युधिष्ठिर उवाच ॥
भगवन्केन तपसा व्रतेन नियमेन वा । दानेन केन वा लोके प्रोज्ज्वलत्वं प्रजायते ॥१॥
अतितेजोमहद्दीप्तं दीप्तांशुकिरणोज्ज्वलम् । शरीरं जायते येन तन्मे वक्तुमथार्हासे ॥२॥
श्रीकृष्ण उवाच ॥
मयुरायां पुरा पार्थ पिङ्गलो नामतापसः । आगतः स च मे पत्न्या जाम्बवत्या प्रपूजितः ॥३॥
पृष्टश्व प्रश्नमेवैतं स चावोचद्यथातथम् । तयापि मे समाख्यातं तत्सवै ते वदाम्यहम् ॥४॥
यदा यदा नृपश्रेष्ठ पुण्यकालः प्रपद्यतेः । संक्रातौ सूर्यग्रहणे चन्द्रपर्वणि वैधृते ॥५॥
त्वयने प्राप्ते दक्षिणे विषुवे तथा । एकादश्यां शुल्कपक्षे चतुर्दश्यां दिनक्षये ॥६॥
सप्तम्यामथवाष्टभ्यां स्त्रात्वा व्रत परो नरः । नारी वा भूमिदेवेभ्यः प्रयच्छेत्प्रयतांगणे ॥७॥
घृतकुंभेन दीपेन प्रज्वलंत प्रदीपकम् । युधिष्ठिर उवाच । भूमिदेवा इति प्रोक्तं यत्त्वया मधुसूदन ॥८॥
किमेतत्कौतुकं मेऽस्ति संशयं छेत्तुमर्हसि । श्रीकृष्ण उवाच । पुराकृतयुगस्यादौ त्रिशंकुर्नाम पार्थिवः ॥९॥
सस्वर्ग गंतुकामोऽभूच्चरिरेण नरोत्तम । ततश्वण्डालतां नीतो वसिष्ठेन महात्मना ॥१०॥
त्रिशंकुः सर्वमाचख्यौ विश्वासित्राय धीमते । सोऽपि मन्युवश्याद्यज्ञं चकाराहूय देवताः ॥११॥
न ता हविः प्रत्यगृहृग्ततः क्रुद्धः कुशात्मजः । विश्वामित्रस्तुकांपेन चकारान्यान्सुरोत्तमान् ॥१२॥
शृंगाटकान्नलिकेरान्पंचाननान जैडकान् । मेधारथदवार्ताकतारिकूष्माडकोद्रवान् ॥१३॥
उष्टान्मनुर्जदेवांश्वक्रोधान्मुनिरवासृजात् । च कारान्यान्सप्तऋषीप्रतिमासं सुरोत्तमान् ॥१४॥
ततः शक्रः समागम्य विश्वामित्रं प्रसाद्य वै । सृष्टिं निवारयामास येसृष्टास्ते तथापि च ॥१५॥
मर्त्यलोके च ते सर्वे देवां देवकुलेष्वथ । मंत्रैर्निबद्धाः पिंडेषु स्थिता मूर्तिभूतो यथा ॥१६॥
ब्रह्माविष्णुस्तथारुद्रो ये चान्ये देवतागणाः । लोकानाम्मुपकाराय मर्त्यलोकमुपागताः ॥१७॥
प्रतिमासु स्थिताः शश्वद्भोगान्भुञ्जति शाश्वतान् । वरप्रदाश्व भक्तानामिति ते गृह्यमीरितम् ॥१८॥
तेभ्यः पुरस्ताद्दातव्यं प्रज्वलंतं प्रदीपकम् । सूर्याय रक्तवस्त्रेण पूर्णवर्ति घृतेन प्लुतान ॥१९॥
दीपपात्रे प्रज्वलंतीमंत्रेणानेन दापयेत् । तद्विष्णोः परमंपदंसदापश्यंनिसूरयः । दिविवचक्षुराततम् ॥२०॥
पीतवस्त्रेण कृष्णाय श्वेतवस्त्रेण शूलिने । कौसुंभवस्त्रेणाढ्येन गौरीमुद्दिश्य दापयेत् ॥२१॥
लाक्षारक्तेन दुर्गायै पूर्णवातै प्रबोधयेत् । नीलवस्त्रेण कामाय गणनाथायखादिरे ॥२२॥
