संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १९४

द्वापरयुगसन्तानः - अध्यायः १९४

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं भक्तासरोजिनीपतेः ।
चरित्रं प्रमदाघ्नस्य देवविश्रामनामिनः ॥१॥
आसीच्चक्रधरो राजा विरामनगराधिपः ।
तस्याऽमात्योऽभवद् देवविश्रामाख्यः सुधार्मिकः ॥२॥
राज्याभ्युन्नतिकर्ता स प्रजोदयाभिलाषुकः ।
राष्ट्ररक्षणयत्नस्थः सदा देवादिपूजकः ॥३॥
धर्ममार्गपरश्चापि सत्यधर्मपरायणः ।
साधुसाध्वीसतीसेवापरायणोऽतिसेवकः ॥४॥
ये केचिद् द्रव्यहीनास्ते याचन्ते देवविश्रमम् ।
सोऽपि ददात्यभीष्टं च तोषयत्येव भिक्षुकान् ॥५॥
अर्थिनोऽपि प्रतुष्टाश्च महाशीर्वादवादिनः ।
स्वर्गं राज्यं महाराज्यं तवाऽस्त्विति वदन्ति च ॥६॥
राजाऽपि धार्मिको नित्यं सेवते परमेश्वरम् ।
न चौरा नापि धूर्ताश्च न शठा न प्रतारकाः ॥७॥
रोचन्ते नृपतेः स्वस्य राज्ये नापि छलप्रियाः ।
यथा राजा तथाऽमात्यश्चौरादिदण्डकृत् सदा ॥८॥
अभिचारपरा ये च मन्त्रतन्त्रादिजीविनः ।
घातका मारका ये ते रोचन्ते नाऽस्य वै क्वचित् ॥९॥
अथैकदा बहुचरामातुस्तु सेविका स्त्रियः ।
योगिन्यो मन्त्रवेत्त्र्यश्च भिक्षार्थं निर्ययू रमे ॥१०॥
यत्र दानेश्वरा भूपा यत्र दानिजनास्तथा ।
श्रूयन्ते तत्र तत्रैता भिक्षन्ते वै धनं रमे ॥११॥
स्वर्णं रूप्यं चाम्बराणि यानानि वाहनान्यपि ।
हीरकान् माणिक्यवर्णान् रत्नानि विविधानि च ॥१२॥
विभूषाश्चापि भिक्षन्ते प्रापयन्ति च भिक्षितम् ।
बहुचरां महादेवीं समर्पयन्ति तास्तथा ॥१३॥
माता बहुचरा लक्षगुणं दास्यति दानिने ।
एवं वचः परं स्मृत्वा दानं गृह्णन्ति ताः स्त्रियः ॥१४॥
अथ येन ददत्याभ्यः श्रेष्ठिनो वा नृपा जनाः ।
तदा तेषां गोपुरेषु गृहद्वारेषु ताः स्त्रियः ॥१५॥
आसनानि स्थिरीकृत्य कीर्तयन्ति तु संघशः ।
व्रतं धृत्वा ह्यनशनं कलिं कुर्वन्ति तास्तपः ॥१६॥
 जय जय मातर्बहुचरे जय जय मातर्बहुचरे ।
दानिनस्त्वं धनंकरे जय जय मातर्बहुचरे ॥१७॥
एवं तालीं वादयन्त्यः प्रगायन्ति गृहांगणे ।
पञ्च वा सप्त वाऽहानि तिष्ठन्ति न प्रयान्ति ताः ॥१८॥
गृहाधीशास्ततः प्राप्य पराजयं ददत्यपि ।
ताश्च गृह्णन्ति बहुधा स्वर्णं रूप्यं धनादिकम् ॥१९॥
अथ चेन्नैवाऽर्पयन्ति धनं द्रव्यं यथेप्सितम् ।
प्रसह्याऽनशनं कृत्वा यतन्ते कलहैरपि ॥२०॥
