युधिष्ठिर उवाच ॥
सर्वकामानबान्पोति समाराध्य जनार्दनम् । प्रकारैर्बहुभिः कृष्ण यान्यानिच्छति चेतसा ॥१॥
नृणां स्त्रीणां च सर्वेषां नान्यच्छोकस्य कारणम् । अपत्यादधिकं किंचिद्विद्यते ह्यव्र जन्मनि ॥२॥
अपुव्रतामहादुःखमतिदुःखं कुपुव्रता । सुपुव्रः सर्वसौख्यानां हेतुभूतो मतो मम ॥३॥
वन्यास्ते ये सुतं प्राप्ताः सर्वदुःखविवर्जितम् । शक्तं प्रशांतं बलिनं परां निर्वृतिमागतम् ॥४॥
स्वकर्माभिरतं नित्यं देवद्विजपरापणम् । शास्त्रज्ञं सर्वधर्मज्ञं दीनानाथानुकंपिनम् ॥५॥
विनिर्जितारिसर्वस्वं मनोह्रदथनंदनम् । देवानुकूलतायुक्तं युक्तं सम्यग्गुणेन च ॥६॥
मिव्रस्वजनसन्मानलब्धं निर्वाणसुत्तमम् । यः प्रान्पोति मुतं तस्मान्नान्यो धन्यतरो भुवि ॥७॥
सोऽहमेवं विधं श्रोतुं कर्मेच्छामि महामते । येनेद्दग्लक्षणः पुव्रः प्राप्यते भुवि मानवैः ॥८॥
श्रीकृष्ण उवाच ॥ एवमेतन्महाभाग पुव्रापुव्रसमुद्भबम् । दुःख प्रयात्युपशमं कर्मणैव च केनचित् ॥९॥
अव्रापि श्रूयतां वृत्तं यत्पूर्वमभवन्मुने । उत्पत्तौ कार्तबीर्यस्व है्हयस्य महात्मनः ॥१०॥
कृतवीर्यी महीपालो हिहयो नाम वै पुरा । तस्य शीलधना नाम बभूव वरवर्णिनी ॥११॥
पत्नीसहस्त्रप्रवरा मर्हिषी शीलमंडना । ता स्वपुव्रा महाभागा मैव्रेर्थी पर्यपृच्छत ॥१२॥
गुणवत्पुव्रलाभाय कृतासनपरिग्रहाम् । तया पृष्टाथ सा सम्यङमैव्रेयी ब्रह्मवादिनी ॥१३॥
कथयामास परमं नास्त्रानन्तव्रतं महत् । सर्वकामफलाबाप्तिकारणं पापनाशनम् ॥१४॥
तस्याः सुपुव्रलाभाय राजपत्न्यास्तपस्विनी । मैव्रेय्युवाच ॥ यो यमिच्छेन्नरः कांम नारी वा वरवर्णिनी ॥१५॥
स तं समाराध्य विभुं समान्पोति जनार्दनात् । मार्गशीर्षे मृगशिरमृक्षंयरिमन्दिनेऽभवत् ॥१६॥
तस्मिन्यंप्राश्य गोमूव्रं स्त्रातो नियतमानसः । पुष्पैर्धूपैस्तथा गन्धैरुपवासैश्व भक्तितः ॥१७॥
वामपादमनंतस्य पूजयेद्वरवर्णिनि । अनंतः सर्वकामानामनंतं भगवान्फलम ॥१८॥
ददात्वनंतं च पुनस्तदेवान्यव्र जन्मनि । अनंतपुण्योपचयमनंतं तु महाव्रतम् ॥१९॥
यथाभिलषितावाप्तिं कुरु मे पुरुषोत्तम । इत्युच्चर्याभिपूज्यैनं यथावद्विधिना नरः ॥२०॥
समाहितमना भूत्वा प्रणिपातपुरस्सरम् । विप्रायदक्षिणां दद्यादनंतः प्रीयतामिति ॥२१॥
समुखार्य ततो नक्तं भुञ्जीयात्तैलवर्जितम् । ततश्वपौषे पुष्यर्क्षे तथैव भगवत्कटिम् ॥२२॥
वामामभ्यर्च्चयेद्भक्त्या गोमूव्रप्राशनं ततः । अनंतः सर्वकामानामिति चोच्चारयेत्पुनः ॥२३॥
