संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २० द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २० Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं प्राकट्यं मे ततः परम् ।सर्वेश्वरेश्वरेशानां विनियन्तुः परात्मनः ॥१॥त्रयोविंशे वेधसश्च सनातनाख्ये वत्सरे ।द्विपञ्चाशत्तमे कल्पे प्रथमे च मनौ पुरा ॥२॥पृथिव्यां सुरनद्याश्च तटे कालादने वने ।मधुमच्छृंगवत्पार्श्वे क्ष्मासुराः स्म वसन्ति वै ॥३॥तापसा ध्यानपरमा यज्ञयागपरायणाः ।ब्रह्मकार्यपराश्चापि परमार्थपरायणाः ॥४॥गृहधर्मे स्थिताः कर्मज्ञानमुख्याः विभक्तिकाः ।मन्वते न बहुभक्तिं स्म ते मोक्षस्य साधनम् ॥५॥धर्मयुक्तं हि विज्ञानं विवेकं बहु मन्वते ।जडाजडविवेका ये निजधर्मपरायणाः ॥६॥तरन्ति सर्वभोगाढ्या अपि ज्ञानेन बन्धनम् ।अकर्ताऽऽत्मा चाप्यभोक्ता नित्यशुद्धोऽस्ति वर्ष्मसु ॥७॥अहंममत्वरहितो रागद्वेषविवर्जितः ।सुखदुःखविमुक्तश्च मुक्त एव न संशयः ॥८॥वासनाऽऽशयहीनश्च क्रियायत्नविवर्जितः ।बहिर्बुद्धिविहीनश्च मुक्त एव न संशयः ॥९॥रजोभावविहीनश्च कामक्रोधादिवर्जितः ।वृथाचेष्टाविहीनश्च मुक्त एव न संशयः ॥१०॥स्त्रीपुत्रगृहयुक्तोऽपि वनवाटीसमन्वितः ।महिषीगोवृषयुक् च निर्बन्धो मुक्त एव सः ॥११॥लोकाचारयुतो नित्यं शास्त्राचारपरायणः ।मर्यादायां वर्तमानो मुक्त एव न संशयः ॥१२॥इत्येवं वृषमुख्यास्ते क्ष्मासुरा मखकर्मिणः ।सुस्त्रीपुत्रीपुत्रयुक्ता वर्तन्ते स्म सरित्तटे ॥१३॥फलमूलदलाहाराः सूर्यपक्वाशनास्तथा ।ऋतुपक्वाशनाश्चापि वर्तन्ते स्म निराशयाः ॥१४॥ब्रह्मशीलपराश्चापि चीरवल्कलधारिणः ।जटाभस्मादियुक्ताश्च पर्णकुट्यादिवासिनः ॥१५॥ब्रह्मचर्यं यथायोग्यं पालयन्ति व्रतानि च ।यज्ञोत्सवान् प्रकुर्वन्ति स्मोत्सवान् ज्ञानिनामपि ॥१६॥एवं वै वर्तमानास्ते जनेषु भूतलादिषु ।स्थापयन्ति स्म वै ज्ञानं सकर्म मोक्षसाधनम् ॥१७॥भक्तिं स्मरन्ति नैवैते धर्मे समाश्रयन्ति च ।ततो वै चैकदा भक्त्या पत्न्याऽतिकृशया पतिः ॥१८॥धर्मदेवोऽर्थितः पुष्ट्यै निजायाः प्राणरक्षकः ।कान्त रक्षक लोकानां पत्नीव्रतोऽस्ति वै भवान् ॥१९॥तव पुष्टिं प्रकुर्वन्ति क्ष्मासुराः कल्पकेऽत्र च ।मम स्थानं न तत्राऽस्ति मृतिं यास्यामि वै ततः ॥२०॥मां विहाय त्वया नाथ न गन्तव्यं कदाचन ।तव पुष्टिर्मम हानिर्नैतद् युक्तं कदाचन ॥२१॥यथा पुष्टिर्मम स्याच्च तथा पाल्या तव प्रिया ।अप्रिया चेत् तवाऽहं वाऽस्त्रीति त्याज्या सदा खलु ॥२२॥येन मे मरणं श्रेयःकरं स्यान्न तु जीवनम् ।इत्युक्तो धर्मदेवो वै शुशोच क्षणमान्तरे ॥२३॥भक्तिपुष्टिं हृदि कृत्वा निर्णयामास तत्कृतिम् ।ययौ नारायणं विष्णुं परब्रह्म सनातनम् ॥२४॥