संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १६४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १६४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६४ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-कान्त! भगवता प्रोक्ता मनवो ये चतुर्दश ।तेषु तवाऽवतारा ये तान् सकार्यान् वदस्व मे ॥१॥श्रीपुरुषोत्तम उवाच-शृणु श्रीशिवराज्ञीश्रि! तत्र दैत्यविनाशकान् ।अवतारान् कथयामि सहेतून् धर्मरक्षकान् ॥२॥स्वायंभुवो मनुश्चाद्य इन्द्रश्च विश्वभुक् तदा ।तथा दैत्यो बाष्कलिश्च तपस्तेपे स दारुणम् ॥३॥अग्निध्रादीन्मनोः पुत्रान् दैत्यो वशे चकार ह ।स मरीच्यत्र्यंगिरसपुलस्त्यपुलहक्रतून् ॥४॥वसिष्ठं चेति सप्तर्षीनपि स्ववशगान् व्यधात् ।जयानमितान् शुक्राँश्च यामान् देवान् वशे व्यधात् ॥५॥अपि विष्णुर्नारदेन बोधितो दैत्यछित्तये ।सुदर्शनं महाचक्रं प्रेरयद् रणमूर्धनि ॥६॥चिच्छेद् मस्तकं दैत्यस्याऽथ देवानमोचयत् ।अय विष्णुस्वरूपो मेऽवतारः प्रथमो रमे ॥७॥अथ स्वारोचिषे मन्वन्तरे द्वितीयके पुनः ।पुरुकृसरो दैत्यो वै त्विन्द्रं विपश्चितं सुरान् ॥८॥अपीडयत्तथा चोर्जं स्तम्बं प्राणं च निश्चलम् ।ऋषभं चार्ववीरं च दम्भोलिमप्यपीडयत् ॥९॥सप्तर्षीन् तुषितान् पारावतान् देवानपीडयत् ।मनुपुत्रान् चैकलं च विनतं विद्युतं रविम् ॥१०॥बृहद्गुणं च कर्णान्तं नभसे तानपीडयत् ।जलमध्ये वसन्तं च मेघरूपेण वा क्वचित् ॥११॥वर्तमानं विहन्तुं वै महेन्द्रप्रार्थ्धितोऽप्यहम् ।श्वेतहस्तिस्वरूपं वै सपक्षं पर्वतप्रभम् ॥१२॥चतुर्दन्तं द्विशुण्ढं च दधार सहसा वने ।युद्ध्यमानं सशस्त्रं च दैत्यं रणे प्रसह्य च ॥१३॥अहममारयं दन्तैः शुण्ढाभ्यां पादमर्दनैः ।गजनारायणः सोऽहं भविताऽस्मि तदा क्षितौ ॥१४॥प्रसिद्धः पूजितो लोकैर्मोक्षदो भुक्तिदोऽपि च ।द्वितीयश्चाऽवतारो मे गजाख्यः कथितो रमे ॥१५॥औत्तमे च मनौ तृतीयके प्रलम्बदानवः ।महाबलो महेन्द्रं च स्वशान्तिनामकं तथा ॥१६॥रथौजसं चोर्ध्वबाहुं शरणं त्वनघं मणिम् ।शंकुं सुतपसं सप्तर्षींश्च दुःखाकरिष्यति ॥१७॥वशवृत्तान् स्वधाम्नश्च शिवान् सत्यान् प्रतर्दनान् ।देवांस्तान् योधयित्वा स स्ववशान् प्रणयिष्यति ॥१८॥मनोः पुत्रान् परशुं च विनीतमाजमित्यपि ।शुचिं सुकेतुं सुवलं देवावृधं सुमित्रकम् ॥१९॥महोत्साहार्जितं ताँश्च युधे सर्वान् विजेष्यति ।महाजलान्तरे गत्वा दानवो वासमेष्यति ॥२०॥तदाऽर्थितोऽहं मनुना भविष्यामि जलान्तरे ।