श्रीकृष्ण उवाच ॥
पुरां वामनरुपेण याचयित्वा धरामिमां । बालेयज्ञ हरिः सर्व क्रान्तवान्विक्रमैस्त्रिभिः ॥१॥
इन्द्राय दत्तवान्राज्यं बलिं पातालवासिनम् । कृत्वा दैत्यपतेर्वासमहोरात्रं पुनर्नृप ॥२॥
एकमेव हि भोगार्थ बलिराज्येतिचिह्रितम् । सरहस्यं तदेतत्ते कथयामि नरोत्तम ॥३॥
कार्तिके कृष्णपक्षस्या पञ्चद्श्यां निशागमे । यथेचेष्टा दैत्यानां राज्यं तेषां महीतले ॥४॥
युधिष्ठिर उवाच ।
निश्शेषेण हृषीकेश कौमुदीं ब्रूहि मे प्रभो । किमर्थ दीयते दानं तस्यां का देवता भवेत् ॥५॥
किंस्वित्तेषां भवेद्देय केभ्यो देयं जनार्दन । प्रहर्षः कोऽत्र निर्दिष्टः क्रीडा कत्र प्रकीर्तिता ॥६॥
श्रीकृष्ण उवाच ।
कार्तिके कृष्णपक्षे च चतुर्दश्यां दिनोदये । अश्यमेव कर्तव्यं स्नानं नरकभीरुभिः ॥७॥
अपामार्गपल्लवान्वा भ्रामयेन्मतक्परि । सीतालोष्टसमायुक्तसंकटकदलन्वितान् ॥८॥
हर पापमवामार्गभ्राम्यमाणं पुनः पुनः । अपामार्गभ्रमणमंत्रः ॥ आपदंकिल्बिषं चापि ममापहर सर्वशः ॥९॥
अपामार्ग नमस्तेस्तु शरीरं मम शोधय । ततश्व तर्पेणंकार्यधर्मराजस्यनामभिः ॥१०॥
यमाय धर्मराजाय मृत्यवे चांतकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ॥११॥
नरकय प्रदातव्यो दीपः संपूज्य देवताः । ततः प्रदोषसमये दीपान्दद्यमनोरमान् ॥१२॥
ब्रह्मविष्णुशिवादीनां भवमेषु मठेषुच । कूटागोषुचैत्येषुसुभासुचनदीषुच ॥१३॥
प्राकारोद्यानवापीलुप्रतो निष्कुटेषुच । सिद्धर्हबुद्धचामुंडभैरवायतनेषुच ॥१४॥
मंडुरासु विविक्तासु हस्तिशाल सुचैव हि । एवं प्रभातसमये ह्यमावास्यां नराधिप ॥१५॥
स्नात्वा देवन्पितृण्भक्त्या संपूज्याथ प्रणम्य च । कृत्वातुपार्वगं श्राद्धंदधिक्षीरघृतादिभिः ॥१६॥
भोज्यैर्नानाविद्यैर्विप्रान्तोजयित्वा क्षमाप्य च । ततोऽपराह्रसमये घोषयेन्नगरे नृपः ॥१७॥
अद्य राज्यं बलेर्लोका यथेष्टं मोद्यतामिति । लोकश्वापि परेहृष्येत्सुधाधवलिताजिरे ॥१८॥
गंधच्न्दनमालाढ्यैश्वर्चिते च गृहे गृहे । द्यूतपानरतोद्दप्तनरनारीमनोहरे ॥१९॥
नृत्यवादित्रसंघष्टे संप्रज्वलितदीपके । अन्योन्यप्रीतिसंद्रष्टदत्तलाभे नवे जने ॥२०॥
तांबूलहृष्टवदने कुंकुमक्षोदचर्चिते । दुकूलपट्टनेपथ्ये स्वर्गमाणिक्यभूषिते ॥२१॥
अद्भुतोद्भटशृंगारप्रदर्शितकुतूहले । युवतीजनसंकीर्णवस्त्रोज्ज्वलविहारिणि ॥२२॥
दीपमालाकुले रम्ये विध्वस्तध्वांतसंचये । प्रदोषे दोषरहिते शस्तदोषागमे शुभ ॥२३॥
शशिपूर्णमुखभिश्वकन्याभिःक्षिप्ततंडुलम् । नीराजनं प्रकर्तव्यं वृक्षशाखासुदीपकैः ॥२४॥
भ्राम्यमाणोनतो मूर्ध्नि मनुजानां जनाधिप । वृक्षशाखांतदीपानांनिरस्ताद्दर्शनाद्व्रजेत् ॥२५॥
नीराजनंतुतेनेहेप्रोच्यतेविजयप्रदम् । तस्माज्जनेन कर्तव्य रक्षोदोषभयापहम् ॥२६॥
