श्रीकृष्ण उवाच ॥
अतः परं प्रवक्ष्यामि गुडपर्वतमुत्तमम् । यत्प्रादानान्नरः स्वर्ग प्राप्नोति सुर पूजितम् ॥१॥
उत्तमोदशभिर्भरैर्मध्यमः पंचभिस्तथा । त्रिभिर्भारैः कनिष्ठः स्यात्तदर्द्धेनाल्पको मतः ॥२॥
तद्वदामंत्रणं पूजां हेमवृक्षसुरार्चनम् । विष्कंभपर्वतांस्तत्र सरांसि वनदेवताः ॥३॥
होमं जागरणं तद्वल्लोकपालाधिवासनम् । धान्यपर्वतवत्कुर्यादिमं मंत्रमुदीरयेत् ॥४॥
यथा देवेषु विश्वात्मा प्रवरोऽयं जनार्दनः । सामवेदस्तु वेदानां महादेवस्तु योगिनाम् ॥५॥
प्रणवः सर्वमंत्राणां नारीणां पार्वती यथा । तथा रसानां प्रवरः सदा चेक्षुरसो मतः ॥६॥
मम तस्मात्परां लक्ष्मीं प्रयच्छ गुडपर्वत । सुरासुराणां सर्वेषां नागयक्षर्क्षपक्षिणाम् ॥७॥
निवासश्वापि पार्वत्यास्तस्मान्मां पाहि सर्वदा । अनेन विधिना यस्तु दद्याद्रुडमयं गिरिम् ॥८॥
संपूज्यमानो गंधर्वैर्गौरीलोके महीयते । पुनः कल्पशतांते तु सप्तद्वीपाधिपो भवेत् ॥९॥
आयुरारोग्यसंपन्नःशत्रुभिश्वापराजितः । आसीद्राज्ञीमहाभागासुलभानामसुव्रता ॥१०॥
मरुत्तरय प्रिया भार्या रुपयौवनशालिनी । तस्य भार्याशतान्यासन्सप्त राज्ञो महात्मनः ॥११॥
ता दास्य इव वाक्यानि कुर्युस्तस्याः सदैव हि । मुखावलोकनपरो राजा तस्य च सा प्रिया ॥१२॥
अथ कालेन महता दुर्वासा ऋषिसत्तमः । आजगाम तदम्याशं भ्रममाणोयदृच्छया ॥१३॥
तस्याथ सत्क्रियां कृत्त्वा दत्त्वा चार्घ यथाविधि । पप्रच्छ सुलभा विप्रं दुर्वाससमकल्मषम् ॥१४॥
सुलभोवाच ॥ केन पुण्येन भगवन्मम राजा प्रियंकरः । मुखावलोकनपरो वशे तिष्ठति सर्वदा ॥१५॥
सपत्न्यश्व मम ब्रह्मन्तदा प्रियहिते रताः । एतदाचक्ष्व भगवन्परं कौतुहलं मम ॥१६॥
दुर्वासा उवाच ॥
शुणुष्वावहिता सुभ्ररात्मवृतं पुरानतं । जानामि सर्व सुभगे तव वृत्तमशेषतः ॥१७॥
त्वमासीर्वैश्यमहिषी गिरिव्रजपुरे पुरा । धार्मिका सत्यशीला च पतिव्रतपरायणा ॥१८॥
तत्र श्रुतस्त्वया वत्से ब्राह्मणानां समीपतः । पुरा दानविधिः कृत्स्त्रः स्थितया पतिसंनिधौ ॥१९॥
विशेषतस्तत्र विप्रैः कथितो गुडपर्वतः । दत्तश्वापि त्वया पुत्रि संभृत्यविधिवत्तदा ॥२०॥
तस्य दानत्य माहात्ग्यात्त्वया भुक्तं वरानने । राज्य्म जन्मनि चत्वारि निःसपत्नमनाकुलम् ॥२१॥
अद्यापि सप्तजन्मानि तव राज्यं भविष्यति । सौभाग्यमतुलं चैव रुपमारोग्यमेव च ॥२२॥
भावि चैवमवश्यं च गुडपर्वतदानजम् । उक्ततव बरारोहे यास्येहंभव पुत्रिणी ॥२३॥
तस्माद्देयमिद राजन्विशेषतः । पूर्वोक्तं फलं प्राप्य शाश्वतीं लेभे सौभाग्यं रुपमेव च ॥२४॥
दानमेतत्प्रशंसति स्त्रीणां र्वसिद्धवनिताशतसेवितेन । दत्तेनभारतविधानवतासदैवगौरीप्रसादमुपयातिगुडाचलेन ॥२६॥ [ ७८१२ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गुडाचलदानविधिवर्णनंनामसप्तनवत्युत्तरशततमोऽध्यायः ॥१९७॥