मत्स्यरूपो हि भगवान् मारयिष्यामि लम्बकम् ॥२१॥तृतीयश्चाऽवतारोऽयं मम मत्स्यस्वरूपधृक् ।चतुर्थस्य मनोस्तामसाख्यस्य समये भुवि ॥२२॥भीमरथोऽसुरो भैमरथासुरैः समेधितः ।विजितये शिबिनामानमिन्द्रं तथा मनोः सुतान् ॥२३॥जानुजंघं निर्भयं च नवख्यातिं नयं तथा ।विविक्षिपं प्रियभृत्यं हविष्कन्धिं कृतं तथा ॥२४॥कृतबन्घुं प्रस्तलाक्षं दश वशे चकार सः ।ऋषीन् ज्योतिर्धामकं च धृष्टं काव्यं च हेमकम् ॥२५॥अग्निं चेतं चैत्रकं च वशे चकार वै तदा ।देवान् सुरागान् स्वधींश्च हरीन् हरितकान् वशे ॥२६॥चकाराथ सुरैः सम्प्राथिंतश्चाऽहं तदा रमे ।भीमरथं समुद्रस्य तलस्थं तं महासुरम् ॥२७॥हनिष्ये कूर्मरूपेण जलमध्ये महावपुः ।चतुर्थश्चाऽवतारोऽयं मम कूर्मस्वरूपधृक् ॥२८॥पञ्चमस्य रैवतस्य मनोस्तु समये क्षितौ ।इन्द्रे तु विभुनामानं बबन्ध शान्तशत्रुकः ॥२९॥दैत्यौ दैत्यगणैर्युक्तस्तथा मनोः सुतानपि ।महाप्राणं साधकं च प्रत्यंगं नरमित्रकम् ॥३०॥शुचिं परघ्नं च वनबन्धुं दृढव्रतं तथा ।केतुशृंगं विजिग्येऽसौ सप्तर्षींश्चाऽप्यपीडयत् ॥३१॥देवश्रियं वेदबाहुमूर्ध्वबाहुं स्वधामकम् ।हिरण्यरोमकं पर्जन्यकं च सत्यनामकम् ॥३२॥एवं देवानभूतरजसोऽश्वमेधकाँस्तथा ।वैकुण्ठानमृताँश्चाऽप्यपीडयद् बहुधाऽभितः ॥३३॥ऋषिभिश्चाऽर्थितश्चाऽहं तदाऽरण्यनिवासवान् ।हंसरूपधरो भूत्वा जघान शान्तशत्रुकम ॥३४॥पञ्चमश्चाऽवतारोऽयं मम हंसस्वरूपधृक् ।चाक्षुषस्य तु षष्ठस्य मनोस्तु समये ततः ॥३५॥महाकालो महादैत्यो देवदुःखप्रदोऽभवत् ।इन्द्रं मनोजवाख्यं स जित्वा मनोः सुतानपि ॥३६॥उरुं पुरुं शतद्युम्नं तापसं सत्यबाहुकम् ।कृतिमग्निष्णुमतिरात्रं च सुद्युम्नकं नरम् ॥३७॥एतान् जित्वा तथा देवानार्यान् भाव्यान् प्रलेखकान् ।पृथुकान् प्रसुताँश्चापि तथा जित्वा ऋषीनपि ॥३८॥हविष्मन्तं च सुतनुं स्वधामानं च वैराजम् ।अभिमानं सहिष्णुं च मधुश्रियं हि सप्त तान् ॥३९॥जित्वा त्रैलोक्यराज्यं वै महाकालः करिष्यति ।तदा लोकैः प्रार्थितोऽहं हयग्रीवस्वरूपधृक् ॥४०॥भूत्वा दैत्यं महाकालं नाशयिष्यामि पद्मजे ।षष्ठोऽयमवतारो मे हयग्रीवस्वरूपवान् ॥४१॥सप्तमे च मनौ वैवस्वते लक्ष्मि! महान् खलः ।हिरण्याक्षो महादैत्यो जिगाय सर्वदेवताः ॥४२॥मरुद्देवाँस्तथाऽऽदित्यान् वसून् साध्यान् गणाँस्तथा ।विश्वेदेवानश्विनौ च रुद्रानाङ्गिरसान् सुरान् ॥४३॥तथा तेजस्विनामानं चेन्द्रं जिगाय दैत्यराट् ।ऋषींश्च पीडयामास भरद्वाजं च गौतमम् ॥४४॥विश्वामित्रं कश्यपं च जमदग्निं वशिष्ठकम् ।