युधिष्ठिर उवाच ॥
कपिलादानमहात्म्यं कथयस्व जगत्पेते । पुण्यं यत्सर्वदानानां सर्वपातकनाशनम् ॥१॥
श्रीकृष्ण उवाच ॥
तत्तेऽहं संप्रवक्ष्यामि विनताश्वेन यत्पुरा । कथितं कपिलादानं तच्छृणुष्व महामते ॥२॥
विनताश्व उवाच ॥
अतः परं महाराज सभामुख्याः समासतः । विधानं यद्वराहेन धण्यै कथितं पुरा ॥३॥
तदहं संप्रवक्ष्यामि नवपुण्यफल च यत् । धरण्युवाच ॥ यरवया कपिला नाम पूर्वत्पादिता प्रभो ॥४॥
होमधेनुः सदा पुण्या धेनुर्यज्ञावतारभूः । सा कथं ब्राह्मणेभ्यो हि देया कस्मिन्मिन पिच ॥५॥
कीदृशाय च विप्राय दातव्या पुण्यलक्षणा । कति वो कपिलाः प्रोक्ता रवयमेव रवयंभुवा ॥६॥
तासां प्रयत्नाद्दानेन किं पुण्यं स्याच्च माधव । एतदिच्छाम्यहं श्रोतुं विस्तरान्मधुसूदन ॥७॥
वराह उवाच ॥
शुणुष्व भद्रे तत्त्वेन पवित्रां पापनाशिनीम् । कृत्वा यत्सर्व्पापेभ्यो मुच्यते नात्र संशयः ॥८॥
कपिला अग्निहोत्रार्थ यज्ञार्थे च वरानने । उद्धृत्य सर्वतेजांसि ब्रह्मणा निर्मिता पुरा ॥९॥
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् । पुण्यानां परमं पुण्यं कपिलां च वरानने ॥१०॥
तपसस्तप एवाग्रयं व्रतानामुत्तमं व्रतम् । दानानामुत्तमं दानं विधिनाह्येतद्क्षयम् ॥११॥
पृथिव्यां यानि तीथांनी गृह्यान्यायतनानि च । पवित्राणि च पुण्यानि सर्वलोके वसुन्धरं ॥१२॥
होतव्यान्यग्निहोत्राण सायं प्रातर्द्विजातिभिः । कपिलाया घृतेनेह दध्ना क्षीरेण वा पुनः ॥१३॥
यजंतेयेऽग्निहोत्राणन्नैश्वविविधैःसदा । पूजयन्त्यतिथीश्वैव परांभक्तिमुपागताः ॥१४॥
तेषां त्वदित्यवर्णश्व विमानैर्जायते गतिः । सूर्यमण्डलमध्ये च ब्रह्मणा निर्मिता पुरा ॥१५॥
कपिलः याः शिरोग्रायां सर्वतीर्थानि भामिनि । पितामहनियोगाच्च निवसति हि नित्यशः ॥१६॥
प्रातरुत्थाय या मर्त्यः कपिलागलमस्तकात । च्युतं तु भक्त्या पानीयं शिरसा धारयेन्नरः ॥१७॥
स तेन पूण्येनोपेतरतत्क्षणाद्नकिल्बिषः । त्रिंशद्वर्षकृत्य पापं दहत्यग्निरिवेन्धनम् ॥१८॥
कल्य उत्थाय यो मार्त्यः कुर्योत्तासां प्रदक्षिणामा । प्रदक्षिणी कृता तेन पृथिवी स्याद्वसुन्वरे ॥१५॥
प्रदक्षिणायां चैकायां कृतायां च ६ सुन्धरे । दशवर्षकृतं पापं नश्यते नात्र संशयः ॥२०॥
कपिलायास्तु मूद्रेण स्त्रायाद्वै यः शुचिव्रतः । स गङ्गाद्येषु तीर्थेषु स्त्रातो भवति मानवः ॥२१॥
तेन स्त्रानेन चैकेन भवमुक्तो भवेन्नरः । यावज्जीवकृतात्पाताक्षणादेव मुच्यते ॥२२॥
गोसहस्त्रं च यो दद्यादेकां वा कपिलां नरः । सममेतत्पुरा प्राह ब्रह्मलोके पितामहः ॥२३॥
यश्वैकंकपिलांहन्यान्नरां ज्जुकरोयदि । प्राप्तहस्त्रं हजं तेन भवतीह न संशयः ॥२४॥
गवां स्थितिं कल्पयेत घृतं गव्य न दूषयेत् । यावद्धि वर्द्धते गव्यं तावत्पापैस्तु पूयते ॥२५॥
गवां कंडूयनं श्रेष्ठं तथा च प्रतिपालनम् । तुल्यं गोघृवदानस्य भयरोगादिपालनम् ॥२६॥
तृणादिभक्षणार्थ च गवां च प्रतिपालनम् । स्वर्गवासफल दिव्य लभते मानवोत्तमः ॥२७॥
