श्रीकृष्ण उवाच ॥
नैर्मल्यं भावशुद्धिश्व विना स्नानं न युज्यते । तस्मात्कायविशुद्धयर्थे स्नानमादौ विधियते ॥१॥
अनुद्धतैरुद्धृतैर्वा जलैः स्नानं समाचरेत् । तीर्थ प्रकल्पयेद्विद्वान्मूलमंत्रेण मंत्रवित् ॥२॥
नमो नारायणयेति मूलमन्त्र उदाहृतः । दर्भपाणिस्तु विधिना स्वाचान्तः प्रयतः सुधीः ॥३॥
चतुर्हस्तसमायुक्त्म चतुरस्त्रं समंततः । प्रकल्प वाहयेङ्गमेभिर्मत्रैर्विचक्षणः ॥४॥
ओंविष्णुपादप्रसूतासि वैष्णवि विष्णुदेवता । पाहि नस्त्वेनसस्तस्मादाजन्ममरणांतिकात् ॥५॥
तिस्त्रः कोट्योऽर्द्ध कोटी च तीर्थानां वायुरब्रवीत् । दिवि भुव्यंतरिक्षे च तानि ते सन्ति जाह्यवि ॥६॥
नंदिनीत्येव ते नाम देवेषु नलिनीति च । क्षमा पृथ्वी च विहग विश्वकाया शिवास्मृता ॥७॥
विद्याधरा सुप्रसन्ना तथा लोक प्रसादिनी । हैमा तथा जाह्रवी च शांता शांतिप्रदायिनी ॥८॥
एतानि पुण्यनामानि स्त्रानकाले प्रकीर्तयेत् । भवेत्स्म्निहिता तत्र गङ्गा त्रिपथगामिनी ॥९॥
सप्तवाराभिजप्तेन करसंपुटयोजितम् । मूर्ध्नि कुर्याज्जलं भूप त्रिचतुःपञ्चसप्तधा ॥१०॥
स्त्रानं कुर्यान्मृदा तद्वदामंत्र्य चविधानतः । अश्वकांते रथक्रांते विष्णुक्रांते वसुंधर ॥११॥
मृत्तिके हर मे सर्व यन्मया दुष्कृतं कृतम् । उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥१२॥
नमस्ते सर्वलोकानामसुद्धरिणि सुव्रते । एवं स्त्रात्वा ततः पश्वादाचम्य च विधानतः ॥१३॥
उत्थाय वाससी शुल्के सूक्ष्मे तु परिधाये वै । ततस्तु तर्पणं कुर्यात्रैलोक्याप्यायना तु ॥१४॥
देवा यक्षास्तथा नागागन्धर्वाप्सरसां गणाः । क्रूराः सर्पाः सुपर्णाश्व तरक्षाविहगाःखगाः ॥१५॥
विद्याधराजलधरास्तथैवाकाशगामिनः । निराधाराश्व ये जीवाह पापकर्मरताश्व ये ॥१६॥
तेषामाप्यायनायै तद्दीयते सलिलं मया । कृतोपवीतोदेवेभ्योनिवीतीभवेत्ततः ॥१७॥
मनुष्यांस्तर्पयेद्भक्त्या ब्रह्मपुत्रानृषींस्तथा । सनकश्वसनन्दतृतीयेश्वसनातनः ॥१८॥
कपिलश्वासुरिश्वैववोढुःपञ्चशिखस्तथा । सर्वे ते तृप्तिमायांतु मद्दत्तेनांबुना सदा ॥१९॥
मरीचिमत्र्यङ्गिरसौपुलस्त्यं पुलहंक्रतम् । प्रचेतसंवसिष्ठंभृगुंनारदमेवच ॥२०॥
देवब्रह्मऋषीन्सर्वास्तर्पयेताक्षतोदकैः । अपसव्यं ततः कृत्वा सव्यं जानु च भूतले ॥२१॥
अग्निष्वात्ता बर्हिषदो हविष्मंतस्तथोष्मपाः । सुकलितास्तथा भौमा आज्यपाः सोमपास्तथा ॥२२॥
तर्पयेच्च पितृन्भक्त्या सतिलोदकचन्दनैः । दर्भपाणिस्तु विधि वत्तर्पयेन्नामगोत्रतः ॥२३॥
पित्रदीन्नामगोत्रेणतथामातामहानपि । संतर्प्य विधिवद्भक्त्या इमं मंत्रमुदीरयेत् ॥२४॥
येऽबान्धवा बान्धवा ये येऽन्यजन्मनि बाध्नवाः । तेतृप्तिमिखिलायांतुश्वास्मत्तोऽभिवाञ्छति ॥२५॥
ततश्वाचम्य विधिवदालिखेत्पद्ममग्रतः । अक्षताभिः सपुष्पाभिः सतिलारुणचन्दनैः ॥२६॥
अर्घ दद्यात्प्रयत्नेन सूर्यनामानुकीर्तनैः नमस्ते विश्वरुपाय नमो विष्णुसुखाय वै ॥२७॥
सहस्त्रश्मये नित्य्म नमस्ते सर्वतेजसे । नमस्ते सर्ववपुषे नमस्ते सर्वशक्तये ॥२८॥
जगत्स्वामिन्नमस्तेऽस्तु दिव्यचन्दनभूषित । पद्मनाभनमस्तेऽस्तु कुंड्लांगदधारिणे ॥२९॥
नमस्ते सर्वलोकेश सर्वासुर नमस्कृत । सुकृतं दुष्कृतं चैव सम्यग्जानासि सर्वदा ॥३०॥
सत्यदेव नमस्तेऽस्तु सर्वदेव नमोऽस्तु ते । दिवाकर नमस्तेऽस्ते स्त्रयीमय नमोऽस्तु ते ॥३१॥
एवं सूर्य नमस्कृत्य त्रिःकृत्वा च प्रदक्षिणाम् । द्विजं गां काञ्चनं स्पृष्टवा ततो विष्णुगृहं व्रजेत् ॥३२॥
स्नानं दिनं प्रतिदिनं कथितं मुनीन्दैः पापापहं मलहरं सुखदं सदैव । तस्मान्नदीष्वथ गृहे ष्वथ वा तडागे कर्तव्यमेतदिह धर्मधिया नरेण ॥३३॥ [ ५३३९ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नित्यस्नानविधिवर्णन नाम त्रयोर्विंशत्युत्तरशततमोऽध्यायः ॥१२३॥