श्रीकृष्ण उवाच ॥
विदर्भाधिपतिः श्रीमानासीत्पूर्वं सुधार्मिकः । दमयन्त्याः पिता पूर्वं नलस्य श्वशुरो भुवि ॥१॥
सत्यवादनशीलश्व प्रजापालनतत्परः । क्षव्रधर्मरतः श्रीमान्संग्रामेष्वपराजितः ॥२॥
तस्यापि कुर्वतो राज्यं शास्त्रद्दष्टेन कर्मणा । आजगाम महाभागः पुलस्त्यो ब्रह्मणः सुतः ॥३॥
सर्वज्ञाननिधिः श्रीमांस्तीर्थयाव्राप्रसङ्गतः । तमागतमथो द्वष्टवा ब्रह्मयोनिमकल्मषम् ॥४॥
उत्थाय प्रददौ राजा स्वमामनमभीष्सितम् । अर्धं पाद्यं च यक्तिञ्चित्त स्मै प्रददौ स्वयम् ॥५॥
राज्य चैवात्मना सर्द्धं निवेध स कृताञ्जलिः । तेन चैवाभ्यनुज्ञातो निषसाद वरासने ॥६॥
पप्रच्छ कुशल प्रश्नं तपस्यध्ययने तथा । तथेति चोकत्वास मुनिस्तं राजानमभाषत ॥७॥
पुलस्त्य उवचि ॥ कच्चित्ते कुशलं राजम्कोशे जनपदे पुरे । धर्मे च ते मतिर्नित्यं कच्चित्पार्थिव वर्तते ॥८॥
भीम उवाच ॥ सर्वव्र कुशलं ब्रह्यन्येषां कुशलमिच्छसि । तव चागमनेनाहं पावितः सङ्गवारिणा ॥९॥
एवं तौ संविदं कृत्वा संभाष्याथ परस्परम् । रेमाते पूर्ववृत्तान्तैः कथाभिरितरेतरम् ॥१०॥
ततः कथान्ते राजेन्द्र लस्त्यं जातबिस्मयः । पप्रच्छ सर्वलोकस्य हिताय जगतः पतिः ॥११॥
भगवन्प्राणिनः सर्वे संसारार्णवमध्यगाः । द्दश्यन्ते विविधैर्दुःखैः पीडन्यमाना दिवानिशम् ॥१२॥
नरके गर्मवासे च व्याधिभिर्जन्यना तथा । तथा कष्टवियोगादिदुःखैर्दौर्गत्यसंभवैः ॥१३॥
लालप्यमाना बहवः । परपीडोपजीविनः एवंविधान्यनेकानि दुःखानि मुनिपुदुव ॥१४॥
द्दष्ट्रवैव तानि तान्येव भृशं मे व्याधितं मनः । तेषां दुःखानि भूतानां प्राणिनां भुवि मानद ॥१५॥
उपकारकरं ब्रूहि ममानुग्रहकाम्यया । स्वल्पायासेन भगर्वंञ्जायते सुमहत्फलम् ॥१६॥
पुलस्त्य उवाच । शृणु राजन्प्रवक्ष्यामि व्रतानामुत्तमं व्रतम् । यामुपोष्य न दुःखानां भाजनो जायते जनः ॥१७॥
माघमासे सिते पक्षे द्वादशी पावनी स्मृता । तस्यां जलाद्रवसने उपोष्य सुखभारभवेत् ॥१८॥
भीम उवाच ॥ कथं सा मुनिशादूंल उपोष्या द्वादशी भवेत् । विधिना केन विप्रेन्द्र तन्मे ब्रूहि यथाक्र्मम् ॥१९॥
पुलस्त्य उवाच । शृणु राजन्नवहितो व्रतं पापप्रणाशनम् । तव शुश्रूषणाद्वाच्यं ममाप्येतन्न संशयः ॥२०॥
अदीक्षितायनोदेया नाशिष्याय कदाचन । विष्णुभक्ताय शान्ताय धर्मनिष्ठाय चैव हि ॥२१॥
वाच्यमेत - महाराज भवतान्यस्य व क्कचित् । ब्रह्महा गुरुघाती च बालस्त्रीघातकस्तथा ॥२२॥
कृतन्घो सिव्रध्रुक्चौरः क्षुद्रो भग्नव्रतस्तथा । सुच्यते पातकैः सवैंर्व्रतेनानेन भूपते ॥२३॥
शुद्धे तिथौ सुहूर्ते च मण्डपं कारयेत्ततः । दशहस्तप्रसाणेन दशपूर्वोत्तरे प्लवे ॥२४॥
तन्मध्ये पञ्चहस्तां तु वेदिकां परिकल्पयेत् । शुक्लां सुकुट्टिमां भूमिं वेयां कृत्वा प्रयत्नतः ॥२५॥