नागेभ्यःकृष्णवस्त्रेणग्रहेभ्य इषिकायुधाम् । देवाङ्गनापितृभ्यस्तु पितृवर्ति प्रबोधयेत् ॥२३॥
विशेषं शृणु सूर्याय पूर्णवर्तिर्निगद्यते । शिवायेश्वरवर्तीतिभोगवर्तिर्जनार्दने ॥२४॥
पद्मवर्तिर्विरिंचाय गौर्य्यै सौभाग्यवर्तिका । नागेभ्यो नागवर्तीति ग्रहवर्तिर्युधिष्ठिर ॥२५॥
नेत्रपट्टेन मधुना घृतेन मधुकुंडके । अर्चिते चर्चिते ललितायै प्रबोधयेत् ॥२६॥
मंत्रेणानेन राजेन्द्र तन्निशाम यवैदिकम् ॥२७॥
अग्नेत्वांकामयागिरातुभ्यंतागिरसस्तु विश्वाः । सुक्षितयःपृथक्पृथक् ॥२८॥
अग्रेकामायजेगिरेअग्निप्रियषु धामसु । कामोभूतस्यभव्यस्यराम्राडेकोविराजतिताभ्यांनामस्वाहा ॥२९॥
एवमेतेन विधिना ये प्रयच्छंति दीपकम् । विस्तीर्णे विपुले पांत्रे घृतकुंभे नियोजितम् ॥३०॥
यांति ते ब्रह्मसदनं विमानेनार्कवर्चसा । तिष्ठति द्योतमानास्ते यावदाभूतसंप्लवम् ॥३१॥
सदीपे तु यथा देशे चक्षूषिं बलवंति हि । तथा दीपस्य दातारो भवंति सफलेक्षणाः ॥३२॥
यथैवोर्ध्वगतिर्नित्यं राजदीपशिखासु वै । दीपदातुस्तथैवोर्ध्वगतिर्भवति शोभना ॥३३॥
घृतेन दीपो दातव्यो राजस्तैलेन वा पुनः । वसा मजादिभिर्देयो न तु दीपः कथंचन ॥३४॥
दीपस्तैलेन कर्तव्यो न तु कर्मविजानता । निर्वातपण च दीपस्य हिंसनं च विग्रर्हितम् ॥३५॥
यः कुर्यात्तेन कर्माणि स्यादसौ पुष्पितेक्षणः । दीपहर्ता भवत्यंयः काणो निर्वापको भवेत् ॥३६॥
पद्मसूत्रोद्भवांवर्ति गंधतैलेनदीपिताम् । विरोगः सुभगश्वैव दत्वा भवति मानवः ॥३७॥
प्रज्वाल्य देवदेवस्य कर्पूरेण तु दीपकम् । अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥३८॥
एतन्मयोक्तं तव दीपदानफलं समग्रं कुरुवंशचन्द्र । श्रुत्वा यथावत्सततं हि देया दीपास्त्वया विप्रसुरालयेषु ॥३९॥
अत्राप्युदाहरंतीममितिहासं पुरातनम् । दीपदानाल्ललिता पदवाप्तं पुरानघ ॥४०॥
आसीच्चित्ररथो नाम विदर्भेषु महीपतिः । तस्य पुत्रशंत राज्ञो जज्ञे पञ्चदशोत्तरम् ॥४१॥
एकैव कन्या तस्यासील्ललिता नाम नामतः । सर्वलक्षणसंपन्ना रुपेणाप्रतिमा भुवि ॥४२॥
तां ददौ काशिराजाय चार्वङ्गी चारुधर्मणे । शतान्यन्यानि भार्याणां त्रीण्यासंश्वारुधर्मणः ॥४३॥
तासां मध्येऽग्रमहिषी ललिता साप्यथाभवत् । विष्णोरायतने सा तु सहस्त्रं परिदीपकान् ॥४४॥
प्रज्वालयंत्यनुदिनं दिवारात्रमनिर्वृतम् । तामिस्त्रमाश्वयुक्पक्षुं शुल्कपक्षं च कार्तिकम् ॥४५॥
तस्याः प्रज्वलतो दीप उच्चस्थानकृतः शुभः । तस्मिन्काले तथा नित्यं ब्राह्मणावसथे च सा । व्यग्रा भवति सायाह्रे दीपप्रेषणतत्परा ॥४६॥
