युधिष्ठिर उवाच ॥
श्रुतो दानविधिः सर्वः प्रसादात्ते रमाधव । नक्षत्रदानस्येदानीं दानकल्पं प्रचक्ष्व मे ॥१॥
श्रीकृष्ण उवाच ॥ अत्राप्युदाहरंतीममितिहासं पुरातनम् । देववयाश्वैव संवादं देवर्षेर्नारेदस्य च ॥२॥
द्वारकामनुसंप्राप्तं नारदं देवदर्शनम् । पप्रच्छेदं तथा प्रश्नं देवकी धर्मदर्शिनी ॥३॥
तस्याः संपृच्छमानाया देवर्षिर्नादस्ततः । आचष्ट विधिवत्सर्व यत्तच्छृणु विशांपते ॥४॥
नक्षत्रयोगं वक्ष्यामि सर्वपातकनाशनम् । कृत्तिकासु महाभाग पायसेन ससर्पिषा ॥५॥
सतर्प्य ब्राह्मणान्साधूँल्लोकान्प्राप्नोत्यनुत्तमानः । रोहिण्यां पांडवश्रेष्ठ मांसैरन्नेन सर्पिषा ॥६॥
संतर्प्य ब्राह्मणान्साधूँल्लो कान्प्रोप्नोत्यनुतमान् । पयोऽन्नदानं दातव्यमानुण्यार्थ द्विजातये ॥७॥
दोध्रीं सवत्सां तु नरो नक्षत्रे सोमदैवते । दत्त्वादिव्यविमानस्थः स्वर्ग प्राप्नोत्यनुत्तमम् ॥८॥
आर्द्रायां कृशरां दत्त्वा तिलमिश्रां समाहितः । नास्तरति दुर्गाणि सर्वाण्येव नरोत्तम ॥९॥
पूपान्पुनर्वसौ दत्त्वा घृतपूर्णामुपाचितान् । यशस्वी रुपसंपन्नः सज्जनो जायते कुले ॥१०॥
पुष्ये तु कांचनं दत्त्वा कृतं वाकृतसेव वा । अनालेकेषु लोकेषु सामवत्स विराजते ॥११॥
आश्लेषासु तथा रौप्यं यः सरुपं प्रयच्छति । सर्व भयविनिर्मुक्तः शास्त्रवानभिजायते ॥१२॥
मघासु तिलपूर्णानि वर्धमानानि मानवः । प्रदाय पशुमांश्वैव पुत्रवांश्व प्रजायते ॥१३॥
फाल्गुनीपूर्वसमये वडवां द्विजपुंगवे । दत्त्वा पुण्यकृताँल्लोकान्प्राप्नोति सुरसेवितान् ॥१४॥
उत्तर फाल्गुनीयोगे दत्त्वा सौवर्णपंकजम् । सूर्यलोकमवाप्नोति सर्वबाधा ववर्जितः ॥१५॥
हाते तु हरितनं दत्त्वा कांचनं शक्तितः कृतम् । यात्यसौ शक्रसदनं वरवारणवूर्गतः ॥१६॥
चित्रासु वृषभं दत्त्वा पुण्यानां पुण्यमुत्तमम् । चरत्यप्सरतां लोके मोदते नंदने वने ॥१७॥
स्वातीषु च धनं दत्त्वा यदभीष्टमिहात्मन । प्राप्नोति च शुभाँल्लोकानिह लोके महद्यश ॥१८॥
विशाखासु महाराज धुरंधरविभूषितम् सोपस्कर च शकटं स धन्यं वस्त्रसंवृतम् ॥१९॥
दत्त्वा प्रीणति स पितुः प्रेन्ब चातन्त्यमश्रुते । न च दुर्गाण्यवाप्नोति रौरवादीनी मानवः ॥२०॥
दत्त्वा यथेष्टं विप्रेग्यो गतिमेष्टां स गच्छति । कबलान्यनुराधर्क्षे दत्त्वा प्रावरणावि च ॥२१॥
स्वर्गे वर्षशतं साग्रमास्ते सुरगणैर्वूतः । कालशाकं च विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् ॥२२॥
ज्येष्ठानुज्येष्ठतामेति गतिमिष्टां च गच्छति । मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः ॥२३॥
पितृन्प्रीणयते सर्वान्गतिं प्राप्नोत्यनुत्तमाम् । अथ पूर्वास्वषाढासु दधिपात्राणि मानवः ॥२४॥
कुलवृत्तो पसम्पन्ने ब्राह्मणे वेदपारगे । प्रदाय जायते प्रेत्य कुले च बहुभोगवान् ॥२५॥
पुत्रपौत्रेः परिवृतः पशुमान्धनवांस्तथा । उदपात्रं ससर्पिष्कं प्रभूतमधुफणितम् ॥२६॥
दत्वोत्तरास्वषाढास सर्वान्कामानवाप्नुयात् । दुग्धं त्वभिजितो भागे दत्त्वा घृतमधुप्लुतम् ॥२७॥
धर्मनित्यो मनीषिभ्यः स्वर्गे वसति पुण्यभाक् । श्रवणे पुस्तकं श्रेष्ठं प्रददातीहे यो नरः ॥२८॥
स्वेच्छया याति यानेन सर्वील्लाँकान्न संशयः । गोयुगं च धनिष्ठासु दत्वा विप्राय मानवः ॥२९॥
सर्वत्र मानसाप्नोति यत्र यत्रेह जायते । तथा शतभिषा योगे दत्त्वा सागरुचंदनम् ॥३०॥
प्राप्नोत्यप्सरसां लोके प्रेत्य गंधांश्व शोभनान् । पूर्वभाद्र्पदायोगे राजभाषाप्रदापयेत् ॥३१॥
सर्वभक्षफलोपेतः स व प्रेत्य सुखीं भवेत् । रत्नमुत्तरयोगे तु सुवस्त्रं यः प्रयच्छति ॥३२॥
पितृन्पीणाति सकलान्येत्य चानंत्यनश्नुते । कांस्येपदोहनां धेनुं रेवत्यां यः प्रयच्छति ॥३३॥
स प्रेत्य कामानवाप्नोति कीर्ति चैव हि शाश्वतीम् । रथमश्वसमायुक्त दत्त्वाश्विन्यां नरोत्तम ॥३४॥
हस्त्यश्वरथसंपूर्णेवर्चस्वीजायतेकुले । भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै ॥३५॥
गावः प्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा । इत्येष दक्षिणाद्देशः प्रोक्तो नक्षत्रयोगतः ॥३६॥
देवक्यै नारदेनैव मया च कथितरतव । सर्वपापप्रशनमनः सर्वोपद्रवनाशनः ॥३७॥
न चात्र कालनियमो नक्षत्रप्रकस्तथा । वित्तं श्रद्धा च राजेन्द्र कारणं चात्र कथ्यते ॥३८॥
यद्यच्च ते भगवता कमलोद्भवस्य पुत्रेण दानमुदितं प्रसमीक्ष्ये वेदान् । तद्यो ददाति विभवे सति साधवृत्ते किं तेन पार्थ न कृतं भवतीह लोके ॥३९॥ [ ७६३९ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणी श्रीकृष्णयुधिष्ठिरसंवादे नक्षत्र दानविधिवर्णन नाम द्विनवत्युत्तरशततमोऽध्यायः ॥१९२॥