श्रीकृष्ण उवाच ॥
कृतं ब्रह्मयुंग प्रोक्तं प्रेता तु क्षत्रियंयुगम् प्रोक्त प्रेता तु क्षत्रियंयुगम् । वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम् ॥१॥
कलौ राजन्मनुष्याणां शैथिल्यं स्त्रानकर्मणि । तथापि माघव्याजेन कथयिष्यामि ते शृणु ॥२॥
यस्य हस्तौ च पादौ च वाडमनस्तु सुसंयुतम् । विद्यातपश्व कीर्तिश्व स तीर्थफलम श्रुते ॥३॥
अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः । हेतुनिष्ठाश्व पञ्चैते न तीर्थफलभागिनः ॥४॥
प्रयागं पुष्करं प्राप्य कुरुक्षेत्रमथापि वा । यत्र बा तत्र वा स्त्रायान्माघे नित्यमिति श्रुतिः ॥५॥
त्रिरात्रफलदा नद्यो याः काश्विदसमुद्रगाः । समुद्रगास्तु पक्षस्य मासस्य सरितां पतिः ॥६॥
उषः समीपे यः स्त्रानं संध्यायमुदिते रवौ । प्राजापत्येन तत्तुल्यं महापातकनाशम् ॥७॥
प्रातरुत्थाय यो विप्रः प्रातस्त्रायी सदा भवेत् । स सर्वपापनिर्मुक्तः परं ब्रह्मादिगच्छति ॥८॥
वृथा चोष्णोदकस्त्रानं वृथा जाप्यमवैदिकम् । अश्रोत्रिये वृथा श्राद्धं वृथा भुक्तमसाक्षिकम् ॥९॥
स्त्रानं प्रोक्तं स्त्रानविद्भिर्युधिष्ठिर । वायव्यं वारुणं ब्राह्मं दिव्यं चेति पृथक्छुणु ॥१०॥
वायव्य्म गोरजःस्त्रानं वारुणं सागरादिषु । ब्राह्मयं ब्राह्मनमंत्रोक्तं दिव्यं मेघांबुभास्करम् ॥११॥
सरेषामेव स्त्रानानां विशिष्टं तत्र वारुणम् । ब्रह्मचारी गृहस्थश्व वानप्रस्थोऽथ भिक्षुकः ॥१२॥
एते सर्वे प्रशंसंति सर्वदा माघमज्जनम् । बालास्तरुणकावृद्धानरनारीनपुंसकाः ॥१३॥
स्त्रात्वा माघं शुभे तीर्थे प्राप्नुवंतीप्सितं फलम् । ब्रह्मक्षत्रदिशां चैव मन्त्रवत्स्त्रानमिष्यते ॥१४॥
तूष्णीमेव हि शूद्रस्य स्त्रीणां च कुरुनंदन । माघमासे रटंत्यापः किञ्चिभ्युदिरे रवौ ॥१५॥
ब्रह्मघ्नं वा सुरापं व कं पंततं पुनीमहे । प्रासाद यत्र सौवर्णाः स्त्रियश्वाप्सरसोपमाः ॥१६॥
दधिकुल्यावहा यत्र नद्यः पायसकर्दमाः । तत्र ते यांति मज्जंति ये माघे भास्करोदये ॥१७॥
यतिवत्पथिं गच्छेत मौनी पैशुन्यवर्जितः । यदीच्छे द्विपुलान्भोगांश्वन्द्रसूर्यपमान्गृहान् ॥१८॥
पुष्पफाल्गुनयोर्मध्ये प्रातःस्त्रयी भवेन्नर । पौर्णमास्या ह्यमावास्याः प्रारभ्य स्त्रानमाचरेत् ॥१९॥
त्रिंशद्दिनानि पुष्याणि मकरस्थे दिवाकरे । तत्र उत्थाय नियमं गृह्रीयाद्विधिपूर्वकम् ॥२०॥
माघमासमिमं पूर्ण स्थाप्येहं देवमाधवम् । तीर्थशीतजले नित्यमिति संकल्प्य चेतसा ॥२१॥
अप्रावृतशरीरस्तु यः कष्टं स्त्रानमाचरेत । पदे पदे पदेऽश्वमेधस्य फलं प्राप्नोति मानवः ॥२२॥
तत्र स्त्रात्वा शुभे तीर्थे दत्वा शिरसि वै मृदम् । वेदोक्तविधिना राजन्सूर्यस्यार्घ निवेदयेत ॥२३॥
पितृन्संतर्प्य तत्रस्थो ह्यवतीर्थ ततो जलात् । इष्टदेवं नमस्कृत्य पूजयेत्पुरुषोत्तमम् ॥२४॥
शङ्खचक्रधरं देवं माधवं नामपूजयेत् । वह्रिं हुत्वा विधानेन ततस्त्वेकाशनो भवेत् ॥२५॥
भूशय्या ब्रह्मचर्येण शक्तः स्त्रानं समाचरेत् । अशक्तस्य धनाढ्यस्य स्वेच्छा सा तत्र कथ्यते ॥२६॥
अवश्यमपि कर्तव्यं माघे स्त्रान निति त्रुतिः । ईश्वरेण यथाकाम बलधर्मोऽनुवर्तते ॥२७॥
तिलस्त्रायी तिलोद्वतीं तिलभोक्तातिलोदकी । तिलहोता च दाताचषट्तिलानावसीदति ॥२८॥
अमूल्यानां हि दानानि च तीर्थे देयानि नित्यशः । तथा प्रज्वालयेद्वह्रिं निवातार्थ द्विजन्मनाम् ॥२९॥
एवं स्त्रानावसाने तु भोज्यं देयमवारितम् । भोजयेद्द्विजदंपत्यान्भूषयेद्वस्त्रभूषणैः ॥३०॥
कंबलाजिनरत्नानि वासांसि विविधानि च । चोलकानि च दिव्यानि प्रच्छादनपटीस्तथा ॥३१॥
उपानहौ तथा गुप्तं मोदकैः पापमोचकैः । अनेन विधिना दद्यान्माधवः प्रीयतामिति ॥३२॥
अगम्यागमनस्तेयपापेभ्यश्वपरिग्रहात् । रहस्याच्रिताद्वापि मुच्यते स्त्रानमाचरन् ॥३३॥
पितृभिः पितामहैः सार्द्ध तथैव प्रपितामहैः । मातृमातामहैः - सार्द्धेवृद्धमातामहैस्तथा ॥३४॥
एकर्विशकुलैः सार्द्ध भोगान्भुक्त्वा यथोप्सितान् । मघमास्युर्षसि स्त्रात्वा विष्णुलोकं स गच्छति ॥३५॥
यो मागहमास्युषसि सूर्य्यकराभिताम्रे स्त्रानं समाचरति चारु नदीप्रवाहे । उद्धृत्य सप्तपुरुषान्पितृमातृतश्व स्वर्ग प्रयात्यमलदेहधरो नरोऽसौ ॥३६॥ [ ५३०६ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णधिष्ठिरसंवादे माघस्नानविधिवर्णनं नाम द्वविंशत्युत्तशततमोऽध्यायः ॥१२२॥