गृहीत्वैव प्रयान्त्येव नाऽन्यथा हठतः स्त्रियः ।
एवंविधास्ताः सर्वाश्च योगिन्यो दशसंख्यकाः ॥२१॥
हठं चक्रुर्धनार्थं वै तदाऽमात्यो ददौ धनम् ।
शतं सुवर्णमुद्राणां लब्ध्वापि तोषवर्जिताः ॥२२॥
यथाचिरे सहस्रं वै सुवर्णानां तथेतरत् ।
रत्नहीरकभूषादि नृपादपि पृथग् धनम् ॥२३॥
दशसहस्रमुद्राश्च मणिमौक्तिकमालिकाः ।
एवं हठेन युक्तास्ता ययाचिरे न निर्ययुः ॥२४॥
अथ याते तु सप्ताहे दीयमाने सहस्रके ।
सौवर्णात्मकमुद्राणां यदा तोषं गता न ताः ॥२६॥
तदाऽमात्यस्य नाशार्थं मन्त्रं चाप्यभिचारकम् ।
राज्ञश्चापि विनाशार्थं मन्त्रं मलिनं चक्रिरे ॥२६॥
अथाऽमात्यस्तु पतितो व्यग्रोऽभवत् सुमूर्च्छितः ।
घट्यन्तरे पुनः संज्ञां प्राप्य समुत्थितोऽभवत् ॥२७॥
राजाऽपि च तथाऽवस्थां प्राप्तो मूर्च्छां ततः पुनः ।
उत्थितश्चेति तत्सर्वं कर्तव्यं चाभिचारकम् ॥२८॥
अमात्यश्चाऽसहमानोऽसहमानो नृपोऽपि च ।
स्वभटैरग्रपूज्यायाः शिरश्छेदमकारयत् ॥२९॥
अथाऽन्या अबलाः क्रूरा मृत्युभयेन दुद्रुवुः ।
दत्तं धनं गृहीत्वैव त्यक्त्वा शवं मृतस्त्रियाः ॥३०॥
प्रधावनं प्रचक्रुस्ताः प्रययुर्नगरान्तरम् ।
लोके प्रजायां सर्वत्र स्त्रीहत्यां कृतवान्नृपः ॥३१॥
स्त्रीहत्यां कृतवाँश्चाऽस्याऽमात्योऽपीत्ययशोऽभवत् ।
अग्निदा गरदा शस्त्रोद्यता मन्त्राभिचारिका ॥२२॥
ता एता आततायिन्यः शापदा शत्रुदा तथा ।
तासां नाशे न वै दोषः प्राणहा हि वधार्हणा ॥३३॥
अतो लक्ष्मि तथारूपाविघाते नैव दूषणम् ।
तथापि लोकवादाश्च जायन्ते स्त्रीहनात्मकाः ॥३४॥
अयशोबोधकाः सर्वे लोकस्य चित्रिता गतिः ।
धिक्कुर्वन्ति प्रजाश्चाऽस्याऽमात्यस्य नृपतेरपि ॥३५॥
कारणं चाभिचारादि ह्यविदित्वैव वै मृषा ।
अयशः संप्रगायन्ति स्त्रीघ्नोऽमात्यो नृपस्त्विति ॥३६॥
अथ राजा चक्रधरोऽमात्यं प्राह शुभं वचः ।
देवविश्रामनामानं कलंकस्याऽपनुत्तये ॥३७॥
कथंकार्यं कुवदन्त्याः प्रक्षालनं महामते ।
यथा प्रजायां सन्तोषः प्रवादक्षालनं भवेत् ॥३८॥
पापं यद्यपि हनने नास्त्यभिचारयोषितः ।
तथापि कुवदन्त्या वै शान्तये व्रतमाचरेत् ॥३९॥
यथा विचार्य सुखदं ब्रूहि चामात्य शोभनम् ।
कर्तव्यं तद्यथायोग्यं धर्मकार्यं यथा भवेत् ॥४०॥
अमात्यः प्राह भूप त्वं सभामाह्वय शोभनाम् ।
वृद्धप्रजाजनानां च तत्राऽऽवेदय मानसम् ॥४१॥
राजा श्रुत्वा तथा चक्रे सभां तत्र च मानवाः ।