यात्राविहारसंचारे जयजीवेति वादिनः । क्षुद्रोपसर्गरहिते राजचौरभयोज्झिते ॥२७॥
मित्रस्वजनसंबंधिमुहृत्प्रेमानुरंजिते । ततोऽर्द्धरात्रसमये स्वयं राजाव्रतेत्पुरम् ॥२८॥
अबलोकयितुं रम्यं पद्धयामेव शनैः शनैः । महता तूर्यघोषेणः ज्वलद्भिर्हस्तदीपकैः ॥२९॥
कृतशोभां पुरीं पश्येत्कृतरक्षः स्वकैर्नरैः । तद्दृष्टवा महदाश्वर्यमृद्धिंचैवात्मनः शुभाम् ॥३०॥
बलिराज्यप्रमोदं च ततः स्वगृहमाव्रजेत् । एवं गते निशार्धे तु जने निद्रार्द्रलोचने ॥३१॥
तावन्नगरनारीभिः शूपीडिंमवादनैः । निष्क्राम्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहाङ्गणात् ॥३२॥
ततः प्रबुद्धे सकले जने जातमहोत्सवे । माल्यदीपकहस्ते च स्नेहनिर्भरलोचने ॥३३॥
वेश्याविलासिनीसार्धस्वस्थिमङ्गलकारिणी । गृहाद्गृहंव्रजंतीचपादाभ्यंगप्रदायिनी ॥३४॥
पिष्टकोदूर्तनपरे गुरुशुश्रूषणाकुले । द्विजाभिवादनपरे सुखराज्यभिवीक्षणे ॥३५॥
सुवासिनीभ्यो दाने च दीयमाने यदृच्छया । तथा प्रभातसमये राजार्हमानयेज्जनम् ॥३६॥
सद्भावेनैव संतोष्या देवाः सत्पुरुषाद्विजाः। इतरे चान्नपानेन वाक्प्रदानेन पंडिताः ॥३७॥
वस्त्रैस्तांबूलदानैश्व पुष्पकर्पूरकुंकुमैः भक्ष्यैरुच्चावचैर्बोज्यैरन्तः पुरविलासिनीः ॥३८॥
ग्रामैर्विषयदानैश्व सामंतनृपतिः धनैः । पदातीनङ्गसंलग्नान्ग्रैवेयकटकैः स्वकान् ॥३९॥
स्वयं राजा तोषयेत्स्वजनान्भृत्यान्पृथक्पृ थक् । यथार्हं तोषयित्वा तु ततो मल्लनटन्भटान् ॥४०॥
वृषभान्महिषांचैव सह । वृषभान्महिषांचैव वृषभान्महिषांचैव युध्यमानान्परैः सह । गजानश्वांश्व योधाश्व पदतीन्समलंकृतान् ॥४१॥
मंचारुढः स्वयं पश्येन्नटनर्तकचारणान् । क्रुद्धापयेदानयेच्च गोमहिष्यादिकं ततः ॥४२॥
दिष्टया कार्य क्रीडनकमुक्तिप्रत्युक्तिका वदेत् । ततोऽपराहृसमये पूर्वस्यां दिशि भार्त ॥४३॥
मार्गपालीं प्रवध्नीयात्तुंगस्तभिऽस्थ पादपे । कुशकाशमयीं दिव्यां संभवे बहुभिर्वृताम् ॥४४॥
पूजयित्वा मजान्वाजीन्सार्धे यामत्रये गते । गावो वृषाः समहिषा मण्डिताघण्टिकोत्कटाः ॥४५॥
कुतेहोमेद्विजेन्द्रैस्तु गृह्रीयान्मार्गपालिकाम् । राष्ट्रभोज्येन धाराभिः सहस्त्रेण शतेन वा ॥४६॥
स्वशक्त्यपेक्षनावापिगृह्रीयाद्वामभोजनैः । मातुकुलं पितृकुलमात्मानं सह बंधुभिः ॥४७॥
संतारवेत्स सकलं मार्गपालीं ददाति यः । नीराजनं तत्रैव कार्य राज्ञे जयप्रदम् ॥४८॥
मार्गपालीतलेनेत्थं हया गावो गया वृषाः । राजानो राजपुत्राश्व ब्राह्मणाः शूद्रजातयः ॥४९॥
मार्गपाली समुल्लंघ्य नीरुजः स्यात्मुखी सदा । कृत्वैतत्सर्वमेवेहररात्रैदैत्यपतेर्बलेः ॥५०॥
पूजां कुर्यान्नरः साक्षाद्भूमौ मंडलके कृतं । बलिमालिख्य दैत्येन्द्रं वर्णकैः पंचरंगकैः ॥५१॥
सर्वाभरणसंपूर्ण विंध्यावल्यासहासितम् । कूष्माडबाणजंघोमुरदान वसंवृतम् ॥५२॥
