श्रीकृष्णा उवाच ॥
अघोधःपतनं पुंसामधःकर्म प्रकीर्तितम् । नारकार्णवघोरषु यातना पापमुच्यते ॥१॥
अधर्मभेदा विज्ञेयाश्चित्तवृत्तिप्रभेदतः । स्थूलाः सूक्ष्मा सुमूक्ष्माश्व कोटिमेदैरनेकधा ॥२॥
तत्र ये पापनिचयाः स्थूला वरकहेतवः ते समासेच कथ्यन्ते मनोवाक्कायसाधनाः ॥३॥
पास्त्रीप्वथ संकल्पश्वेतसाऽनिष्टचिन्हनम् । अकार्यामिनिवेशश्व त्रिवधं कर्म मानसम् ॥४॥
अनिबद्धप्रलापित्वमसत्यं चाप्रियं च यत् । परापवादपैशुन्यं चतुर्धा कर्म वाचिकम् ॥५॥
अभक्ष्यमक्षणं हिंसा मिथ्याकामस्य सेवनम् । परस्वानामुपादानं चतुर्धा कर्म कातिकम् ॥६॥
इत्येतद्द्वादशविधं कमं प्रोक्तं ससाधनम् । तेषां भेदं पुनर्वच्मि येषां फलमनन्तकम् ॥७॥
ये द्विपन्ति महादेव संसारार्णवतारणम् । समस्तपातकोपेतास्ते यान्ति नरकाग्निपु ॥८॥
ब्रह्मघ्नश्व सुरापश्व स्तेयी च गुरुतल्पगः । महापातकिनश्वैते तत्संसर्गी च पञ्चमः ॥९॥
क्रोधाद्द्वेषाद्भयाल्लोमाद्ब्राह्मणं विशसन्ति ये । प्राणान्तिको महादोषो ब्रह्मन्घास्ते प्रकीर्तिताः ॥१०॥
ब्राह्मणं च समाहूय याचमानमकिश्चनम् । पश्वान्नास्तीतितं ब्रूयात्स चैव ब्रह्महा स्मृतः ॥११॥
यस्तु विद्याभिमाननेन निस्तेजयति बै द्विजान् । उदासीनः सभामध्ये ब्रह्महा सोऽपि कीर्तितः ॥१२॥
मिथ्यागुणैः स्वमात्मानं नयत्युत्कर्षणं बलात् । गुरुणां च विरुद्धो यः स चैव ब्रह्महा स्मृतः ॥१३॥
क्षुत्तृट्संतप्तदेहानां द्विजानां भौक्तुमिच्छताम् । यः समाचरते विघ्नं तमाहुर्ब्रह्मघातकम् ॥१४॥
पिशुनः सर्वलोकानां छिद्रान्वेषणतत्परः । उद्वेगजननः क्रूरः स चैव ब्रह्महा स्मृतः ॥१५॥
गवां तृषामिभूतानां जलार्थमुपसर्पतासम् । यः समाचरते विन्घं स चैव ब्रह्महा स्मृतः ॥१६॥
परदोषमवज्ञाय नृपकर्णे करोति यः । पापीयान्पिशुनः क्षुद्रः स चैव्र ब्रह्महा स्मृतः ॥१७॥
देवद्विजगवां भूमिं पूर्वमुक्तां हरेत्तु यः । प्रनष्टामपि कालेम तमाहुर्ब्रह्मघातकम् ॥१८॥
द्विजवित्तापहरणे न्यायतः समुपार्जिते । ब्रह्महत्यासमं ज्ञेयं पातकं नाव्र संशयः ॥१९॥
अग्निहोव्रपरित्यागो यस्तु याज्ञिककर्मणाम् । मातापिनृपरित्यागः कूटसाक्ष्यम सुह्रद्वधः ॥२०॥
गवां मार्गे वने चाग्निं पुरे ग्रामे च दीपयेत् । इति पापानि घाराणि सुरापानसमानि तु ॥२१॥
हीनस्वहरणे चापि नरस्त्रीगजवाजिनाम् । गोभूरजतरत्नानामौषधीनां रजस्य च ॥२२॥