प्रजावृद्धा आययुश्च नरा नार्यः सहस्रशः ॥४२॥
अथाऽमात्येन निर्दिष्टः पुरोहितोऽतिधार्मिकः ।
बहुश्रुतस्तथा शास्त्रसम्पन्नो वेदपारगः ॥४३॥
धर्मविद्देशकालज्ञः प्रेरितोऽमात्यवाक्यतः ।
राज्ञा चाज्ञाकृतो धर्मान् सभायां व्याजहार सः ॥४४॥
शृण्वन्तु पूज्यवर्गाश्च वृद्धा नार्यो नरास्तथा ।
धर्मस्य लक्षणं वच्मि यथाशास्त्रानुसारतः ॥४५॥
नोदनालक्षणो धर्मोऽर्थकृन्मोक्षप्रदोऽपि च ।
अनर्थकृद् विरुद्धार्थश्चाधोगतिप्रदोऽवृषः ॥४६॥
यमार्याः पाल्यमानं वै प्रशंसन्ति वृषो हि सः ।
यं तु निन्दन्ति लोकाः स त्वधर्मः परिकीर्तितः ॥४७॥
लोकानां धारणं येन पोषणं रक्षणं तथा ।
सुखं क्षेमं च कुशलं भवेद्धर्मः स उच्यते ॥४८॥
देशे काले च सत्पात्रे स्थितश्चाचार एव यः ।
सुखदः स्यात् स धर्मः स्याद् दुःखदः स्यादधर्मकः ॥४९॥
धर्मेण जायते कीर्तिः सुखं शान्तिः सदा तथा ।
उन्नतिश्चोदयश्चापि स्वर्गं मोक्षश्च शाश्वतः ॥५०॥
स एव धर्म उदितो येन राजा प्रजाः सुखाः ।
देवपूजा तथा दानं व्रतं दया च दक्षिणा ॥५१॥
परोपकारः सततं धर्मोऽयं सर्वदेहिनाम् ।
स्नानं जपो देवनमस्कारो देवार्पणं तथा ॥५२॥
वृद्धाभिपूजनं धर्मो नृपाभिपूजनं तथा ।
आचारः प्रथमो धर्मो ह्यधर्मस्तद्विपर्यये ॥५३॥
सतामाचार एवाऽस्ति धर्मो न त्वसतां तथा ।
अहिंसा सत्यमस्तेयं ब्रह्मव्रतं तपो दमः ॥५४॥
धर्म एव परः प्रोक्तो वृद्धसेवाऽपि दुर्लभा ।
साधुसेवा च सत्संगः परो धर्मः प्रकीर्तितः ॥६५॥
भूतानामुपकारश्च यथाशक्ति वृषो मतः ।
प्रसन्नीकरणं धर्मः प्रसन्नत्वं हि दुर्लभम् ॥५६॥
अप्रसादस्तथोद्वेगोऽनुपकारो ह्यसेवनम् ।
हिंसाऽनृतं प्रसह्याऽपहरणं दुष्टसंगिता ॥५७॥
अधर्म एव भवति त्याज्याश्चायं सदा जनैः ।
श्रद्धया दीयते दानं धर्म एव मतो हि सः ॥५८॥
प्रसह्य ह्रियते यत्तु स त्वधर्मो हि लुण्टकृत् ।
अभिचारो भवेन्मन्त्रैः प्राणानां घातको यदि ॥५९॥
अधर्म एव राज्ञां वा प्राणनाशोऽप्यधर्मकः ।
प्रधानस्याभिचारेण मारणं चाप्यधर्मकः ॥६०॥
देशे काले च पात्रे च हिंसा दुष्टाशयस्तथा ।
आततायिक्रिया चापि ह्यधर्म एव कीर्तितः ॥६१॥
एतादृशो यदाऽधर्मो नरे नार्यां च बालके ।
वालायां वा प्रवर्तेत चाततायिस्वरूपधृक् ॥६२॥
इन्तव्य एव शस्त्राद्यैरधर्मोऽधर्मवाँस्तथा ।
आततायी प्रहन्तव्यः सर्वथा प्राणरक्षणे ॥६३॥
