युधिष्ठिर उवाच ॥
किमभीष्टवियोगशोकसङ्घाल्लघु इह समुपोषतां व्रतं वा । विभवोद्धवकारि भूतलेऽस्मिन्भवति विभो भयसूदणं च पुंसाम् ॥१॥
श्रीकृष्ण उवाच ॥ परिपृष्टमिदं जगत्प्रियं ते विबुधानामपि दुर्लभ महात्वात् । तव भक्तिमतस्तथापि वक्ष्येब्रतमिन्द्रासुरदानवेषु गुह्यम् ॥२॥
पुण्यमाश्वयुजे मासि विशोकद्वादशीव्रतम् । दशम्यां लघुभुग्विद्वानारभेन्नियमेन तु ॥३॥
उदङ्मुखः प्राङ्मुखो वा दन्तधावनपूर्वकम् । एकादश्यां निराहारः सम्यगभ्यर्च्य केशवम् ॥४॥
विधिवत्त्वां समभ्यर्च्य मोक्ष्यामि अपरेऽहनि । एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः ॥५॥
" स्त्रानं सर्वौषधैः कुर्यात्पञ्चगव्यजलेन तु । शुक्लमाल्याम्बरस्तद्वत्पुजयेच्छ्रीशमुत्पलैः ॥६॥
विशोकाय नमः पादौ जङ्धे च वरदाय वै । श्रीशाय जानुनी तद्वदरू च जलशायिने ॥७॥
कन्दर्पाय नमो गुह्ये माधावाय नमः कटिम् । दामोदरायेत्युदरं पार्श्वे च विपुलाय बै ॥८॥
नाभिं च पद्मनाभाय ह्रदथं मन्मथाय वै श्रीधराय़ विभोर्वक्षः करौ मधुभिदे नमः ॥९॥
चक्रिणे नामबाहुं च दक्षिणं गदिने नमः । चैकुण्ठाय नमः कण्ठाय नमः कण्ठमास्यं यज्ञनुखाय वै ॥१०॥
नासामशोकनिलये वासुदेवाय चाक्षिणी । ललाटं वामनायेति किरीटं विश्वरूपिणे ॥११॥
नमः सर्वात्मने तद्वच्छिर इत्यभिपूजयेत् । एवं संपूज्य गोविन्दं फलमाल्यानुलेपनैः ॥१२॥
ततस्तस्याग्रतो भव्यं स्थण्डिलं कारयेन्मृदा । चतुरस्त्रं समन्द्वाच्चरत्निमात्रमुदग्भवम् ॥१३॥
नदीवालुकया पूर्णं लक्ष्म्यकृतिं कृती न्यसेत् । स्थण्डिले सूर्यमागेप्य लक्ष्मीमित्यर्चयेद्बुधः ॥१४॥
नमो देव्यै नमः शात्त्यै नमो लक्ष्म्यै नमः श्रिये । नमः पुष्टन्यै नमो द्दष्टन्यै नमो नमः ॥१५॥
विशोका दुःखनाशाय विशोका वरदास्तु मे । विशोका वास्तु संतत्यै विशोका सर्वसिद्धये ॥१६॥
ततः शुक्लाम्बरधरो शूर्पं संवेष्टन्य पूजयेत् । भक्ष्यैर्नानाबिधैस्तद्वत्सुवर्णकमलेन च ॥१७॥
राजनीषु च सर्वासु पिवेद्दर्भोदकं ब्रती । ततस्तु नृत्यगीतादि कारयेत्सर्वराव्रिकम् ॥१८॥
यामव्रये व्यतीते तु सुप्त्वा स्वस्थोपमानसः । अभिगम्य च विप्राणां मिथुनानि सदार्चयेत् ॥१९॥
शक्तितस्त्रीणि चैकं वा बस्त्रमाल्यानुलेपनैः । शयनस्थानि पूज्यानि नमोऽस्तु जलशायिने ॥२०॥
ततस्तु गीतवाद्याद्यै राव्रौ जागरणे कृते । प्रभाते विमले न्मानं कृत्वा दाम्प्त्यमर्चयेत् ॥२१॥
भोजनं च यथाशक्त्या वित्तशाठन्य विवर्जितः । भुक्त्वा श्रुत्वा पुराणानि तद्दिनं त्वतिवाहयेत् ॥२२॥
अनेन विधिना सर्वं मासि समाचरेत् । व्रतान्ते शयनं दद्याद्गुडधेनुसमन्वितम् ॥२३॥
सोपिधानकविश्राममास्तरावरणं शुभम् । यथा न लक्ष्मीर्देवेश त्वां परित्यज्य गच्छति ॥२४॥
तथा कुरु यथयोग्यमशोकं चास्तु मे सदा । यधा देवेन रहिता न लक्ष्मीर्जायते क्वचित् ॥२५॥
तथा विशोकता मेऽस्तु भक्तिरग्र्या च केशवे । मन्त्रेणानेन ध्यात्वा तु गुडधेनुसमन्वितम् ॥२६॥
शूर्पं च लक्ष्म्या सहितं दातव्यं भूतिमिच्छता । उत्पलं करवीरं च बाणमम्लानकुण्डलम् ॥२७॥
केसरं सिन्दुवारं च मल्लिका गन्धपाटलम् । कदम्बं कुंकुमं जाती तथान्यैरपि पूजयेत् ॥२८॥
युधिष्ठिर उवाच ॥ गुडधेनुविधानं मे त्वमाचक्ष्व जगत्पते । किंरूपा केन मन्व्रेण दातव्या तदिहोच्यताम् ॥२९॥
श्रीकृष्ण उवाच । गुडधेनुविधानं च यद्रुपमि हयाफलम् । तदिदानीं पवक्ष्यामि सर्वपापप्रणाशनम् ॥३०॥
