युधिष्ठिर उवाच ॥
चन्द्रादित्योपरागेषु यत्स्नानमभिधीयते । तदह श्रोतुमिच्छामि द्रव्यमन्नं प्रधानतः ॥१॥
श्रीकृष्ण उवाच ॥ यस्य राशिं समासाद्य भवेद्ग्रहणसंप्लवः । तस्य स्नानं प्रवक्ष्यामिमंत्रौषधिसमन्वितम् ॥२॥
चन्द्रोपरागं संप्राप्य कृत्वा ब्राह्मणावाचनम् । संपूज्य चतुरो विप्रान्ग्न्धमाल्यानुलेपनैः ॥३॥
पोर्वमेवोपरागस्य समानाज्यौषधादिकम् । स्थापयेच्चतुरः कुंभानग्रतः सागरानिति ॥४॥
गजाश्वरथ्यावल्मीकसङ्गसाद्गोकुलात् । राजद्वारप्रदेशात्तु मृदमानीय प्रक्षिपेत् ॥५॥
पंचगव्यं च कुंभेषु पंचरत्नानि चैव हि । रोचनांपद्मशंखौचपञ्चभङ्गसमन्वितौ ॥६॥
स्फटिकं चंदनं श्वेतं तीर्थवारि ससर्षपम् । गजदंतं कुंकुंमं च तथैवोशीरगुग्गुलम् ॥७॥
एतत्सर्व विनिक्षिप्य कुंभेष्वावाहयेत्सुरान् । सर्वे समुद्राः सरितस्तीर्थानि जलदा हृदाः ॥८॥
आयांतु यजमानस्य दुरितक्षयकारकाः । योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मत्तः ॥९॥
सहस्त्रनयनश्वेन्द्रःपीडां मेऽत्र व्यपोहतु । रक्षो गणाधिपः साक्षात्प्रलयानिलसप्रभः ॥१०॥
खड्गव्यग्रोऽतिभीमश्व रक्षापीडां व्यपोहतु । योऽसौ बिंदुकरो बिन्दुः पिनाकी वृषवाहनः ॥११॥
चन्द्रोपरागपापानि स नाशयतु शङ्ग्करः । त्रैलोक्ये यानि भूतानि स्थावराणि चरानि च ॥१२॥
ब्रह्मार्कविष्णुयुक्तानि तानि पापं दहंतु वै । एवमामंत्रितैः कुंभैरंभोयुक्तैर्युगान्वितैः ॥१३॥
ऋग्यजुःसाममंत्रैश्व शुल्कमाल्यानुलेपनैः । पूजयेद्वस्त्रगोदानैर्ब्राह्मणानिष्टदेवताः ॥१४॥
एतानेव ततो मंत्रान्विलिख्य कनकान्वितान् । यजमानस्य शिरसि उद्धृत्यास्ते नरोत्तम ॥१५॥
कलशान्द्रसंयुक्तान्प्राप्ते ग्रहणपर्वणि । चन्द्रग्रहे निघृते तु कृतगोदानमङ्गलः ॥१६॥
कृतस्त्रानः श्वेतपट्टं ब्राह्मणाय निवेदयेत् । अनेन विधिना यस्तु संग्रहं स्नानमाचरेत् ॥१७॥
न तस्य ग्रहपीड स्यान्न च बंधुजनक्षयः । परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् ॥१८॥
सूर्यग्रहे सूर्यनाम सदा मंत्रेषु कीर्तयेत् । द्रव्यस्तैरेव कथितं स्नाण कुरुकुलोद्वह ॥१९॥
य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः । सर्वपापविनिर्मुक्तः शक्रलोके महीयते ॥२०॥
चन्द्रग्रहे नृप रविग्रहणे जपन्मां मंत्ररिमैः समभिमंत्र्य शुभोदकुंभात् । स्नानं करोति नियमेन नरश्व यश्व पीडा न तं ग्रहकृता च पुनर्दुनोति ॥२१॥ [ ५३९२ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिसंवादे चन्द्रादित्यग्रहणस्नानविधिवर्णनं नाम पंचविंशत्युत्तरशततमोऽध्यायः ॥१२५॥