चन्दनागरुकर्पूरकस्तूरीखण्डवाससाम् । हस्तन्यस्यापहरणं रुक्मस्तेयसमं स्मृतम् ॥२३॥
कन्यानां वरयोग्यानामदानं सद्दशे वेर । पुव्रमिव्रकलव्रेषु गमनं भगिनीषु च ॥२४॥
कुमारीसाहसं घोरमन्त्यजस्त्रीनिपेवणम् । अवर्णायाश्व गमजं गुरुतल्पसमं स्मृतम् ॥२५॥
महापातकतुल्यानि पापान्युक्तानि यानि तु । तानि पातकसंज्ञानि तद्वदाम्युपपातकम् ॥२६॥
द्विजार्थं च प्रतिज्ञाय न प्रयच्छति यः पुनः । तस्मान्नरपते विन्घतुल्यं तदुपपातकम् ॥२७॥
द्विजद्रव्यापहरणं मर्यादाया व्यतिक्रमः । अतिकोपश्व मानश्व दाम्भिकत्वं कृतन्घता ॥२८॥
अत्यन्तविषयासक्तिः कपिण्य़ं श्रेष्ठमत्सरः । परदारापहरणं साध्वीकन्याविदूपणम् ॥२९॥
परिवित्तिः परीवेत्तः परीवेत्ता यया च परिविद्यते । तयोर्दानं च कन्यायास्तयोवि च याजनम् ॥३०॥
पुव्रमिव्रकलव्राणामभावे स्वामिनस्तथा । शिवानां चैव संन्यासः सहजानां तपस्विनाम् ॥३१॥
भङ्गश्व धर्मकृत्यानां सहायानां बिनाशनम् । पीडामाश्रमसंस्थानामाचरेत्त्वल्पिकामपि ॥३२॥
स्वभृत्यपरिवर्गस्य पशुधान्यधनस्य च । कुप्यधान्यपशुस्तेयमयाच्यानां च याचनम् ॥३३॥
गवां क्षव्रियवैश्यानां स्त्रीशुद्राणां विशेषतः यज्ञारामतडागानां दारापत्यस्य विक्रयः । तीर्थयाव्रोपवासानां वतायतनकर्मणाम् ॥३४॥
स्त्रीधनान्युपजीवन्ति स्त्रीभिरत्यन्तनिर्जिताः । अरक्षणं च नारीणां मद्यपस्त्रीनिपेवणम् ॥३५॥
ऋणानामप्रदानं च घान्यवृद्धयुपजीविनाम् । निन्दिताच्च धनादानमपण्यानां च विक्रयः ॥३६॥
विषमारणमन्व्राणां प्रयोगो मूलकर्मणाम् । उच्चाटनाविचारश्व गरविद्वेषणक्रिया ॥३७॥
जिह्रासमुपभोगार्थं यस्यारम्भः स्वकर्मसु । मूल्येनाध्यापये द्यश्व मूल्येनाधीयते चयाः ॥३८॥
व्रात्यता व्रतसंत्यागः सर्वाहार्निषेवणम् । असद्दाराभिगमनं शुष्कतर्कावलम्बनम् ॥३९॥
देवाग्निसाधुसाध्वीनां निन्दा गोब्राह्मणस्य च । प्रत्यक्षं वा परोक्षं वा राज्ञां मण्डलिकामपि ॥४०॥
दुःशीला नास्तिकाः पापाः सर्वशून्यस्य वादिनः । पर्वकाले दिवा चैव वियोनौ पशुयोनिषु ॥४१॥
रजस्वलानां योनौ च मैथुनं च समाचरेतू । स्त्रीपुव्रमिव्रसंप्रीत्यै ग्रासान्नच्छेदकाश्व ये ॥४२॥
जतंस्याप्रियवक्तारों धूर्ताः समयभेदिनः । भेता तडगचक्राणां संक्रमाणां रथस्य च ॥४३॥
एकपङ्रक्तिस्थितानां च पाकभेदं करोति यः । ङ्हत्येतैस्ते नराः पापैरूपपातकिनः स्मृताह ॥४४॥