विलिखेन्मण्डलं तव्र पञ्चवणैंर्विधानतः । ब्राह्मणो वेदसंपन्नो विष्णुभक्तो जितेन्द्रियः ॥२६॥
पञ्चविंशतितत्त्वज्ञः स्वाचाराभिरतस्तस्तथा । कृण्डानि कल्पयेत्तव्र अष्टौ चत्वारि वा पुनः ॥२७॥
ब्राह्मणांस्तेषु युञ्जीत चातुश्वरणिकाञ्छुभान् । मध्ये च मण्डलस्याथ कणिंकायां जनार्दनम् ॥२८॥
प्रत्यङ्रसुखं न्यसेद्देव चतुर्बाहुमरिन्दम । पूजयेत्तं विधानेन शास्त्रोक्तेन विचक्षणः ॥२९॥
गन्धैः पुष्पैरतथा धूपैनैंवेद्यौविंविधैरपि । एवं संपूज्य देवेशं बाह्यणैः सह देशिकः ॥३०॥
न्यसेत्स्तम्भदूयं पश्वात्तिष्ठन्काष्ठसमन्वितम् । देवस्याभिसुखं तव्र पीठं तु परिकल्पयेत् ॥३१॥
षटव्रिंशदङगुलं श्रेष्ठं चतुरस्त्रं समन्ततः । तव्र शिक्यं समालम्ब्य सुवृत्तं सुद्दत्तं नवम् ॥३२॥
आरोपयेद्धटं तव्र याद्दशं तच्छृणुष्व मे । कलधौतं तथा रौप्यं ताम्रं वाप्यथ मृन्मयम् ॥३३॥
सर्वलक्षणसंयुक्तं द्दढं व्यङ्गविवर्जितम् । तत्सहस्त्रं शतं कुर्यादेकच्छिद्रमथापि वा ॥३४॥
कुशलत्वानुरूपेण शतैकच्छिद्रमेव वा । सन्निधाने ततः कुर्यात्सलिलं वस्त्रपावनम् ॥३५॥
होमार्थं कल्पयेच्चापि पालश्यः समिघः शुभाः । तिला घृतं तथा क्षीरं शभीपव्राणि चैव हि ॥३६॥
वेद्याः पूर्वोत्तरे भागे ग्रहपीठं ग्रहपीठं प्रकल्पयेत । तव्र पूज्या ग्रहाः सर्वे ग्रहयज्ञविधानतः ॥३७॥
पूर्वस्यां दिशि शक्रस्य पूजां कुर्वीत यत्नतः । दक्षिणस्यां यमस्याथ प्रतीच्यां वरुणस्य च ॥३८॥
कुबेरस्य तथोदीच्यां बलिं कुर्यात्फलाक्षतैः । एवं संभृत्य संभारं शुक्लाम्बरधरस्तथा ॥३९॥
समालभ्य शुभैर्गन्धैर्दर्भपाणिरतन्द्रितः पीठमारोपयेयुस्ते यजमानं द्विजोत्तमाः ॥४०॥
यजमानोऽपि देवस्य संमुखह प्रयतः शुचिः । उपविश्य पठेन्मन्व्रं पुराणोक्तमिदं शृणु ॥४१॥
नमस्ते देवदेवेश नमस्ते भुवनेश्वर । व्रतेनानेन मां व्राहि परमात्मन्नमोस्तु ते ॥४२॥
ततोदकस्य धारास्ताः प्रत्यङ्गेंषु समन्विताः । शिरसा धारयेत्तूष्णीं तद्नतेनान्तरात्मना ॥४३॥
होमं कुर्यस्ततो विप्रा दिक्षु सर्वासु तत्पराः । पठेयुः शान्तिकाध्यायं विष्णुसंज्ञानि यानि वै ॥४४॥
वादिव्रैस्ताडन्यमानैश्व शङखगेयस्वनैस्तथा । पुण्याहजयशब्दैश्व वेदस्वनविमिश्रितैः ॥४५॥
मङ्गलैः स्तुतिसंयुक्तैः कारयेत्तन्महोत्सवम् । देवदेवस्य चरितं केशवत्य महात्मनः ॥४६॥
हरिवंशादिकं सर्वं श्रावयेद्ब्राह्मणो वरः । सौपणिंकमथाख्याने भारताख्यानमेव च ॥४७॥
व्याख्यानकुशलाः केचिच्छ्रावयेयुरतन्द्रिताः । अनेन विथिना सर्वां तां राव्रिं प्रीति बर्द्भिनीम् ॥४८॥
यजमानो नयेद्धीमान्यावत्सूर्योदयो भवेत् । ब्राह्मणाश्वापि तां राव्रीं जुह्रतो जातवेदसम् ॥४९॥
मन्व्रैस्तु वैष्णवैर्दिव्यैः क्षपयेयुर्महीपते । बासुदेवस्य शिरसि वसोर्ध्दारां प्रपातयेत् ॥५०॥