आततायी यदा नैव हन्यते येन सोऽपि वै३।
द्रुतं हतो भवेत्तस्माद्धन्तव्य आततायकृत् ॥६४॥
एतद्धर्मस्वरूपं वै मयोक्तं भवतां पुरः ।
बहुचराया भक्तानां स्त्रीणामत्र प्रपूजनम् ॥६५॥
कृतं सहस्रमुद्राभिः सुवर्णानां यथायथम् ।
तथापि च बलान्नार्यो हठान्नेतुं दृढाशयाः ॥६६॥
अभिचारं प्रचक्रुस्ता नृपेऽमात्येऽतिमारकम् ।
अतस्ता आततायिन्यो मारिकाः पूतना यथा ॥६७॥
राक्षस्य एव ताः प्रोक्ता हिंसिकास्तामसात्मिकाः ।
मन्त्रवेत्त्र्यश्चातताय्यभिचारकार्ययोजिकाः ॥६८॥
हन्तव्या एव नास्त्यत्र दोषो धर्म इतिस्थितिः ।
वधार्हास्ताः समस्ता वै किन्त्वेका विहताऽऽसु तु ॥६९॥
दया कृता न क्रौर्यं तद्धर्म एव न चेतरः ।
धर्म एव हि तत्राऽस्ति दुष्टानां मारणं तु यत् ॥७०॥
प्राणहानां प्राणनाशो धर्म एव यतः प्रजाः ।
स्त्रीवधो दूषणं नास्ति पूतनावध एव सः ॥७१॥
कृत्यावधे न वै दोषो धर्म तं वै निबोधत ।
सिंह्या नाम्यां तथा व्याध्या वृश्चिक्यां न दयालुता ॥७२॥
प्राणघ्नायां तु राक्षस्यां तथा दया न सम्मता ।
अत एव न घातिन्यां दया कार्या क्वचिज्जनैः ॥७३॥
प्रवृत्तायां प्राणनाशे दया कार्या न सर्वथा ।
अप्राणनाशे प्रवृत्तावुपेक्षा तत्र युज्यते ॥७४॥
एवंधर्मो भवत्येव तस्मात् प्रजाग्रगामिनः ।
भवन्तो यद्ब्रवन्त्वत्राऽभिचारिणीविनाशने ॥७५॥
पापं वा यदि वा पुण्यं नोभयं चोभयं च वा ।
श्रुत्वैवं ते सभापूज्या ऊचुश्चातीव धार्मिकम् ॥७६॥
आततायिवधे दोषो न घातिन्या वधेन च ।
अभिचारपरायाश्च वधे दोषो न विद्यते ॥७७॥
किन्तु नारीति प्रहतेत्येवंवादविशुद्धये ।
विष्णुयज्ञः प्रकर्तव्यः सर्वापवादशान्तिदः ॥७८॥
इत्यस्माकं मतं पुण्ये कार्ये राजा करोत्विदम् ।
प्रजाजनानां वचनं लक्ष्मि भूपेन मानितम् ॥७९॥
अमात्येन स्वीकृतं च सभायां सर्वशुद्धये ।
अथाऽऽदाय मुहूर्तं स शुभं मखमकारयत् ॥८०॥
मण्डपं कुण्डमुत्कृष्टं देवानां स्थापनानि च ।
पूजनानि च दानानि भोजनानि घृतानि च ॥८१॥
दक्षिणा विविधाश्चापि हव्यानि समिधस्तथा ।
विष्णवे पूजनादीनि कव्यानि ह्यम्बराणि च ॥८२॥
अन्नधनानि योग्यानि राजाऽमात्यप्रजा ददुः ।
पूर्णाहुतिं प्रचक्रुश्च तदा नारायणो ह्यहम् ॥८३॥
अगच्छं श्वपचो भूत्वा भोजनं चाऽर्थयं ततः ।
अमात्यः प्रददौ भोज्यं दूरान्मे तु तदा रमे ॥८४॥
तदा भुक्तं मया चान्नं पंक्तिपावनकारिणा ।