युक्तास्तवूनकैः क्षुद्रैः पापैः पापतराः स्मृताः । ये गोबाह्मणकन्यानां स्वामिमिव्रतपस्विनाम् ॥४५॥
अन्तरं यान्ति कार्येंपु ते नरा नारकाः स्मृताः । परश्रिया ये तप्यन्ते ये परद्रव्यसूचकाः ॥४६॥
परव्यापारनिरताः परस्त्रीनरदूपकाः । द्विजाय दुःख यः कुर्यात्सत्कारैर्बहुभिः सदा ॥४७॥
सेवते यो द्विजः शूद्रां सुरां जिन्घति कामतः । ये पानाभिरताः कूरा ये च हिंसाप्रिया नराः ॥४८॥
नित्तार्थं ये च क्रुर्वन्ति दानयज्ञादिकां क्रियाम् । गोष्ठाग्निजलरथ्यासु तरुच्छायामठेपु च ॥४९॥
त्यजन्त्यमेध्यं पुरुषा आरामायतनेषु च । मद्यपानरता नित्यं गानवाद्यरता नराः ॥५०॥
केलींकलाभुजङ्गश्व स्न्ध्रान्वेषणतत्पराः । वंशेषु काशिकाष्ठैश्व शुभैः शङ्रकुभिरेव वा ॥५१॥
ये मार्गान्यमुपन्घन्ति परस्त्रीराहरन्ति च । कूटशासनहर्तारः कूटकर्मक्रियारताः ॥५२॥
कूटयुद्धाश्व शखेण कूटसंव्यवहारिणः । धनुपां शल्यशस्त्राणां यः कर्ता यश्व विक्रयी ॥५३॥
निर्दयोऽतीव भृत्येषु पशूनां दमकश्व यः । मिथ्याप्रवदतो वाक्यमाकर्णयति यः शनैः ॥५४॥
स्वामिमिव्रगुरुद्रोही मायाव्री चपलः शठः । ये भार्यापुव्रमिव्राणि बालवृद्धकृशातुरान् ॥५५॥
भृत्यानविथिबन्धूंश्व बाधयन्ति बुभक्षया । यः स्वयं मिष्टमश्राति विप्रयान्यत्प्रयच्छति ॥५६॥
वृथा पाकः स विज्ञेयो ब्रह्मवादिषु गर्हितः । नियमान्स्वयमादाय ये त्यजन्त्यजितोन्द्रियाः ॥५७॥
प्रव्राज्यावासिनो ये च रहस्यानां च भेदकाः । ताडयन्ति च वगाद्ये शपन्ति च मुहुमुंहुः ॥५८॥
दुर्बलांश्च न पुष्णन्ति पुनस्तान्वाहयन्ति च । पीडयन्त्यतिभारेण सक्षतान्वाहयन्ति च ॥५९॥
सार्द्धयामादुपरितः संयुक्तेषु च भुञ्जते । ये भग्नक्षतरोगार्ताक्षीणांश्वै बुभुक्षया ॥६०॥
न पालयन्ति यन्तेन ते गोन्घा नारका नराः वृषाणां वृषणान्येव पापिष्ठा गालयन्ति ये ॥६१॥
वाहयन्ति च गां वेघ्यां ते महानारकाः स्मृताः । आश्रमं समनुप्राप्रं क्षुत्तृषाश्रमपीडितम् ॥६२॥
येऽतिथिं नाभिमन्यन्ते ते वै निरयगामिनः । अनाथं विकलं दीनं बालं वृद्धं कृशातुरम् ॥६३॥
नानुकम्पन्ति ये मूढास्ते यान्ति निरयार्णवम् । अजाविको माहिषिकः सामुद्रो वृषलीपतिः ॥६४॥
शूद्रविट्रक्षव्रवृत्तिश्व नारकी स्यादद्विजाधमः । शिल्पिनः कारुका वैद्या हेमकारा नटा द्विजाः ॥६५॥
