श्रीकृष्ण उवाच ॥
द्वादश्यास्ते विधिः प्रोक्तः श्रावणे यो युधिष्ठिर । सर्वपापप्रशमनः सर्वसौख्यप्रदायकः ॥१॥
एकादशी यदा सा स्याच्छ्रवणेन समन्वितां । विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा ॥२॥
बलवानजितो दैत्यो बलिर्नामा महाबलः । तेन देवगणाः सर्वे त्याजिताः सुरमन्दिरम् ॥३॥
ततो देवा महाविष्णुं गत्वा वचनमूचिरे । त्वं गतिः सर्वदेवानां शीन्घं कष्टात्समुद्धर ॥४॥
जहि दैत्यं महाबाही बलिं बलनि्षूदन । श्रुत्वा विष्णुस्तदा वाक्यं देवानां करणोदयम् ॥५॥
उवाच वाक्यं कालज्ञो देवानां हितकाम्यया । जाने वैरोचनिं दैत्त्यं बलिं व्रैलोक्यकण्टकम् ॥६॥
तपसा भावितात्मानं शान्तं दान्तं जितेन्द्रियम् । मद्भक्तं सद्नतप्राणं सत्यसन्धं महाबलम् ॥७॥
तपसोन्तः सुबहुना कालेनास्य भविष्यति । यदा निवयसंपन्नं ज्ञास्ये कालेन केनचित् ॥८॥
समाह्रत्य प्रियं तस्य तदा दास्ये दिवौकसम् । अदितिर्मं प्रपन्ना वै पुव्रार्थे पुव्रलोभिनी ॥९॥
तस्यामतिहितं देवाः करिष्ये नाव्र संशयः । तद्देवानां हितं सर्वे चाहितं तु सुरद्विषाम् ॥१०॥
तद्नच्छध्वं निरुद्विग्नाः कालः कश्वित्प्रतीक्ष्यताम् । एवमुक्ता गता देवाः कार्यं विष्णुरचिन्तयत् ॥११॥
संचिन्तयित्वा सुचिरं देव्या गर्भावतारणम् । अदितिर्वरयामास वाञ्छितं मे भविष्यति ॥१२॥
अथ काले बहुतिथे गते सा गर्भिणी ह्यभूत् । सुषुवे नवसे मासि पुव्रं सा वामनं हरिम् ॥१३॥
र्हस्वपादं ह्रस्वकायं महच्छिरसमर्भकम् । पाणिपादोदरकृशं स्वयं नारायणं हरिम् ॥१४॥
द्दष्ट्रा तु वामनं जातं यदि सा वक्तुमुद्यता । निरुद्धवाक्या ह्यभद्वक्तुं किंञ्चिन्न पारितम् ॥१५॥
एकादश्यां भाद्रपदे श्रवणेन मरोत्तम । संचषाल मही जाते वामने तु व्रिविकमे ॥१६॥
भयं बभूव दैत्यानां देवानां तोष आभवत् जातकमीदिकांस्तस्य संस्कारान्स्त्रयमेव हि ॥१७॥
चकार कश्यपो धीमान्प्रजापतिरनुद्यतः । आबद्भमेखलो दण्डी धृत्वा यज्ञोपवीतिकम् ॥१८॥
कुशस्वच्छोदकधरः कमण्डलुविभूषितः । बलेर्बलवतो यज्ञं जगाम बहुविस्तरम् ॥१९॥
द्दष्टा बलिमथोवाच वामनोऽष्येत्यतत्क्षणम् अथ चाह यज्ञपते दीयतां मम मेदिनी ॥२०॥
पादव्रयप्रमाणीन षठनार्थे स्थितो ह्यसि । दत्ता दत्ता तब मया बलिः प्राह द्विजोत्तमम् ॥२१॥
ततो वद्भिंतुमारब्धो वामनोऽनन्तविकमः । पादौ भूमौ प्रतिष्ठाप्य शिरसावृत्य रोदसी ॥२२॥
ताभ्यामिन्द्रादिकाँल्लोकाँल्ललाटे ब्रह्मणःपदम् । न तृतीयं पदं लेभे ततो नेदुर्दिवौकसः ॥२३॥
तद्द्दष्ट्रवा महदाश्रर्यं सिद्धा देवर्षयस्तथा । साधु साध्विति देवेशं प्रशशंसुमुदान्विताः ॥२४॥
ततो दैत्यगणान्सर्वाञ्चित्वा विभुवनं वशी । बलिमाह ततो गच्छ सुतलं स्वबलानुगः ॥२५॥
