श्रीकृष्ण उवाच ॥
शान्तिव्रतं प्रवक्ष्यामि शृणुष्वैकमनाधुना । येन चीर्णेन शान्तिः स्यात्सर्वदा गृहमेधिनाम् ॥१॥
पञ्चम्यां शुक्लपक्षस्य कार्तिके मासि पार्थिव । आरम्य वर्व्रमेक तु भुञ्जीयादा म्लवर्जितम् ॥२॥
नक्तं देवं च संपूज्य हरिं शेषोपरि स्थितम् । अनन्तायेति पादौ तु धृतराष्ट्राय वै कटिम् ॥३॥
वदरं तक्षकायेति उरः कर्कोटकाय च । पद्याय कर्णौ संपूज्य महापद्माय दोर्युगम् ॥४॥
शङ्कपाळाय वक्षस्तु कुलिकायति वै शिरः । एवं विष्णुं सर्वगत पृथगेव प्रपूजयेत् ॥५॥
क्षीरेण स्त्रपन कुर्याद्धरिमुद्दिश्य वाग्यतः । तदग्रे होमयेत्क्षीरं तिलैः सह विचक्षणः ॥६॥
एवं संवत्सरस्यान्ते कुर्यादब्राह्यनभोजनम् । अच्युतं काञ्चनं कृत्वा सुवर्णं तु विचक्षणम् ॥७॥
गां सबत्सांवखयुगं कांस्यपाव्र सपायसम् । हिरण्य च यथाशक्त्या ब्राह्मणायोपपादयेत् ॥८॥
एवं यः कुरुते भक्त्या व्रतमेतन्नराधिय । तस्य शान्तिर्भवेन्नित्यं नागानामभयं तथा ॥९॥
शेषाहिभोगशयनस्थमयोगसूतिं संपूज्य यनुपुरुषं पतगेन्द्रनाथम् । ये पूजयन्ति मधुरैः सितपञ्चमीषु तेपां न नागजनितं भपमन्युपैति ॥१०॥ [ १६१७ ]
इति श्रीभाविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शान्तिव्रतं नाम चतुस्त्रिंरात्तमोऽध्यायः ॥३४॥