चुलुकं च कृतं हस्तप्रक्षालनं तथा कृतम् ॥८५॥
जलं प्रपीतं यावद्वै तावद् राज्ञस्तु देहतः ।
कृष्णवर्णो धूम्र एव निर्गत्याऽमात्यगोऽभवत् ॥८६॥
अमात्यदेहतः कृष्णा नारी पापा हि निर्गता ।
मृता सा योगिनी हत्यारूपा स्त्री ह्यभवद्धि सा ॥८७॥
आकृष्टा श्वपचेनैव श्वपचे सा तिरोहिता ।
अग्निदग्धा द्रुतं तस्य श्वपचस्य तु मस्तकात् ॥८८॥
विद्युद्रूपा प्रभुत्वैव शीघ्रं सा व्योमऽगाभवत् ।
अस्तौद् दिव्यस्वरूपा च श्रीपतिं मां रमापतिम् ॥८९॥
अभिचारिकनार्या मे मोक्षार्थं भगवान् भवान् ।
उपस्थितोऽस्ति यज्ञेऽत्र पूर्त्यर्थं नृपयज्ञयोः ॥९०॥
भक्तहस्तेन या हत्या साऽपि मोक्षाय जायते ।
पापाया मम हत्याऽपि त्वद्योगेन दिवंप्रदा ॥९१॥
मोक्षप्रदा भवत्येव पुण्यं मे जायतेऽधुना ।
हरेकृष्ण बालकृष्ण श्रीपते परमेश्वर ॥९२॥
बहुचरायास्ते शक्तेः सेविकां मां समुद्धर ।
इत्युक्त्वा भगवद्दृष्ट्या तूर्णं सा स्वर्गतिं गता ॥९३॥
कालान्तरे हरेर्भक्त्या वैकुण्ठं सा ययौ सती ।
अथ राजा कुटुम्बं चाऽमात्योऽपि परमेश्वरम् ॥९४॥
मां विज्ञाय हरिं चाऽपि पुपूजुश्च प्रजाजनाः ।
तदऽहं द्राक् चतुर्बाहुर्भूत्वाऽध्वरे शुभासने ॥९५॥
निवेशितो निषसाद प्रसादं मे ददौ तदा ।
सर्वेभ्यः कणकारूपं चरूस्थं तेऽपि जगृहुः ॥९६॥
पावनास्ते समस्ता वै जाताः सर्वे ममाऽऽगमात् ।
एवं हत्याकलंकं वै मया विनाशितं तयोः ॥९७॥
काण्डिकानामिकाया वै योगिन्या मोक्षणं कृतम् ।
राजाऽमात्यौ वरदानैः स्वर्गार्थं मोक्षणाय च ॥९८॥
आशीर्वादैर्योजितौ च कुटुम्बे चापि वै तयोः ।
अथ कालान्तरे स्वर्गवासिनौ तौ मया कृतौ ॥९९॥
मोक्षभाजौ तथा तस्मात् कृतौ लक्ष्मि नृपाऽनुगौ ।
एवं यज्ञोत्तरं सर्वं कृपया कृतवानहम् ॥१००॥
तिरोऽभवं त्वध्वरे चाकषर्यन् तन्मनांस्यपि ।
सस्मरुर्थे नरा नार्योऽपि तं धामाऽक्षरं ययुः ॥१०१॥
एवं मया स्त्रीहत्यायाः पापं विनाशितं प्रिये ।
भुक्तिं मुक्तिं लभेतापि पाठकः श्रावकोऽस्य च ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने चक्रधरनृपाज्ञया देवविश्रामाख्यामात्यस्य काण्डिका-योगिनीस्त्रीहत्यायाः पापस्य यज्ञे श्रीहरिणा
निवृत्तिः कृतेत्यादिनिरूपणनामा चतुर्नवत्यधिकशततमोऽध्यायः ॥१९४॥

N/A

References : N/A
Last Updated : May 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP