युधिष्ठिर उवाच ॥
धनावृते वरे देवे वर्षाकाले ह्युपस्थिते । मयूरकेकाकुलिते दर्दुरारावपूरिते ॥१॥
कुलस्त्रियः प्रयच्छन्ति कस्यान्नं काऽव्र देवता । किं व्रतं कृष्ण विख्यातमन्नं कस्यां तिथौ भवेत् ॥२॥
श्रीकृष्ण उवाच ॥ प्रवन श्रावण मासि कृष्णपक्षे ह्युपस्थिते । एकादश्यां शुचिर्भूत्वा सर्वौषधिजलैः शुभैः ॥३॥
भाषचूर्णेन राजेन्द्र कुर्यादिन्दुरिकाशनम् । मोदकांश्व तथा पञ्च घृतपक्रान्युनिर्मलान् ॥४॥
नरमकैकमुद्दिश्य ततो गत्वा जलाशयम् । दुष्टयादोविहितं सतोयं जलजैर्युम् ॥५॥
तस्यैच पुलिने सम्ये जुष्टान्ने गोमयादिना । कृत्वा मण्डलकं वृत्तं पिष्टादिभिरर्चिनम् ॥६॥
चर्चितं गन्धकुसमैर्धूपदीपाक्षतोज्ज्वलम् । तव्र चन्द्रं लिखेदेव रोहिण्या सहिसं विभुम् ॥७॥
अर्चयेच्च सभार्यो वै मन्व्रैणानेन भावितः । सोमराज नमस्तुभ्यं रोहिण्यै ते नमो नमः ॥८॥
महासति महादेवि संपादय ममोप्सितम् । एवं संपूज्य तस्यांग्र नैवेद्यं देयमर्चितम् ॥९॥
तव्रैव ब्राह्नणे दद्यात्सोमो मे प्रीयतामिति । प्रीयतामिति मोदेवी रोहिणी सहितप्रिया ॥१०॥
एवमुच्चार्य दत्त्वा च ततोऽन्तर्जलभाविशेत् । कण्ठान्तं कटिमापं वा गुल्फान्तं वा जलशये ॥११॥
ध्यायेत मनसा सोमं रोहिणीसहिनं तदा । यावत्समस्त ग्रद्भुक्तं भुक्त्व्रा चान्तस्तटे स्थितः ॥१२॥
नियम्य वसतां चान्ये ततरे विप्राय भोजनम् । दक्षिणासहितं देयं निश्वयं बाचि कल्पयेत् ॥१३॥
भक्त्या शक्त्या यथाचित्त यथावित्तं तथा तथा । यः करोति नसे राजन्नारी वाथ कुमारीका ॥१४॥
वर्षे वर्षे विधानेन पार्थेदं रोहिणीव्रतम । इहलोके चिरं स्थित्वा धनधान्यसमाकुले ॥१५॥
गृहाश्रमे शुभां लब्ध्वा पुव्रपौव्रादिसन्ततिम् । ततः सुतीर्थे मरणं ततो ब्रह्मपुरं व्रजेत् ॥१६॥
तस्माद्विष्णुरं पार्थ ततो रुद्रपुरं शुभम् ॥१७॥
खे रोहिणीशशधराभिमता हिता च किं कारण्यं शृणु नरेन्द्र निबेदयामि । संपिष्टमाषरचितेन्दुरिकाशतं यद्भुक्तं जले गुडघुतेन फलं तदेतत् ॥१८॥ [ २६९५ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रोहिणिचन्द्रव्रतं नाम सप्तषष्टितमोऽध्यायः ॥६७॥