तव्र स्वमीप्सितान्भोगान्भुक्त्वा सद्वाहुपालितः । अस्यन्द्रस्यावसाने तु त्वमेवेन्द्रो भविष्यसि ॥२६॥
एवमुक्तोबल्लिः प्रायान्नमस्कृत्य नरोत्तमम् । विसृज्येनां बलिं देवान्सकलान्स उवाच ह ॥२७॥
स्वानि धिष्णानि गच्छध्वं तिष्ठध्वं विगतज्वराः देवेनोक्ता गतादेवा ह्रष्टाः संपूज्य वामनम् ॥२८॥
देव कृत्वा जगत्कार्यं तव्रैवान्तरधीयत । एतत्सर्वं समभवदेकादश्यां नराधिप ॥२९॥
तेनेष्टा देवदेवस्य सर्वदा विजया तिथिः । एषावै फाल्गुने मासि पुष्येण सहिता नृप ॥३०॥
विजया प्रोच्यते सद्भिः कोटिकोटिगुणोत्तरा । एकादश्यां सोपवासो राव्रौ संपूजयेद्धरिम् ॥३१॥
रोप्यसौवर्णपाव्रै वा दारुवशमयेऽपि वा । कुण्डिकां स्थापयेत्पाश्व छव्रं वै पादुके तथा ॥३२॥
शुभां च वैष्णवीं यष्टिं तथा सूव्रकमण्डलू । आच्छाव पाव्रं वासोभिः फलैश्वापि सशोभनेः ॥३३॥
मार्गचार्मण्यगन्षैश्व भक्त्या वा मृगचर्मणा । तिलाढकेन वित्ताढन्यः प्रस्थेन कुडवेन वा ॥३४॥
वीहिभिर्वाय गोधूसैः कलैः शुक्लतिलैर्भवेत् । पुष्पैर्गन्प्रैर्धूपदीपैः पक्काभ्रैरर्चयेद्धरिम् ॥३५॥
नानाबिधैश्व मैषेवैर्भक्ष्यभोज्यैर्गुडौदनैः । स्वस्वविनानुसारेण सहिरण्यं च कारयेत् ॥३६॥
मन्व्रं शतगुणं चैव भक्त्या लक्षगुणोत्तरम् । भक्तिमांश्व गुणोपेतं कोटिकोटिगुणोत्तरम् ॥३७॥
एभिर्मन्व्रपदैस्तव्र पूजयेद्नरुडध्वजम् । उपहारैर्नरश्रेष्ठ शुचिर्भूत्वा समाहितः ॥३८॥
ॐ जलजोपमदेहाय जलजास्याय शङ्खिने । जलराशिस्वरूपाय नमस्ते पुरुषोत्तम ॥३९॥
नमः कमलनाभाय नमस्ते जलशायिने । नमस्ते केशवानन्त वासुदेव नमोऽस्तु ते ॥४०॥
स्त्रानमन्व्रः । मलयेषु समुत्पन्नं गन्धाढन्यं सुमनोहरम् । मया निवेदितं तुभ्यं गृहाण परमेश्वर ॥४१॥
चन्दनमन्व्रः ॥ वनस्पतिसमुत्पन्ने गन्धाढन्य सुमनोहरम् । मया निवेदितं पुष्पं गुहाण पुरुषोत्तम् ॥४२॥
पुष्पमन्व्रः॥ नमः कमलकिंजल्कपीतनिर्मलवससे । मनोहरवपुःस्कन्ध धृतचक्राय शाङ्गिणे ॥४३॥
पूजामन्व्रः ॥ सत्स्यं कूर्मं वराह च नारसिंह च वामनम् । रामं रामं च कृष्णं च नामभिरष्टभिश्व ह ॥४४॥
पादाद्यैकैकाङ्गस्य पूजन शीर्षगं ततः । सर्वाङ्गपूजा । धूगोऽयं देवदेवेश शङ्खचक्रगदाधर ॥४५॥
अच्युतानन्तगोविन्द वासुदेव नमोऽस्तु ते । धूपमन्व्रः । स्वमेव पृथिवी ज्योतिर्वायुराकाशमेव च ॥४६॥
त्वमेव ज्योतिषां ज्योतिर्दीपोऽयं प्रतिगृह्यताम् । दीपमन्व्रः ॥ अन्नं चतुर्विधं स्वादु रसैः षङमिः समन्वितम् ॥४७॥
भक्यभोज्यसमायुक्तं प्रसीद परमेश्वर । अन्नं प्रजापतिविंष्णू रुद्रेद्रशशिभास्कराः ॥४८॥
अन्नं त्वष्टा यमोऽग्निश्व पापं हरतु मेऽव्ययः ॥ नैवेद्यमन्व्रः ॥ जगदादिर्जगद्रूपमनादिर्जगदन्तकृत् ॥४९॥