क्षीरेणाज्येन वा राजन्सर्वसिद्धिप्रदायिनीम् । ततः प्रभातसमये यजमानो द्विजैः सह ॥५१॥
स्नानं कुर्यान्नृपश्रेष्ठ नद्यां सरसि वा पुनः । अथवा शक्तिहीनस्तु यजमानोष्णवारिणा ॥५२॥
ततः शुक्लानि वस्त्राणि परिधाय यतव्रतः । अर्भ्यं दत्त्वा भास्कराय सविधानं प्रसन्नधीः ॥५३॥
पुष्णैर्धूपैः सनैवद्यैः पूजयेत्पुरुषोत्तमम् । हुत्वा हुताशनं भक्त्या दत्त्वा पूर्णाहुति ततः ॥५४॥
पूजयेद्राह्मणान्सर्वान्होतारो यज्ञकल्पिताः । शय्याभोजनगोदानैर्वस्त्रैराभरणैस्तथा ॥५५॥
आचार्यः पूजनीयोऽव्र सर्वस्वेनापि भारत । येन वा तस्य संतुष्टिर्देवतुल्यो गुरुर्यतः ॥५६॥
वित्तशाठन्यविहीनस्तु भक्तिशक्तिसमन्चितः । दीनानाथविशिष्टाश्व बन्दिनश्व समागताः ॥५७॥
तेषामन्नं हिरण्यं च दद्याच्छुद्धेन चेतसा । एवं संपूज्य विप्राय भोजयित्वा यथेप्सितम् ॥५८॥
यथाविभवसारेण पश्वाद्धञ्जात वाग्यतः । हविष्यमन्नं यज्ञेन हविष्याः सतिलास्तथा ॥५९॥
एवं यज्ञो महाराजंश्वोक्तस्ते संप्रकीतिंतः । पापिष्ठाः सर्वषापेभ्यो सुच्यन्ते नाव्र संशयः ॥६०॥
वाजपेयातिराव्राभ्यां ये यजन्ति शतं समाः । सर्वे ते विष्णुयागस्य कलां नार्हन्ति षोडशीम् ॥६१॥
सप्त जन्मानि सौभ्याग्यमायुरारोग्यसंपदः । प्रान्पोति द्वादशीसेतां तामुपोष्यविधानतः ॥६२॥
मृतो विष्णुपुरं याति विष्णुना सह मोदते । चतुर्युगानि द्वाव्रिंशद्विष्णुरूपधरः स्थितः ॥६३॥
रुद्रलोके तथा राजन्युगानि द्वादशैव तु । ब्रह्मलोके तथा व्रीणि सूर्यलोके युगानि च ॥६४॥
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः । पृथिव्यधिपतिः श्रीमान्विजितारिः प्रतापवान् ॥६५॥
व्रतमेतत्पुरा चीर्णं सगरेण महात्मना । अजेन धुन्धुमारेण दिलीपेन ययातिना ॥६६॥
अन्यैश्व पृथिवीपालैः पालितं शेषभूतलैः । स्त्रीभिर्वैश्यैस्तथा शृद्नैर्धर्मकामैः सदा नृप ॥६७॥
भृग्वाद्यिर्सुनिभिः सर्वैर्बाह्मणैर्वेदपारगैः । त्वया च पृष्टेन मया कथितं ते नराधिप ॥६८॥
अद्यप्रभृति चैवेयं ख्यातिं यास्यति भूतले । भीमाख्या द्वादशी चोते कृतकृत्या च भारत ॥६९॥
एषा पुलस्त्यमुनिना कथिता कुरुनन्दनयश्वैनां कथितां ध्यात्वा कुयीद्वा भक्तिभावतः ॥७०॥
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते । दरिद्रा श्वापि भोः पार्थ वित्तशाठन्यं विवर्जयेत् ॥७१॥
विष्णुभक्तेन कर्तव्या संसारभयभीरुणा ॥७२॥
भीमेन या किल पुरा समुपोषिता च राव्रौघटस्थितसुशीतलवारिधारा । तां द्वादशीं दशमुखारिमुखाच्छुतां च सम्याव्रती चरति याति स विष्णुलोके ॥७३॥ [ ३०७३ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णपुधिष्ठिरसंवादे भीमद्वादशीव्रतवर्णनं नाम चतुःसप्ततितमोऽध्यायः ॥७४॥