भुञ्जीत च यथाविप्रान्वाचयित्वा यथाविधि । माधे मघासु तद्वच्च बाहुं देवस्य पूजयेत् ॥२४॥
स्कंधं च फाल्गुनीये मे फाल्गुने मासि भामिनि । चतुर्ष्वेतेषु गोमूव्रं प्राशयेन्नृपनंदिनि ॥२५॥
ब्राह्मणाय तथा दद्यात्तिलान्कनकमेव च । देवस्य दक्षिणं स्कंधं चैव्रे चिव्रासु पूजयेत् ॥२६॥
तथैव प्राशनं चाव्र पञ्चगव्यमुदाह्रतम् । विप्रवाचनिके दद्याद्यवान्मासचतुष्टयम् ॥२७॥
वैशाखे च विशाखामु बाहुं संपुज्य कक्षिणम् । तथैवोक्तान्यवान्दद्यान्नक्तं कुर्याद्भुजिक्रियाम् ॥२८॥
ज्येष्ठासु कटिपूजां च ज्येष्ठमासि शुभव्रते । आषाढासु तथाषाढे कुर्यात्पादार्चनं शुभे ॥२९॥
पादद्वयं तु श्रवणे मासि पूजयेत् । घृतं विप्राय दातव्यं प्राशनीयं यथाविधि ॥३०॥
श्रावणादिषु मासेषु प्राशनं दानमेव च । एतदेव समाख्यातं देवांस्तद्वच्च पूजयेत् ॥३१॥
गुह्यं प्रोष्ठपदायोगे मासि भाद्रपदेऽर्चयेत् । तद्वदाश्वयुजे पूज्यं ह्रदयं चाश्विनीषु च ॥३२॥
कुर्यात्समाहितमनाः स्त्रानं प्राशनमर्चनम् । अनंतशिरसःपूजां कार्तिके कृत्तिकासु च ॥३३॥
यस्मिन्यस्मिदिने पूजा तव्र तव्र तदा दिने । नामानंतस्य जप्तव्यं क्षुतप्रस्खलितादिषु ॥३४॥
घृतेनानंतमुद्दिश्य पूर्वं मासचतुष्टयम् । प्रशस्तं सर्वमासेषु हविष्यान्नेन भोजनम् ॥३६॥
एवं द्वादशभिर्मासैः पारणाव्रितयं शुभे । व्रतावसाने चानंतं सौवर्णं कारयेच्छुभम् ॥३७॥
राजंतं मुसलं चैव हलं पार्श्वेषु विन्यसेत् । पुष्णधूपार्दिनैवेद्यैः पूजा कार्या यथाविधि ॥३८॥
ताम्रपीठोपरि हरेर्मंव्रैरेभिर्यथाक्रमम । नमोऽस्त्वनंताय शिरःपादौसर्वात्मने नमः ॥३९॥
शेषाय जानुयुगलं कामायोति कटिं नमः । नमोस्तु वासुदेवाय पार्श्वं संपूजयेद्धरेः ॥४०॥
संकर्षणायेत्युदरं भुजं सर्वासु सारिणे । कण्ठं श्रीकण्ठ नाथाय मुखमिन्दुमुखाय च ॥४१॥
हलं च मुप्तलं चैव स्वनास्त्रा पूजयेद्रुधः । एवं संपूज्य गोविन्दं सितबस्त्रविभूषितम् ॥४२॥
छव्रोपानहसंयुक्तं स्त्रग्दामालंकृतं तथा । नक्षव्रदेवताः पूज्य नक्षव्राणि च सर्वशः ॥४३॥
सोमो नक्षव्रराजा च यावत्संवत्सरं तथा । द्वादशाव्र घटान्कुर्यात्सतोयांश्वान्नसंयुतान् ॥४४॥
एवं संपूज्य विधिवद्देवदेवं जनार्दनम् । ब्राह्मणं पूजयित्वा च चस्त्रैराभरणैस्तथा ॥४५॥
कर्णां गुलैः पविव्रैश्व शांतं दांतं जितेन्द्रियम् । पुराणज्ञंधर्मनित्यमव्यङ्गसुप्रियंवदम् ॥४६॥
तस्य देयं समस्तं तदनन्तः प्रीयतामिति । अन्येषां ब्राह्मणानां च देयं शक्त्या यथेप्सितम् ॥४७॥
अनेन विधिना सुभ्रू व्रतं चैतत्समाप्यते । पारिते च समान्पोति सर्वानेव मनोरथान ॥४८॥