अत्रिं चेति तथा मनोः पुत्रान् वशे चकार ह ॥४५॥इक्ष्वाकुं च लविष्यन्तं नेदिष्टं नामकं नभम् ।पांशुं विष्टिं च सर्जातिं करूषकं पृषध्रकम् ॥४६॥सुद्युम्नं चेति सर्वान् वैष्णवाँश्चक्रे निजानुगान ।तदा तु भक्तया पृथ्व्या प्रार्थितोऽहं हरिः स्वयम् ॥४७॥वाराहरूपवान् हिंसिष्यामि हिरण्यनेत्रकम् ।सप्तमोऽयं चावतारो वाराहो भ्वादिरक्षकः ॥४८॥अष्टमे च मनौ सावर्ण्याख्ये चेन्द्रो बलिर्नृपः ।विरोचनसुतो दैत्यो महाभक्तो बभूव ह ॥४९॥तद्वशे च तदा देवा अमृताभाः सुतापसाः ।मुख्याश्चेति गणाः सर्वे वर्तन्ते स्म बलादिव ॥५०॥अश्वत्थामा कृपो व्यासो गालवो दीप्तिमानपि ।ऋष्यशृंगः पर्शुरामः ऋषयस्तेऽपि तद्वशे ॥५१॥सावर्णेस्तु सुता अर्ववीरो विजयः सत्यवाक् ।कृतिर्निर्देहः सगतिर्वरिष्ठश्च गरिष्ठकः ॥५२॥वाचश्चेति बलेः सर्वे वश्याश्च दुःखिनो यदा ।तदाऽहं देवऋषिभिश्चाऽर्थितो वामनाकृतिः ॥५३॥भूत्वा च याचको विप्रो ग्रहीष्ये शक्रधिष्ण्यकम् ।बलिं मोक्षं प्रेषयिष्ये दिवं दास्यामि जिष्णवे ॥५४॥अष्टमोऽयं मेऽवतारस्त्रिविक्रमो हि पद्मजे! ।नवमे दक्षसावर्णौ मनौ तु कालकाक्षकः ॥५५॥देवशत्रुर्वशे निन्ये चेन्द्रमद्भुतनामकम् ।कार्तिकेयांऽशमिन्द्रं तं तथा मनोः सुतानिमान् ॥५६॥धृष्टकेतुं दीप्तिकेतुं पद्महस्तं निराकृतिम् ।पृथुश्रवसमृचिकं बृहद्द्युम्नं बृहद्गुणम् ॥५७॥तथा निन्ये वशे सप्तर्षींश्च मेधातिथिं वसुम् ।ज्योतिष्मन्तं सबलं च द्युतिं कव्यं च हव्यकम् ॥५८॥तथा पारान् सुधर्माख्यान् मरीचिगर्भकान् सुरान् ।तदाऽहमर्थितो देवैः पद्मनाभो भवामि च ॥५९॥कालकाक्षं हनिष्यामि करिष्यामि सुखान् सुरान् ।नवमोऽयं पद्मनाभोऽवतारो मे हि पद्मजे ॥६०॥दशमे ब्रह्मसावर्णौ बलिशत्रुर्महासुरः ।शान्तिनामकमिन्द्रं च सप्तर्षीन् वशमानयत् ॥६१॥आपोमूर्तिं हविष्मन्तं सत्यं सुकृतिनं तथा ।नाभागं चाऽप्रतिमं च वसिष्ठं चेति तानृषीन् ॥६२॥मनोः पुत्रान् सुक्षेत्रं च भूमिसेनं जयद्रथम् ।अनमित्रं वृषभं च शतानीकं सुपर्वकम् ॥६३॥सुवीर्यमौत्तमौजस्कं वशे निन्ये महासुरः ।सुखासीनान्निरुद्धाँश्च प्राणान् देवान् वशे व्यधात् ॥६४॥देवैस्तदाऽर्थितश्चाऽहं हरिरूपधरः स्वयम् ।गदया बलिशत्रुं तं घातयिष्यामि वै रमे ॥६५॥दशमोऽयं हरिरूपोऽवतारो मम पद्मजे ।एकादशे धर्मसावणौ मनो वृषमिन्द्रकम् ॥६६॥दशग्रीवो महादैत्यो वशं चकार देवताः ।विहंगमान् कामगमान्निर्माणरुचिकाँस्तथा ॥६७॥एकैकरुचिकाँश्चापि देवानथ मनोः सुतान् ।