दशेह कपिलाः प्रोक्ताः स्वयमेव स्वयंभुवा । यो दद्याच्छ्रेत्रियत्यैव स्वर्ग गत्वा स मानवः ॥२८॥
विमानैर्विविधैर्द्विव्यैर्दिव्यकन्याभिरर्चितः । सेव्यमनस्तु गंधर्वैर्दीप्यमाना यथाग्रयः ॥२९॥
सुवर्णकपिलापूर्वाद्धि तीयागौरपिङ्गला । आशाचैव तृतीया स्यादग्निज्वाला चतुर्थिका ॥३०॥
पंचमी जुहुवर्णा स्याषष्ठी तु घृतपिंङ्गला । सप्तमी श्वेतपिङ्गा स्यादष्टमी क्षीरपिङ्गला ॥३१॥
नवमी पाटला ज्ञेया दशमी पुष्पपिङ्गला । एता दश समाख्याताः कपिलाश्व वसुंधरे ॥३२॥
सर्वा ह्येता महाभागा स्तारयंति न संशयः । संगमेषु प्रशस्ताश्व सर्वपापप्रणाशनाः ॥३३॥
एवमेतास्तु कपिलाः पापघ्न्यश्व वसुन्धरे । आशा चैव तु या प्रोक्ता अग्निनर्भानलप्रभो ॥३४॥
अग्निज्वालोज्ज्वलैः शृंगैः प्रदीप्तांगारलोचना । अग्निपुष्पा अग्निलोमा तथाया चानलप्रभा ॥३५॥
तामाग्नेय्यां सदादद्यादूब्राह्यणरयेतरैः सदा । गृहीत्वा कपिलां शूद्रः कामत तु स्वयं पिनेत् ॥३६॥
पतितश्व भवेन्नित्यं चंडालसदृशः पुमान् । तस्मान्न प्रतिगृह्रयिच्छवलां मां कथंचः ॥३७॥
द्वारांते परिहर्तव्या कपिला गौर्द्विजेतरैः । लोकेषु ते मूढतमाः कपिलाक्षीरभोजनाः ॥३८॥
असंभाप्याश्व पतिताः शूद्रारते पापकर्भिणः । पिबंति यावत्कपिलां तावत्तेषां पितामहाः ॥३९॥
अमेध्यं भुंजतेऽतरताम नोपजीव्यादिद्वजेतरः । तासां घृतं च क्षीरं वानवनीतमथापिवा ॥४०॥
उपजीवंति ये शूद्रारते प्रयांतियमालयम् । कपिलाजीविनः शूद्राः सर्वे गच्छंति रौरवम् ॥४१॥
रौरवे भुंजते दुःखं वर्षकोटिशतोषिताः । ततोविमुक्ताः कालेन जायंते श्वानयोनिषु ॥४२॥
श्वानयांनेर्विमुक्तारते विष्ठायां कृमियोनिगाः । विष्ठारवेव च पापिष्ठा दुर्गधेषु च नित्यशः ॥४३॥
भूयोऽपि जायमानास्ते तत्रोत्तरो न विद्यते । ब्राह्मणश्वैवं यो देवि कुर्यात्तेषां प्रतिग्रहम् ॥४४॥
ततः प्रभृत्यमेध्यायां पितरस्तभ्य शेरते । तं विप्र नानुभाषेत च चाप्येकासने विशेत ॥४५॥
स नित्यं वर्जनीयां वै दुरात्तु ब्राह्मणा धमः । यस्तेन सह भाषेत प्रायश्वित्ती भवेदिद्विजः ॥४६॥
एकस्यं गोप्रदानस्य सह्स्त्रांशा न पूर्यते । विमन्यैर्बहुभिर्दानैः कोटिसंख्यातविस्तरैः ॥४७॥
श्रोत्रियाय दरिद्राय गोप्रदानस्य सहस्त्रांशा न दत्वैकां कपिलां धेनुं सर्वपापैः प्रमुच्यते ॥४८॥
मासे प्रसविनी धेनुं दानार्थी प्रतिपालयेत् । आत्मार्थेन प्रपाल्या हि सदा नरकभीरुभिः ॥४९॥
कपिलाऽर्धप्रसूता च दातव्या हि द्विजन्मने । जायमानस्य लसस्य मुखं योन्यां प्रदृश्यते ॥५०॥
तावसा पृथिवी ज्ञेया यावद्नर्भै न मुंचति । धेनोर्यावंति रोमणि सवत्साया वसुन्धरे ॥५१॥
भूम्यां तु पांसवो यावद्यावन्नक्षत्रताकाः । तादद्वर्षसहस्त्रानि ब्रह्मेशादिभिरर्चितः ॥५२॥
ब्रह्मलोकं निवसति यश्वैककपिलाप्रदः यश्वैककपिलाप्रदः। सुवर्णशृङ्गी यः तृत्वा रौप्यैरंबुसमर्न्वितः ॥५३॥
ब्रह्मण य करे दत्त्वा सुवर्ण रौप्यमेव च । कपिलायास्तदा पुत्रं ब्राह्मण य करे न्यसेत् ॥५४॥