पुव्रार्थिबिर्वित्तकामैर्भृत्यदारानभीप्सुभिः । प्रार्थ यद्भिश्व मर्त्येऽस्मिन्नारोग्यफलसंपदः ॥४९॥
एतदव्रतं महाभागे पुण्यंस्वस्त्ययनप्रदम् । अनंतव्रतसंज्ञं वै सर्वपापप्रणाशनम् ॥५०॥
तत्कुरुष्वैव देवि त्वं व्रतं शीलधने परम् । वरिष्ठं सर्वलोकस्य यदि पुव्रमभीप्ससि ॥५१॥
श्रीकृष्ण उवाच ॥ इति शीलधना श्रुत्वा मैव्रेयीवचनं शुभम् । चकरौतद्व्रतवरं सा विष्ण्वाहितमानसा ॥५२॥
पुव्रार्थिन्यास्ततस्तयाव्रतेनानेन सुब्रत् । विष्णुस्तुतोष तुष्टे च विष्णौ स सुषुवे सुतम् ॥५३॥
तस्य वै जातमाव्रस्य प्रववौ चानिलः शुभम् । नीरजस्कमभूव्द्योम मुदं प्राषाखिलं जगत् ॥५४॥
देवदुंदुभयो नेदुः पुष्पवृष्टिः पपात च । प्रजगुर्देवगन्धर्वा ननृतुश्वाप्सरोगणाः ॥५५॥
धर्मे मनःसमस्तस्य पार्थ लोकस्य चाभवत् । तस्य नाम पिता चक्रे तनयस्यार्जुनेति वै ॥५६॥
कृतवीर्यमुतत्वाच्च कार्तवीर्यो बभूव सः । तेनापि भगवान्विष्णुर्दत्ताव्रेयस्वरू पवान् ॥५७॥
आराधितोऽतिमहता तपसा पार्थ भृभृताम् । तस्य तुष्टो जगन्नाथश्वकवर्तित्वमुत्तमम् ॥५८॥
ददौ शौर्यधने चापि सकलान्यायुधानि च । स वव्रे च वधं देव नम त्वत्तो भवेदिति ॥५९॥
परंच स्मरणं ज्ञानं भीतानामार्तिनाशनम् । स्मरणादुपकारित्वं जगतोऽस्य जगत्पते ॥६०॥
तमाह देवदेवेशः पुण्डरीकनिभेक्षणः । सर्वमेतन्महाभाग तव भूयो भविष्यति ॥६१॥
यश्व प्रभाते राव्रौ च त्वां नरः कीर्तयिष्यति । नमोऽस्तु कार्तवीर्यायेत्याभिधास्यति चैव यः ॥६२॥
तिलप्रस्थप्रदानस्य नरः पुण्यमवाप्स्यति । अनष्टद्रव्यता चैव तव नामानुकीर्तने ॥६३॥
भविष्यति महीपालेत्युक्त्वातं प्रययौ हरिः । स चापि वरमासाद्य प्रसन्नाद्नरुडध्वजात् ॥६४॥
पालयामास भूपालः सप्तद्वीपां वसुंधराम् । तेनेष्टं विविधैर्यज्ञैः समाप्तवरदक्षिणैः ॥६५॥
जित्वारिवर्गमखिलं धर्मतः पालिताः प्रजाः । अनंतव्रतमाहात्म्यादासाद्य तनयं च तम् ॥६६॥
पितुः पुव्रोद्भवं दुःखं नासीत्स्वल्पमपि प्रभो । एवमेतत्समाक्यातमनंताख्यं व्र्तं तव ॥६७॥
यत्कृत्वा राजपत्नी सा कार्तवीर्यमसूयत । यश्वैतच्छृणुयाज्जन्म कार्तवीर्यस्य मानवः ॥६८॥
स्त्री वा दुःखमपत्योत्थं सप्तजन्मनि नाश्रुते ॥६९॥
ऐश्वर्यमप्रतिहतं परमं विवेक पुव्रानमिव्रह्रदयार्तिकरान्बहूंश्व । कृत्वा त्वनंत इति यद्व्रतनामधेयं प्रान्पोत्यनंतविभवस्य विभोःप्रसादात् ॥७०॥ [ ४५३८ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अनंतव्रतवर्णनं नाम षडधिकशततमोऽध्यायः ॥१०६॥