सर्वत्रगं सुशर्माणं देवानीकं पुरुं गुरुम् ॥६८॥क्षेत्रवर्णं दृढेषुं चाऽऽर्द्रकं च पुत्रकं तथा ।सप्तर्षींश्च वशे चक्रेऽग्नितेजसं हविष्यकम् ॥६९॥विश्वं विष्णुं विस्तरं च हविष्मन्तं च वारुणम् ।ऋषिभिः प्रार्थितश्चाऽहं श्रीरूपो मोहकारकः ॥७०॥भूत्वा मुग्धं हरन्तं मां हनिष्यामि महासुरम् ।एकादशोऽवतारो मे श्रीनारीरूपवान् रमे ॥७१॥द्वादशे रुद्रसावणौ ऋतधामानमिन्द्रकम् ।तारकाख्योऽसुरश्रेष्ठो वशे चकार वै स्वयम् ॥७२॥मनोः पुत्रान् देववन्तमुपदेवं विदूरथम् ।देवश्रेष्ठं मित्रवन्तं मित्रदेवं सवीर्यकम् ॥७३॥मित्रबिन्दुं मित्रवाहं प्रवाहं चेति वै तथा ।देवान् स्वधर्मणश्चापि रोहितकान् हरितकान् ॥७४॥सुरारीन् सुतपसश्च सप्तर्षीनित्यपीति च ।तपस्विनं सुतपसं तपोमूर्तिं तपोरतिम् ॥७५॥तपोधृतिं द्युतिं विद्युतिं चेति वै ततः सुराः ।चक्रिरे प्रार्थनां मे च तारकस्य समाप्तये ॥७६॥तारकोऽपि शंकरस्य वरदानान्महाबलः ।नरो वै चेतनं तत्त्वं नारी माया जडं तु तत् ॥७७॥ताभ्यां मृत्युर्न मे स्याद्वै वरं लब्ध्वा निरामयः ।जिगाय सर्वभूतानि राज्यं चक्रे त्रिलोकजम् ॥७८॥ततोऽहं तस्य नाशाय नपुंसकत्वमाप्तवान् ।तेन रूपेण कमले! नाशयिष्ये हि तारकम् ॥७९॥नपुंसकहरिश्चायमवतारो नवीनकः ।नपुंसकात्मिकी सृष्टिस्ततोऽभवन्मदुत्तरा ॥८०॥द्वादशश्चाऽवतारोऽयं मम लक्ष्मि! प्रकीर्तितः ।नपुंसकहरिं ध्यात्वा भजित्वा मानवास्तदा ॥८१॥यास्यन्ति परमां मुक्तिं स्त्रीपुंलिंगविवर्जिताम् ।त्रयोदशे देवसावर्णौ रौच्ये तु दिवस्पतिम् ॥८२॥इन्द्रं वशे चकाराऽपि दैत्यष्टिट्टिभसंज्ञकः ।मनोः पुत्रान् चित्रसेनं तपोधर्मरतं धृतिम् ॥८३॥विचित्रं घर्मपं क्षेत्रवृत्तिं दृढं सुनेत्रकम् ।वशे चक्रे तथर्षींश्च सुनयं तत्त्वदर्शिनम् ॥८४॥धृतिमन्तमव्ययं च निशारूपं निरुत्सुकम् ।निर्माणं चेत्यथ देवान् स्वरोमकान् स्वधर्मकान् ॥८५॥स्वकर्मकानमराँश्च वशे चक्रे तु टिट्टिभः ।मेरुवासं टिट्टिभं तं नाशयितुं सुरादयः ॥८६॥प्रार्थयन् मां मया दीर्घं रूपं मायूरकं धृतम् ।मायूरकेण रूपेण घातयिष्यामि टिट्टिभम् ॥८७॥त्रयोदशोऽवतारोऽयं मम लक्ष्मि प्रकीर्तितः ।मायूरोऽहं महाराजः पूजां प्राप्स्ये तदा युगे ॥८८॥चतुर्दशेन्द्रसावर्णौ भौत्ये शुचिर्महासुरः ।इन्द्रो भूत्वा सार्वराज्यं प्रचकार त्रिलोकजम् ॥८९॥मनोः पुत्रान् गभीरं च धृष्टमूरुं तरस्विनम् ।अभिमानं गभीरं च ग्राहं जिष्णुं प्रवीरकम् ॥९०॥दुर्लभं संक्रन्दनं च वशे तान् स चकार ह ।सप्तर्षीनग्निबाहुं चाऽग्निध्रं शुचिं च मागधम् ॥