उदकं न करे दत्वा वाचयेत स्वशक्तितः । सुवर्णैस्तु चतुर्भिश्व त्रिभूर्दूःभ्यामथा पिवा ॥५५॥
एतहीना न दातव्यां यदीच्छेच्छुभमात्मनः । ससमुद्रवनोपेता सरौलवनकानना ॥५६॥
रत्नपूर्णा भवेद्दत्ता पृथिवी नात्र संशयः । पृथिवी दानतुत्येन दानेनैतेन वै नरः ॥५७॥
तारितो याति पितृभिर्वैष्णवं यत्पदं परम् । ब्रह्मरवहरणो गोघ्नो द्रुणहा ब्रह्मघातकः ॥५८॥
पापकृच्चोभयमुखीं दद्यात्सत्कनकान्विताम् । तद्दिनं च पयोभोजी संयतश्वातिवाहयेत् ॥५९॥
गोमयेनोपलिर्याथ मडलं विधिपूर्वकम् । स्वशाखोक्तेन मंत्रेण होमयेत्तु विचक्षणः ॥६०॥
व्याहृत्या होमयेत्पूर्व पंच वारुणकं तथा । इरावती धेनुमती देवस्थत्वेती वा पुनः ॥६१॥
स्योनाः पृथिविमंत्रेण गौर्वत्ससहिता नवा । निकामफलदा धेनुः सा स्यान्सुरभिनंदिनी ॥६२॥
या ते सरस्वती देवी विष्णुना च तथा मही । गौरी विष्णुपदं चोक्वा शांतिकर्मणि वाचयेत् ॥६३॥
यावद्धन्सरय द्वौ पादौ शिरश्वैव प्रदृश्यो । तावद्वै पृथिवीं ज्ञेया यावद्नर्भ न भुवति ॥६४॥
तस्मिन्काले प्रदातव्या ब्राह्मणाय वसुंधरे । सवर्णशृङ्गीं रौप्यखुरां कांस्यदोहां सताम्रकाम् ॥६५॥
सवस्त्र घंटाभरणां गंधपुष्पैरंलंकृताम् । वस्त्रक्षतैः समभ्यर्च्य सर्मयेत ॥६६॥
सुवर्णस्य सहस्त्रेण तदर्धेनापि भामिनि । तरयार्प्योम शक्त्याथ तत्याप्पर्धेन वा पुनः ॥६७॥
यथाशक्त्या प्रदातव्या वित्तशाठ्याविवर्जिता । करे दत्वा सुवर्ण च अथवा रुप्यमेव च ॥६८॥
इमां गृह्र महाधेनुं भव भ्राता ममाशु वै । सर्वपापक्षयं कृत्वा सदा स्वस्तिकरो गव ॥६९॥
हरावती धेनुमी जघान तदनंतरम् । प्रतिदास्यामि ते धेनुं कुटुंबार्थे विशेषतः ॥७०॥
स्वस्तिभवंस्तु मे नित्य सुखं चानुत्तमं तथा । दत्ता तु पृथिवी देवी त्वयेयं प्रतिगृह्यप्ताम् ॥७१॥
कोऽदादिति च वै मंत्रः प्रजप्तव्यो द्विजेन च । विसृज्य ब्राह्मणं सापि तां धेनुं स्वगृहं नयेत् ॥७२॥
एवं प्रसयमानां गां यो ददाति वसुधरे । ससमुद्रवनोपेता सशैलवनकानना । रत्नपूर्णा भवेद्दत्ता पृथिवी नात्र संशयः ॥७३॥
प्रतप्तजांवूनदतुल्यवर्णा महानितंबां तनुवृत्तमध्यमाम् । अद्धप्रसूतां द्विमुखा सुशीलां सेवन्त्यजस्त्रं कपिलां हि देवाः ॥७४॥
प्रातरुत्याय यो भक्त्या धेनुकल्पं नरो भुवि ॥७५॥
जितेंद्रियः शुचिर्भूत्वा पठेद्धवत्या समन्वितः । त्रिकालं पठते यस्तु पापं वर्षशतोद्धवम् ॥७६॥
नश्यत्येकाह्स्णादेव वायुना पांसवो यथा । श्राद्धकाले पठेद्यरत इदं पावनमुत्तमम् ॥७७॥
तस्यान्नं संस्कृतं तद्वै पितंराश्नति धीमतः । अमावारयां च यो विद्वान्विजानामग्रतः पठेत् ॥७८॥
पितरस्ताय तुष्यंति वर्षाणां शतमेव च । यश्वैतच्छृणुयात्पुण्यं तद्वतेनांतरान्मनाः ॥७९॥
संवत्सरकृता पापात्तत्क्षणादेव मुच्यते । इदं रहस्यं राजेंन्द्र वराहमुखनिर्गतम् ॥८०॥
धण्यवथिं पूर्व सर्वपापप्रणाशनम् ॥८१॥ [ ७०८६ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कपिलादानमाहात्म्यवर्णन नामैकषष्टयुत्तरशततमोऽध्यायः ॥१६१॥