युधिष्ठिर उवाच ॥
दावान्यन्यानि मे कृष्ण कथयस्व यदूत्तम । मंगल्यानि पवित्राणि सर्वपापहराणि च ॥१॥
संसारसागरोत्तारहेतुभूतोऽसि माधव । धर्माधर्मपरिज्ञाने त्वदन्योनेह कश्वन ॥२॥
श्रीकृष्ण उवाच ॥ दानानि बहुरुपाणि कथितानि मया तव । पुनरेव प्रवक्ष्यामि यद्यस्ति तव कौतुकम् ॥३॥
कथितानि मया तुभ्यं कथयिष्यामि यानि च । महतार्थेन सिध्यंति प्रयच्छंति महत्फलम् ॥४॥
काम्यो दानविधिः पार्थ क्रियमाणः प्रयत्नतः । फलाय मुनिभिः प्रोक्तो विपरीतो भयाय च ॥५॥
ज्ञेयं निष्कशतं सर्वदानेषु विधिरुत्तमः । मध्यमस्तु तदर्द्धेन तदर्द्धेनावरः स्मृतः ॥६॥
एवं वृक्षरथेंद्राणांधेनोः कृष्णाजिनस्य च । अशक्तस्यापि कुष्टोऽयं पंचसौवर्णिको विधिः ॥७॥
अतोऽप्यूनेन यो दद्यान्महादानं नराधिप । प्रतिगृह्रति वा तस्य दुःखशोकावहं भवेत् ॥८॥
आदौ तावत्प्रवक्ष्यामिकालाख्यं पुरुषं तव । सप्तसागरदानं च महाभूतघटस्तथा ॥९॥
अर्घ्यप्रदान मत्रोक्तमात्मप्रतिकृतिस्तथा । सुवर्णाश्वः स्मृतः पष्ठः सुवर्णाश्वरथोऽपरः ॥१०॥
सर्वदानोत्तमं राजन्कृष्णाजिनमथाष्टमम् । विश्वचक्रं च नवमं हैमो गजरथस्तथा ॥११॥
एतत्ते दानदशकं वच्मि पार्थिवसत्तम । देहि दापय सद्बुद्धिं दाने नृप नरोत्तम ॥१२॥
दानादृते नोपकारो विद्यते धनिनोऽपरः । दीयमानो हि नापैति भूय एवभिवर्धते ॥१३॥
कूप उल्लिख्यमानोऽपि भवत्येव बहूदकः । पुण्य दिवमथासाद्य भूमिभागे समे शुभे ॥१४॥
चतुर्थ्या वा चतुर्दश्यां विष्टयां वा पांडुनंदन । पुमान्कृष्णतिलैः कार्योरौप्यदंतः सवर्णदृद् ॥१५॥
खङ्गोद्यतकरो दीर्णो जपाकुसुमकुंडलः । रक्ताबरधरः स्त्रग्वी शंखमालाविभूषितः ॥१६॥
तीक्ष्णसिपत्रधनुषा विरफारितकटीतटः । उपानद्युगयुक्तो हि कृष्ण कंबलप्रार्श्वगः ॥१७॥
गृहीतमांसपिंडेश्व वामकेरतले तथा । एवं विधं नरं कृत्वा गृहीतकुसुमांजलिः ॥१८॥
संपूज्य गंधकुसुमैर्नैद्यं विनिवेद्य च । तिलाज्यं जुहुयात्तत्र त्र्यंबकेति च मंत्रतः ॥१९॥
स्वगृह्योक्तविधानेन शतमष्टोत्तरं यजेत् । यजमानः प्रसन्नात्माइमं मंत्रमुदीरयेत् ॥२०॥
सर्व कलयसे यस्मात्कालत्त्वं भरण्यसे । ब्रह्माविष्णुशिवादीनां त्वमसाध्योऽसि सुव्रत ॥२१॥
पुजितस्त्वं मया भक्तया प्रार्थितश्व तथासुखम् । यदुच्यते तव विभो तत्कुरुष्व नमो नमः ॥२२॥
एवं संपूजयित्वा तं ब्राह्मणाय निवेदयेत् । अनेन विधिना यस्तु दानमेतत्प्रयच्छति ॥२४॥
नापमृत्युभयं तस्य न च व्याधिकृते भयम् । भवत्यव्याहतैश्वर्यः सर्वबाधाविवर्जितः ॥२५॥
देहांते सूर्यभवनं भित्त्वा याति परं पदम् । पुण्यक्षयादिहाभ्येत्य राजाभवति धार्मिकः । संतत्या च श्रिया युक्तः पुत्रपौत्रसमन्वितः ॥२६॥
संपूज्य कालपुरुषं विधिवदिद्वजाय दत्त्वा शुभाशुभफलोदयहेतुभूतः । रोगांतरे सकलदोषमये व दही विष्णोः पदं समुपगच्छति तत्प्रभावात् ॥२७॥ [ ७३६५ ]
इति श्रीभविष्ये महापुराणे उत्तरर्वणि श्रीकृष्णयुधिरसंवादे कलपुरुषदानविधिवर्णनं नामैकाशीत्युत्तरशततमोऽध्यायः ॥१८१॥