चतुष्पथेषु रथ्यासु देवतायतनेषु च । चैत्यदृक्षेषु गोष्ठेषु पर्वतानां च मूर्द्धसु ॥४७॥
पुलिनेषु नदीनां च कूपमूलेषु पांडव । तां सपत्न्योऽथसंगम्य पप्रच्छुरिदमादृताः ॥४८॥
ललिते वद भद्रं ते ललितं वदनं तथा । न तथा बलिपुष्पेषु न तथा द्विजपूजने ॥४९॥
भवत्याः सुमहान्यत्नों दीपप्रज्वालने यथा । तदेतत्कथयास्माकं ललिते कौतुकं परम् ॥५०॥
मन्यामहे त्वधावश्यं दीपदानफलं श्रुतम् । ललितो वाच ॥ नाहं मत्सरिणी भद्रा न च रागादिदूषिता ॥५१॥
एकपत्याश्रिताः साध्व्यो भवत्यो मम मानदाः । अपृथग्धर्मचरणाः शृण्वंतु गदितं मम ॥५२॥
मयैतद्दीपदानस्य यथेष्टं भुज्यते फलम् । हिरण्यदयिता भार्या शैलराजसुता वरा ॥५३॥
उमादेवीति मद्रेषु देविका सा सरिद्वरा । नराणाम्नुकंपार्थ ब्रह्मणा ह्यवतारिता । श्रुता किं भवतीभिः सा देविका पापनाशिनी ॥५४॥
तस्यां स्त्रात्वा सकृन्नद्या गाणपत्यमवाप्नुयाते । तस्यामथ नृसिंहाख्यं तीर्थ कल्मषनाशनम् । हरिणानृसिंहवपुषा यत्र स्त्रानं कृतं पुरान ॥५५॥
सौवरिराजस्य पुरा मैत्रेयो भूत्पूरिहितः । तेन चायतनं विष्णोः कारित देविकातटे ॥५६॥
अहन्यहनि शुश्रूषा पुष्पधूपानुलेपनैः । दपिदानादिभिश्वैव चक्रे तत्र स वै द्विजः ॥५७॥
कार्तिक्या दीपकस्तव प्रदत्तस्तेन चैकदा । आसीन्निर्बाणर्वरानना ॥५९॥
गृहीताथ मया वर्तिवृकदंशोररास च । नष्टा चाहं ततस्तस्य मार्जारस्य भयातु ॥६०॥
वक्रप्रांतेन पश्यंत्या स दीपः प्रेरिता मया । जज्वाल पूर्ववद्दीत्प्या तस्मिन्नायतने पुनः ॥६१॥
मृताहं च पुनर्जाता वैदभे राजकन्यका । रातिस्मरा महीयस्य महिषी चारुधर्मणः ॥६२॥
एष प्रभावो दीपस्य कार्तिके मासि शोभनः । दत्तस्त्या खतने विष्णोर्यस्येयं व्युष्टिरुत्तमा ॥६३॥
असंकल्पितमथ्यस्य प्रेरणं यन्मया कृतम् । केशवे बालदीपस्यतरयेदं भुज्यते फलम ॥६४॥
एतस्मात्कारणाद्दीपानहमेताहनिंशम् । प्रयच्छमिहरेर्गेहे जातमस्य महाफलम ॥६५॥
एवमुक्त्वा सपत्नीः सा दीपदानपरायणा । बभूवदेवदेवस्यकेशवस्यगृहेसदा ॥६६॥
ततः कालेन महता सह राज्ञा महात्मना । विष्णुलोकमनुप्राप्ता पंचत्वं प्राप्य मानदा ॥६७॥
तं लोकमासाद्य नृषेण साद्ध सारा जपत्नी कमलाभनेत्रा । रेमे महीपाल मुदा समेता दीपप्रदानात्सकलार्तिहीना ॥६८॥
दपिप्रदानमपि पुण्यरबं वदंति विप्राग्निगोसुरकुलैकगृहांगणेषु । तद्दानदीप्तवपुषाथ पथांधकारे गच्छन्नरः पताति न स्खलते कदाचित् ॥६९॥ [ ५६५८ ]
इति श्रीभविष्ये पुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे दपिदानविधिवर्णनंनाम त्रिंशदुत्तशतमोऽध्यायः ॥१३०॥