युधिष्ठिर उवाच ॥
उपवासेष्वशक्तस्य तदेव फलमिच्छतः । अनभ्यासेन योगस्य किमिष्टं व्रतमुच्यते ॥१॥
शिवस्योपरि यस्य स्याद्भक्तिः सुर्यस्य संभवेत् । नक्षत्राख्यं व्रतं तेन कथं कार्य वदस्व मे ॥२॥
श्रीकृष्ण उवाच ॥ उपवोसष्वशक्तानां नक्तं भोजनमिष्यते । अस्मिन्व्रते तदप्यत्र श्रूयताम क्षयं महत् ॥३॥
शिवनक्षत्रपुरुषं शिवभक्तिप्रदायकम् । यस्मिन्नक्षत्रयोगे तु पुराणज्ञाः प्रचक्षते ॥४॥
फाल्गुंनस्यामले पक्षे यदा हस्तं प्रजायते । तदा ग्राह्यं व्रतं चैव नक्तेन शिवपूजनम् ॥५॥
शिवायेति च हस्तेन पादौ पूज्यतमौ स्मृतौ । शंकराय नमो गुल्फौ पूज्यौ चित्रासु पांडव ॥६॥
भीमायेति च स्वातीषु पूजयेत्पुरुषर्षभ । ऊरुद्वयं विशाखासु त्रिनेत्रायेति पूजयेत् ॥७॥
मेढ्रें चैवानुराधासु अनङ्गाङ्गहराय । कटिं ज्येष्ठासु च तथासुरज्येष्ठेति चार्चयेत ॥८॥
दानाख्याय नमो नाभिः पूज्या मूलेन शूलिनः । पूर्वोत्तराषाढ्युगे पार्श्वे वै पार्वतीपतिः ॥९॥
श्रवणेन तथा कुक्षी पूज्ये कपालिनेति च । वक्षःस्थलं धनिष्ठासु सद्योजातेति नाम च ॥१०॥
वामेतिपूजयेत्पार्थ हृदयं शतभिषासु च । पूर्वोत्तरायुगे बाहू नमः खटावङ्गधारिणं ॥११॥
पूज्यं रुद्राय च तथा रेवतीषु करद्वयम् । नखाः पूज्याऽश्विनी योगे नमः खण्डेःदुधारिणे ॥१२॥
भरणीषु ततःपृष्ठं वृषांकाय नमोऽस्तु ते । कृत्तिवासाय च तथा कृत्तिकासु कृकाटिकाम् ॥१३॥
वाक्पूज्या रोहिणीयोगे नमो वाचस्पतेति च । मृगोत्तमांगेधशनान्भैरवायेति वै नमः ॥१४॥
आर्द्रासु पूज्यावधरौ स्थाणवेतियुधिष्ठिर । नासा पुनर्वसौ पूज्या पूषदंतविनाशिने ॥१५॥
पुष्ये नेत्रत्रयं पूज्यं नमस्ते सर्वदर्शिने । आश्लेषायां ललाटं च त्र्यम्बकाय नमो नमः ॥१६॥
मघासु च जटाजूटं पूजयेदंधकारये । पूर्वाफाल्गुनिकायुग्मे श्रवणे सोमधारिणे ॥१७॥
नमोऽस्तु पाशां कुशपद्मशूलकपालसर्पेन्दुधनुर्द्भराय । गजासुरानंगरान्धकादिविनाशमूलाय नमः शिवाय ॥१८॥
शिरःसंपूजयैद्दद्यात्ततो धूपविलेपनम् । ततस्तु रात्रौ भोक्तव्यं तैलक्षारविवर्जितम् ॥१९॥
शालयेतंदुलप्रस्थं घृतपात्रेण संयुतम् । दद्यात्सर्वेषु नक्तेषु ब्राह्मणाय नृपोत्तम ॥२०॥
शक्त्यभावे न दोषः स्यादधिके चाधिकं फलम् । नक्षत्रयुग प्राप्ते नक्तयुग्मं समचरेत् ॥२१॥
सुतकाशौचदोषे तु पुनरन्यदुपोषयेत् । एवं क्रमेण संप्राप्ते पारणे पांडवादिके ॥२२॥
ब्राह्मणान्भोज्नयेद्भक्त्या गुडक्षीरघृतादिभिः । कांचनं कारयेद्देवसुमया सह शंकरम् ॥२३॥
शय्यां सुलक्षणां कृत्वा विरुद्धाग्रंथिवर्जिताम् । सांपधानकविश्रामां स्वास्तरावरणांशुभाम् ॥२४॥
भाजनोपानहच्छत्रचामरासनदर्पणैः । भूषणैरपि संयुक्ता फलवस्त्रानुलेपनैः ॥२५॥
तस्यां निधाय तं देवसलंकृत्य गुणान्वितम् कपिलांवस्त्रसंवीतांशुचिशीलांपयस्विनीम् ॥२६॥
सुवर्णश्रृंगीरौप्यखुरां सवत्सां कांस्यदोहनाम् । दद्यान्मंत्रेण पूर्वाह्रे न कालमभिलंघयेत् ॥२७॥
यथा न देव शयनं तव पर्वतजातया । शून्यं वृत्त्याथ संतत्या तथा मे संतु सिद्धयः ॥२८॥
यथा देव न श्रेयोऽर्थत्वदन्यो विद्येते क्कचित् । तथा मामुद्भाराशेषदुःखसंसारसागरात् ॥२९॥
ततः प्रदक्षिणी कृत्य प्रणिपत्य विसर्जयेत् । शय्यागवादि तत्सर्व द्विजस्य भवनं नयेत् ॥३०॥
नैताद्विशीलाय न दांभिकाय कुतर्कदुष्टाय विनिंदकाय । प्रकाशनीयं व्रतमिन्दुमौलेर्यश्वापि लोभोपहतांतरात्मा ॥३१॥
भक्ताय दांताय गुणान्विताय प्रदेयंमताच्छिभक्तियुक्तैः । इदं महापातककृन्नराणामप्यक्षयंवेदविदो वदंति ॥३२॥
या वाथ नारी कुरुतेऽतिभक्त्या भर्तारमाश्रित्य शुभं गुरुं वा । न बंधुपुत्रैर्नधनौर्वियोगमाप्नोति दुःखं न सुहृत्समुत्थम् ॥३३॥
इदंवसिष्ठेन पुराऽर्जुनेन कृतं कुबेरेण पुरंदरेण । यत्कीर्तनादप्यखिलान्यघानि विघ्नं समायांति न संशयोऽत्र ॥३४॥
इति पठति शृणोति वा य इत्थं शिवपुरुषं पुरुहूतवल्लभः । अपिनरकगतान्पितृनशेषाञ्छिवभवन नयतीह यः करोति ॥३५॥ [ ४६८ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शिवनक्षत्रपुरुषव्रतं नाम नवोत्तरशततमोध्यायः ॥१०९॥