जलाशपजगद्योनिः प्रीयतां मे जनार्दनः । प्रीणनमन्व्रः । अनेककर्मनिर्बन्धध्वंसिनं जलशायिनम् ॥५०॥
नतोऽस्मि मथुरावासं माधवं मधुसूदनम् । नमो वामन रूपाय नमस्तेऽस्तु व्रिविकम ॥५१॥
नमस्ते मणिबन्धाय वासुदेव नमोऽस्तु ते । नमस्कारमन्व्रः ॥ नमो नमस्ते गोविन्द वामनेश व्रिविकम ॥५२॥
अधौघसंक्षयं कृत्वा सर्वकामप्रदो भव । प्रार्थनामन्व्रः ॥ सर्वगः सर्वदेवेशः श्रीधरः श्रीनिकेतनः ॥५३॥
विश्वेश्वरश्व विष्णुश्व श्रीशायी च नमो नमः शयनमन्व्रः ॥ एबं संपूज्य यो राव्रावेकादश्यां नृपोत्तम ॥५४॥
जागरं तव्र कुर्वीत गीतवादिव्रनिस्वनैः। या च श्रवणसंयुक्ता द्वादशी परमा तिथिः ॥५५॥
तस्यां च सङ्गमे स्त्रात्वा सर्वपापैः प्रमुच्यते । एवं संपूज्य यत्नेन प्रभाते विमले सति ॥५६॥
प्रदेयं शास्त्रविदुषे ब्राह्मणाय च मन्व्रतः । ब्राह्मणश्वापि मन्व्रेण प्रतिगृह्रीत मन्व्रवत् ॥५७॥
वामनोऽस्य प्रतिग्राही वामनाय नमो नमः ॥५८॥
ॐ गुह्ये ॥ ॐ शिरसि ॥ ॐ पादयोः ॥ ॐ नाभौ ॥ ॐ भुजयोः ॥ ॐ सर्वाङ्गे ॥ सर्वात्मने नमः ॥ पुष्पं फलं च नैवेद्यं सर्वमेतद्यथाविधि । नरो दद्यादुपोष्यैवमेकादश्यां समन्प्रकम् ॥५९॥
पूर्वोक्तविधिना प्रातर्भोजनं पृषदाज्यकम् । पूर्वं दत्त्वा ब्राह्मणेभ्यः पश्वद्भुञ्जीत वाग्यतः ॥६०॥
भूयो भूयोऽपि राजेन्द्र सर्वव्रैवं विधिः स्मृतः । समाप्ते तु ब्रते राजन्यत्युण्यंत तन्निवोध मे ॥६१॥
चतुर्युगानिराजेन्द्र एकसप्ततिसंख्यया । प्राप्य विष्णुपुरे राजन्कीडते कालमक्षयम् ॥६२॥
इहागत्य भवेद्राजा प्रतिपक्षक्षयङकरः । हस्त्यश्वरथपत्तीनां दाता भोक्ता विमत्सरी ॥६३॥
रूपसौभाग्यसंपन्नो दीर्घायुर्नीरुजो भवेत् । पुव्रैः परिवृतो जीवो जीवेच्च शरदः शरम् ॥६४॥
एतस्या फलमाख्यातमेकादश्या मया तव । पूर्वमेव सप्राख्याता द्वाद्शी श्रवणान्विता ॥६५॥
उपोष्यैकादशीं पश्वादद्वादशीमप्युपोषयेत् । न चाव्र विधिलोपः स्यादुभयोर्देवता हरिः ॥६६॥
" एकादशीद्वादश्योरन्यतरस्यां श्रवनयुक्तायां श्रवणयुक्तोपवासैनैव व्रतद्वयसिद्धिः । एकस्मिन्व्रत पूर्वमन्यां तिथिमुपोष्य पश्वादपारयित्वैवान्योपोष्यत इति यो विधिलोपः स एकदेवताकत्वेन न भवतीत्यर्थः " ॥ बुधश्रवणसंय़ुक्ता द्दाद्शी संगमोदकम् । दानं दध्योदनं सत्यमुपवासः परो विधिः ॥६७॥
सगरेण ककुत्स्थेन धुन्धुमारेण गाघिना । एतैश्वान्यैश्व राजेन्द्र कृतं वै द्वादशीव्रतम् ॥६८॥
सा द्वादशी बुधयुता श्रवणेन साकं स्याद्वै यजाय कथिता ऋषिभिर्नभस्ये । तामादरेण समुपोष्य नरोऽमरत्वं प्रान्पोति पार्थ अणिमादिगुणोपपन्नम् ॥६९॥ [ ३२१९ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विजयश्रवणद्वादशीब्रतवर्णनं नाम षट्सप्ततितमोऽध्यायः ॥७६॥