युधिष्टिर उवाच ॥
ब्रृहि मे यदुशार्दुल व्रतंगन्धविनाशनम् । कटुतिकारलदेहोत्थंक्षैर्भाग्यशमनंतथा ॥१॥
श्रीकृष्ण उवाच । इमं प्रश्रं पुरा पार्थ जातुकर्ण्यो महामुनिः । पृष्टो राद्दया विष्णुभक्त्या कालनंदनजात्या ॥२॥
कथयामास संपृष्टा सपविष्टा शृणोति सा । देविकृताञ्चलिपूटा जातूकर्ण्यो वद्द्ब्रतम् ॥३॥
ज्येष्ठे मासि सिते पक्षे व्रयोदश्यां युधिष्ठिर । स्नात्वा पुण्यनदीतोये पूजयेच्छुभदेशजम् ॥४॥
श्वेतमंदारमर्कं वा करवीरं च रक्तकम् । निंबचसूर्यदेवस्य वल्लभं दुर्ल्लभं तथा ॥५॥
पुष्पैनैंवेद्यधृपाद्यैर्मंव्रेणानेन पांडव । निरीक्ष्य गगने सूर्यं ध्यात्वा ह्रदि समुच्चरेत् ॥६॥
सूर्यं श्वेतारमंदारश्वेतार्काकर्कास्यसंन्निभम् । करवीर नमस्तुभ्यं निंबवृक्ष नमोऽस्तु ते ॥७॥
इर्त्थ योर्कपतेर्भक्त्या वर्षे वर्षे पृथङनरः । मूलमंव्रेण न्रश्रेष्ठ नारी वा भक्तिसंयुता ॥८॥
तस्याः शरीरदौर्गंध्यं दौर्भार्ग्यं वा अभावगम् ॥९॥
निंबं नवार्क करवीरलतां सुपुष्पां याः पूजयेति कुसुमाक्षतधृपदीपैः । ताः सर्वंकामसुखभोगसमृद्धिभाजो दौर्भाग्यदोषरहिताः सुभगा भवंति ॥१०॥ [ ३७२५ ]
इति श्रीभविष्ये महापुराणे उत्तरषर्वणी श्रीकृष्णयुधिष्ठिरसंवादे मन्दारनिंम्बार्ककरवीरव्रतव्रर्णनं नामाष्टाशीतितमोऽध्यायः ॥८८॥