संपूर्णहृष्टवदनं किरीटोत्कटकुंडलम् । द्विभुजं दैत्यराजानं कारयित्वा नृपः स्वयम् ॥५३॥
गृहस्यमध्यशालायांविशालायांततोऽर्चयेत् । भ्रातृमंत्रिजनैः सार्द्धं संतुष्टो बंदिभिः स्तुतः ॥५४॥
कमलैः कुमुदैः पुष्पैः कह्रारैरक्तकोत्पलैः । गन्धधूपान्ननैवेद्येरक्षतैर्गुडपूपकैः ॥५५॥
सद्यमांससुरालेह्यदीपवर्त्युपहारकैः । मंत्रेणानेन राजेन्द्र समंत्रीसपुरोहितः ॥५६॥
बलिराजनमस्तुभ्यं विरोचनसुतप्रभो । भविष्येन्द्र सुराराते पूजेयंप्रतिगृह्यताम् ॥५७॥
एवं पूजा नृपः कृत्वा रात्रौ जागरणं ततः । कारयेत्प्रेक्षणीयादिनक्षत्रकथानकैः ॥५८॥
लोकश्वापि गृहस्यांते शय्यायां शुक्लतंदुलैः संस्थाप्य बलिराजानंफलैः पुष्पैश्वपूजयेत् ॥५९॥
बलिमुद्दिश्य दीयंते दानामि कुरुनन्दन । यानि तान्यक्षयाण्यहुर्मयैवं संप्रदर्शितम् ॥६०॥
यदस्यां दीयते दानं स्वल्पं वा यदि वा बहु । तदक्षयं भवेत्सर्व विष्णोः प्रीतिकरंपरम् ॥६१॥
विष्णुना वसुधा लब्धा प्रीतेन बलये पुनः । उपकारकरो दत्तश्वासुराणां महोत्सवः ॥६२॥
ततः प्रभृति राजेन्द्र प्रवृत्ता कौमुदी पुनः । सर्वोपद्रवविद्राची सर्वविघ्नविनाशिनी ॥६३॥
लोकशाकहरी काम्या धनपुष्टिसुखावहा । कुशब्देन मही ज्ञेया मुदा हर्षे ततः परम् ॥६४॥
धातुज्ञैर्नैगमज्ञैश्व तेनैषा कौमुदी स्मृता । कौ मोदन्ते जना यस्यां नानाभावेः परस्पराः ॥६५॥
ह्ष्टास्तष्टाः सुखायत्ताःस्तेनैषा कौमुदी स्मृता । कुमुदानि चलैर्यस्माद्दीयन्तेऽस्यां युधुष्ठिर ॥६६॥
अर्थार्थे पार्थ भूमी च तेनैषा कौमुदी स्मृता । एकमेवमहोरात्रं वर्षे वर्षे दिशांपते ॥६७॥
दत्तं दानवराजत्य आदर्शमिव भूतले । यः करोति जृपो राष्ट्रे तस्य व्याधिभयं कुतः ॥६८॥
कुत ईतिमियं तत्र नास्ति मृत्युकृतं भयम् । सुभिक्षंक्षेममारोग्यंसर्वसम्पदौत्तमाः ॥६९॥
नीरुजश्वजनाः सर्वेसर्वोपद्रववर्जिताः । कौमुदीकरणाद्राजन्भवन्तीहमहीतले ॥७०॥
यो यादृशेन भावेन तिष्ठत्यस्यां युधिष्ठिर । हर्षदैन्यादिरुपेण तस्य वर्ष प्रयाति हि ॥७१॥
रुदिते रोदिति वर्ष हृष्टो वर्ष प्रहष्यति । भोक्ता भवेद्वर्ष स्वस्थःस्वस्थो भवोदीति ॥७२॥
तस्मात्प्रहृष्टैस्तृष्टैश्व कर्तव्या कौमुदी नरैः । वैष्णवी दानवी चेयं तिथिः पैत्री युधिष्ठिरे ॥७३॥
उपशामितमेघनादं प्रज्वलितदशाननं रमितरामम् । रामायणीमिव सुभगं दीपदिनं हरतु दुरितम् ॥७४॥
कूष्माण्डदानरम्यं कुवलयखण्डैश्व धातुकाभवम् । शरदि हरिगतनिद्रं दीपदिनं हरतु वो दुरितम् ॥७५॥
दीपोत्सवे जनितसर्वजनप्रमादौ कुर्वति ये सुमनसो बलिराजपूजाम् । दानोपभोगसुखवृद्धिशताकुलानां हर्षेण वर्षमिह पार्थिव याति तेषाम् ॥७६॥ [ ६२०१ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयधिष्ठिरसंवादे दीपावलिकोत्सववर्णनंनामचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४०॥