९१॥शुक्रमजितं मुक्तं च वशे चकारे स स्वयम् ।चाक्षुषान् कर्मठाँश्चापि पवित्रान् भ्राजिनः सुरान् ॥९२॥वाचावृथान् देवगणान् वशे चक्रे तथा स्वयम् ।सायंकाले हरिश्चाऽहं प्रार्थितो ब्रह्मणा यदा ॥९३॥प्रलयाय विनाशायाऽसुरस्येन्द्रस्य वै तथा ।सुदर्शनेन चक्रेण घातयिष्यामि शक्रकम् ॥९४॥सुदर्शनहरिश्चायमवतारो ममाऽन्तिमः ।कल्पान्ते कथितो लक्ष्मि मध्येऽन्ये बहवोऽपि च ॥९५॥कार्यवशाद् भवन्त्येव मेऽवतारा असंख्यकाः ।यस्य हस्तेऽथवा पादतले मत्स्यो धनुर्ध्वजः ॥९६॥शरः शूलं स्वस्तिको वा चक्रं पद्मं घटोऽपि वा ।सोऽहं नारायणः साक्षादस्मि प्रच्छन्नरूपवान् ॥९७॥वर्तामि साधुधर्माऽहं साधुकर्मा समस्तविद् ।सैश्वर्यश्चाप्यनैश्वर्यो दिव्योऽप्यदिव्यवर्तनः ॥९८॥संगात् समागमाद् योगाद् दर्शनात् स्पर्शनादपि ।सहवासात् स्मरणाद्वा सेवनान्मुक्तिदो ध्रुवम् ॥९९॥भाग्यवन्तो देहिनो मां ज्ञात्वा प्रसाद्य सेवया ।मोक्षमार्गे चार्जयन्ति ममाऽऽनन्दमलौकिकम् ॥१००॥अभाम्यास्तु मनुष्यं मां मत्वा यान्ति विदूरतः ।आसुरास्ते पापवन्तो महेर्ष्यवोऽपराधिनः ॥१०१॥मुक्तिमार्गस्थिताश्चापि यास्यन्ति निरयान् बहून् ।चिह्नैश्चापि च सार्वज्ञ्यैस्तथा दिव्यगुणादिभिः ॥१०२॥मां विदित्वाऽऽश्रयिष्यन्ति ये ते यास्यन्ति मेऽक्षरम् ।नरा नार्यश्च पशवः पक्षिणः शूद्रयोनयः ॥१०३॥अप्यधर्मपराश्चापि मद्योगात् पावना हि ते ।कामः क्रोधस्तथा लोभो मानं मदश्च मत्सरः ॥१०४॥दुर्गुणाः पुण्यपापे च निर्गुणा मम योगतः ।येन केनापि भावेन युज्यन्ते ये मया सह ॥१०५॥नित्ययुक्ता हि ते जाता वियुज्यन्ते न कर्हिचित् ।मम योगो मोक्षदो वै सुरमानवरक्षसाम् ॥१०६॥शूद्रपक्षिपशूनां च दैत्यदानवयोषिताम् ।मया संकल्पमात्रेण तार्यन्ते त्वण्डराशयः ॥१०७॥मम मनाक् सुयोगेन पूयन्ते पापकर्मिणः ।या क्रिया पापनाम्नो सा कृता मयि तु पावनी ॥१०८॥स्वतन्त्रोऽहं ममाऽऽम्नाया उपदिशन्ति वै वृषान् ।अयं वृषो भवत्वेवं धारयामि वृषो हि सः ॥१०९॥अवृषोऽपि वृषः स्यान्मे संकल्पाद्वा वृषोऽवृषः ।विचार्येत्थं प्रसेवन्ते मां मूर्तं परमेश्वरम् ॥११०॥तेषां मुक्तिः करे त्वास्तेऽमुत्राऽत्र सर्वकर्मसु ।पठनाच्छ्रवणादस्याऽध्यायस्य मोक्षणं भवेत् ॥१११॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने चतुर्दश- मन्वन्तरेषु हरेश्चतुर्दशाऽवतारप्रयोजनादिनिरूपणनामा चतुःषष्टयधिक शततमोऽध्यायः ॥१६४॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP