनपूर्वकम् ॥४॥
उपवासव्रतं कृत्वा ब्रह्मचारी भेवन्निश । ततः प्रभाते चोत्थाय कृतस्त्रानस्ततः शुचिः ॥५॥
कृत्वा तु काञ्चनं पद्ममर्कोऽथमिति पूजयेत् । करवीरेण रक्तेन रक्तवस्त्रयुगेन च ॥६॥
यथा विशोक भवनं तव आदित्य सर्वदा । तथा विशोकता मे स्यात्त्वद्भक्तिजन्मजन्मनि ॥७॥
एवं संपूज्य षष्ठन्यां तु शक्त्या संपूजयेद् द्विजान् । सुप्त्वा संप्राश्य गोमूव्रमुत्थाय कृतनिश्वयः ॥८॥
संपूज्य विप्रं मन्व्रेण गुडपाव्रसमन्वितः । सुसूक्ष्मवस्त्रयुगलं ब्राह्मणाय निवेदयेत् ॥९॥
अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः । ततः पुराणश्रवणं कर्तव्य भूतिमिच्छता ॥१०॥
अनेन विधिना सर्वमुभयोरपि पक्षयोः । कुर्याद्यावत्पुनर्माघशुक्लपक्षस्य सप्तमी ॥११॥
व्रतान्ते कलश दद्यात्सुवर्णकमलान्वितम् । शय्यां सोपस्करां तद्वत्कपिलां च पयस्विनीम् ॥१२॥
अनेन विधिना यस्तु वित्तशाठन्यविवर्जितः । विशोकषष्ठीं कुरुते स याति परमां गतिम् ॥१३॥
यावज्जन्मसहस्त्राणां साग्रकोटिशतं भवेत् । तावन्न शोकमभ्येति रोगदौर्गत्यवर्जितः ॥१४॥
यं यं प्रार्थयते कामं तं तं प्रान्पोति पुष्कलम् । निष्कामं कुरुते यस्तु स परं ब्रह्म गच्छति ॥१५॥
यः पठेच्छृणुयाद्वापि षष्ठीं शोकविनाशिनीम् । सोपीन्द्रलोकमान्पोति न दुःखी जायते क्कचित् ॥१६॥
य भास्करं दिनकर करवीरपुष्पैः संपूजयन्त्यभिनमन्ति कृतोपवासाः । ते दुःखशोकरहिताः सहिताः सुहृद्भिर्भूमौ विह्रत्य रविलोकमवाप्रुवन्ति ॥१७॥ [ १७८७ ]
इति श्रीभविष्ण्ये महापुराण उत्तरपर्चणि श्रीकृष्णयुधिष्ठिरसंवादे विशोकषष्ठीव्रतं नामाष्टव्रिंशत्तमोध्यायः ॥३८॥