कृष्णाजिनं चतुर्हस्तं प्रागेवं विन्यसेद्धुवि । गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्बतः ॥३१॥
लब्धेन काञ्चन काञ्चनं तद्वद्वत्सं च परिकल्पयेत् । प्राङ्मुखीं कल्पयेद्धेनुमुदक्पादां सवत्तकाम् ॥३२॥
उत्तमा गुडधेनूः स्यात्सद्या भारचतुष्टया । वत्सं भारेण कुर्वीत द्वाग्यां वै मध्यमा स्मृता ॥३३॥
अर्द्धभारेण वत्सः स्यात्कनिष्ठाभारकेण तु । चतुर्थाशेन वत्सः स्स्यादगुहवित्तनुसारतः ॥३४॥
धेनुवत्सौ कृतावेतौ सितसूक्ष्माम्बरावृतौ । शुक्तिकर्णाविक्षुपादौ शुक्तिमुक्ताफलेक्षणौ ॥३५॥
सितसूव्रशिरालौ तु सितकम्बलकम्बलौ । ताम्रगल्लकपृष्ठौ तौ सितचामररोमकौ ॥३६॥
विद्रृमभ्रूयुगावेतौ नवनीतस्तनान्वितौ । क्षौमपुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ ॥३७॥
सुवर्णशृङ्गभरणौ राजतखुरसंयुतौ । नानाफलसमायुकौ घ्रानगन्धकरण्डकौ ॥३८॥
इत्येवं रचवित्वा तु धूपदीपैरथार्चयेत् । या लक्ष्मी सर्वभुतानां या च देवे व्यस्थिता ॥३९॥
धैनुरूपेण सा देवी मम पापं व्यपोहतु । विष्णोर्वक्षसि या लक्ष्मी स्वाहा या च विभावसौ ॥४०॥
चन्द्रार्कशक्रशक्तिर्या धेनुर्वरदास्तु सा श्रिये । चतुर्मुखस्य या लक्ष्मीर्या लक्ष्मीर्धनदस्य च ॥४१॥
या लक्ष्मीर्लोकपालानां सा धेनुर्वरदास्तु मे । स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां पुनः ॥४२॥
सर्वपापहरा धेनुस्तस्माद्भूतिं प्रयच्छ मै । एवमामन्व्र्य तां धेनुं ब्राह्मणाय निवेदयेत् ॥४३॥
विधानमेतद्धेनूनां सर्वासामिह पठन्यते । यास्तु पापविनाशिन्यः श्रूयन्ते दश धेनवः ॥४४॥
तासां स्वरूपं वक्ष्यामि नामानि च नराधिप । प्रथमा गुडधेनुः स्याद् घृतधेनुरथापरा ॥४५॥
तिलधेनुस्तृतीया स्याच्चतुर्थी मधुधेनुका जलधेनुः पञ्चमी तु षष्टी तु क्षीरसंभवा ॥४६॥
सप्तमी शर्कराधेनुर्दधिधेनुरथाष्टमी । रसधेनुश्च नबमी दशमी स्यात्स्वरूपतः ॥४७॥
कुम्भाः स्युर्दशधेनूनामितरासां तु राशयः सुवर्णधेनुमप्यव्र केचिदिच्छन्ति मानवाः ॥४८॥
नवनीतेन रत्नैश्व तथाप्यन्ये महर्षयः । एतदेव विधानं स्यात्त एवोपस्काराः स्मृताः ॥४९॥
मन्व्रवाहनसंयुक्तां सदा पर्वणि पर्वणि । यथाश्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदा ॥५०॥
गुडधेनुप्रसङ्गेन सर्वास्तव मयोदिताः । अशेषयज्ञफलदाः सर्वपापहराः शुभाः ॥५१॥
व्रतानामुत्तमयंत्स्याद्विशाकेद्वादशीब्रतम् । तदङ्गत्वेन चैवैषा गुडधेनुः प्रशस्यते ॥५२॥
अयने विषुवे पुण्ये व्यतीपातेऽथवा पुनः । गुडधेन्वादयो देया उपरागादिपर्वसु ॥५३॥
विशोकद्वादशी चैषा सर्वपापहरा भुभा । यामुपोष्य नरो याति तद्विष्णोः परमं पदम् ॥५४॥
इहलोके तु सौभाग्यम युरारोग्यमेव च । वैष्णवं पदमान्पोति मरणे सद्नतिर्भवते ॥५५॥
भवार्बुदसहस्त्राणि दश चाष्टौ च धर्मवित् । न शोकदुःखदौर्गत्यं तरय संजायते नृप ॥५६॥
नारी वा कृरुते या तु विशोकद्वादशीमिमाम् । नृत्यगीतपरा नित्य सपि तत्फलमान्पुयात् ॥५७॥
इति पठति य इत्थं यः शृणोतीह सम्यङ्मधुमुरनरकारेरर्चनं यश्व पश्येत् । मतिमपि च जनानां यो ददातीन्द्रलोके वसति स विबुधाध्यैः पूज्यमानः सदैव ॥५८॥ [ ३६०४ ]
इति श्रीभविष्ये महापुराणउत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे विशोकद्वादशीव्रतं नाम चतुरशीतितमोऽध्यायः ॥८४॥