श्रीकृष्ण उवाच ॥
अथाविन्घकरं राजन्कथयामि व्रतं तव । येन सम्यक्कृतेनेह न बिन्घमुपजायते ॥१॥
चतुर्थ्यां फाल्गुने मासि गृहीतव्यं व्रतं त्विदम् । नक्ताहारेण राजेन्द्र तिलान्नं पारणं स्मृतम् ॥२॥
तदेव वह्रौ होतव्यं ब्राह्मणाय च तद्भवेत् ॥३॥
शूराय वीराय गजाननाय लम्बोदरायैकरदाय चैव्र । एवं तु संपूज्य पुनश्व होमं कुर्याद्व्रती विन्घाविनाशहेतोः ॥४॥
चतुर्मास्यां व्रतं चैव कृत्वत्थं पञ्चमे तथा । सौबर्णं गजवक्व्रं तु कृत्वा विप्राय दापयेत् ॥५॥
तास्त्रपाव्रैः पायसभृतैश्वतुर्भिः सहितं नृप । षञ्चमेन तिलैः सार्द्धं गणेशाधिष्ठितेन च ॥६॥
मृग्मयाण्यपि पाव्राणि वित्तहीनस्तु कारयेत् । हेरम्बं राजतं तदूद्विधिनानेन दापयेत् ॥७॥
इत्थं व्रतमिदं कृत्वा सर्वविप्रैः प्रमुच्यते । हयमेधस्य विन्घ तु संजाते सगरः पुरा ॥८॥
एतदेव व्रतं चीर्त्वा पुन्रश्व प्रलब्धवान् । तथा रुद्रेण देवेन व्रिन्घता पुरा ॥९॥
एतदेव कृप्तं यस्मात्व्रिपुरस्तेन घातिस । मया समुद्र बिशत एवदेव व्रतं कृतम् ॥१०॥
तेनादिद्रुमसंयुक्ता पृथिवि पुनरुद्धता । अन्यैरपि महीपालैरेतदेव कृतं पुरा ॥११॥
तपोऽर्थिभिर्यज्ञसिद्धयै निर्विन्घं स्थात्परन्तप । अनेन कृतमाव्रेण सर्वविप्रैः प्रमुच्यते ॥१२॥
मृतो रुद्रपरं याति वराहवचनं यथा ॥१३॥
विन्घानि तस्य व भषन्ति गृहे कदाचिद्धर्मार्थकामसुखसिद्धिविधातकानि । यः सप्तमीन्दुशकलाकृतिकां तदन्तं विन्घेशनर्चयति नक्तकृती चतुर्थाम् ॥१४॥ [ १६१५ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विनायकचतुर्थीव्रतं नाम व्रयस्त्रिंशत्तमोध्याचः ॥३३॥ इति चतुर्थीकल्पः समाप्तः ॥