कृतकौक्षेयसंगुक्तास्तथाऽन्ये नारकाः स्मृताः । यश्वोदितमतिक्रम्य स्वेच्छया वाहरेत्करम् ॥६६॥
नरके तु स पच्येत यश्व दण्डरुचिर्भवेत्य़ । उत्कोचकैरधिकृतैस्तस्करैश्व प्रपीडन्यते ॥६७॥
यस्य राज्ञः प्रजा रुष्टा पच्यते नरकेषु सः । ये द्विजाः प्रतिगृह्रन्ति नृपस्यान्यायवर्तिनः ॥६८॥
प्रयान्ति तेपि घोराणि नरकाणि न संशयः । पारदारिकचौराणां यत्पापं पार्थिवस्य तत् ॥६९॥
भवेदरक्षतस्तस्माद्धारेस्तस्य प्रतिग्रहः । अचौरं चौरवत्पश्येच्चौरं वाऽचौररूपवत् ॥७०॥
अविचार्यं नृपस्तस्माद्धातयन्नरकं व्रजेत् । घृततैलान्नपानानि मधुमांससुरासवम् ॥७१॥
गुडेक्षुक्षारशाकानि दधिमूलफलानि च । तृणं काष्ठं पुष्पपव्रमौषधं कांस्यभाजनम् ॥७२॥
उपानच्छव्रशकटमासनं शयनाम्बरम् । तास्त्रं सीसं व्रपुं कांस्यं शंखाद्यं च जलोद्भवम् ॥७३॥
वार्क्षं वा वैणवाद्यं वा गृहेषूपस्कराणि च । ऊर्णाकार्पासकौशेयभङ्गपद्दोद्भवानि च ॥७४॥
स्थूलसूक्ष्माणि वस्त्राणि ये च लोभाद्धरन्ति च । एवमादीनि चान्यानि द्रव्याणि विविधानि च ॥७५॥
नरकाणि ध्रुवं यान्ति नरा वा नाव्र संशयः । यद्वा तद्वा परद्रव्यमपि सर्पममाव्रकम् ॥७६॥
अपह्रत्य नरो याति नरकं नाव्र संशयः । एवमाद्यैर्नरः पापैरुत्कान्तेः समनन्तरम् ॥७७॥
शरीरं चालनार्थाय पूर्वाकारमवाप्रुयात । यमलोकं ब्रजेत्तेन शरीरेण यमाज्ञया ॥७८॥
यमदूतैर्महाघोरैर्नीयमानाः सुदुःखिताः । तिर्यङ् मानुषदेहानामधर्मनिरतात्णनाम् ॥७९॥
धर्मराजः स्मृतः शास्ता सुघोरैर्विविधैर्वधैः विनयाचारयुक्तानां प्रमादत्स्खलितात्मनाम् ॥८०॥
प्रायश्वित्तैर्गुरुः शास्ता न च तैर्द्दश्यते यमः । पारदारिकचौराणामन्यायव्यवहारिणाम् ॥८१॥
नृपतिः शासकस्तेषां प्रच्छन्नानां च धर्मराट् । तरुमात्कृतस्य पापस्य प्रायश्वित्तं समाचरेत् ॥८२॥
नाभुक्तस्यान्यथा नाशः कल्पकोटिशतैरपि । यः करोति स्वयं कर्म कारयेद्वापि मोदयेत् ॥८३॥
कायेन मनसा वाचा तस्य चाघोगतिः फलम् । इति सक्षेपतः प्रोक्ताः पापभेदाःससाधनाः ॥८४॥
कथ्यन्ते गतयश्विव्रा नराणां पापकर्मणाम् ॥८५॥
वाक्कायचित्तजानितैर्बहुभेदभिस्त्रैः कृत्यैः शुभाशुभफलोदयहेतुभूतैः । भास्वत्सुरेशभुवनं नरकाननेकान्संप्रान्पुवन्ति मनुजा मनुजेन्द्रचन्द्र ॥८६॥ [ ४१३ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि पापभेदख्यापनं नाम पञ्चमोऽध्यायः ॥५॥