अनादिश्रीकृष्णनारायणं मां पुरुषोत्तमम् ।अक्षराख्ये परे धाम्नि चागत्य च पुपूज माम् ॥२५॥प्रार्थयद् भक्तिदेव्यास्तु स्थापनार्थं क्षितौ वृषः ।परब्रह्म हरेकृष्ण नारायण परेश्वर ॥२६॥अद्य कल्पे क्षितौ लोका धर्ममात्रपरायणाः ।कर्मकाण्डपराश्चापि भक्तिहीना विवेकिनः ॥२७॥जडचेतनभेदज्ञाः कैवल्यार्था भवन्ति वै ।उपासना न चैवास्ति नारायणस्य ते प्रभो ॥२८॥अर्चागन्धोऽपि नैवाऽस्ति क्ष्मायां क्वापि हरेस्तव ।ततश्चार्चास्वरूपस्याऽर्हणमुपासनादिकम् ॥२९॥प्रवर्तयितुं भगवन् भक्तिं पोषयितुं तथा ।जीवयितुं भक्तिभेदान् प्रयासं वह माधव ॥३०॥श्रुत्वैवं प्रार्थनां धर्मदेवस्य भक्तिपोषिणीम् ।द्रुतं लक्ष्मि! सदायुक्तयोगिनं हि सदाशिवम् ॥३१॥प्रेरयामास पृथ्व्यां वै गन्तुं खण्डयितुं तथा ।केवलं कर्मवादं च ज्ञानवादं च केवलम् ॥३२॥भक्तिं विना निष्फलं वै कर्म ज्ञानं न मोक्षदम् ।इत्येवमुपदेशार्थं प्रेषयामास शंकरम् ॥३३॥स च भूमौ द्रुतं गत्वा दृष्ट्वा लोकांश्च कर्मठान् ।भक्तिहीनान् क्ष्मासुरादीन् रचयामास कौतुकम् ॥३४॥दिगम्बरो युवा भूत्वोज्ज्वलो मोहकविग्रहः ।देव्या युक्तो हरः पुष्टो ययौ क्ष्मासुरखर्वटम् ॥३५॥यत्र वसन्ति सर्वे ते कर्मठाः क्ष्मासुरादयः ।तत्पत्न्यश्चापि तत्कन्याः कुमाराश्च द्विजोद्भवाः ॥३६॥कर्मठाः सर्व एवैते भेदज्ञानपरा अपि ।भक्तिहीना दिव्यदृष्टिविहीना देहमानिनः ॥३७॥कामक्रोधपराश्चापि देवमाहात्म्यवर्जिताः ।योगिसाधुप्रतिमादिमाहात्म्यवर्जितास्तथा ॥३८॥आतिथेयविहीनाश्च ब्राह्मदशाविवर्जिताः ।संसारदृष्टियुक्ताश्च दोषभद्धृदयान्विताः ॥३९॥एवंविधाः क्ष्मासुरास्ते यत्र वसन्ति संहताः ।नरा नार्यो ग्रामवासाः पर्णकुट्यादिवासिनः ॥४०॥तत्राऽयं शंकरो नग्नो ययौ चेष्टां तु कामिनः ।कुर्वन् गृहं गृहं याति कन्यास्तथा कुमारकाः ॥४१॥युवत्यश्च तथा नार्यो मत्तं विलोक्य देहिनम् ।प्रमत्तं सुन्दरं पुष्टं मोहकं तमनुद्रुताः ॥४२॥नर्मवाक्यानि जगदुर्वीक्षयामासुरीश्वरम् ।कामुकं हसमानाश्च चिक्षिपुर्धूलिकादिकम् ॥४३॥काश्चित्तु ताडयामासुर्नितम्बे दण्डयष्टिभिः ।मोहिताः श्मासुरपत्न्योऽनुजग्मुर्भानवर्जिताः ॥४४॥पस्पर्शुः सुखालोभेन निन्युर्निर्जनकुंजके ।विप्रा वीक्ष्य तथा श्रुत्वा कर्मकाण्डपरायणाः ॥४५॥मृषाविवेकध्वजिनोऽनुपेतुर्हननाय तम् ।प्राप्य दण्डैर्यष्टिभिश्च ताडयामासुरत्यति ॥४६॥शंकरो युक्तयोग्येव दुःखं जानाति नैव ह ।ताडनं बलवत् प्राप्य ममार पतितो भुवि ॥४७॥शवीभूतोऽभवत् तत्र श्वासं गृह्णाति नैव ह ।समाधौ वर्तते यद्वन्मृतो यथाऽभवत्तदा ॥४८॥ते च सन्त्यज्य पतितं विप्राः स्वस्वालयान् ययुः ।सती देवी ततः क्रुद्धा शशाप तान् प्रताडकान् ॥४९॥यतो मिथ्याज्ञानकरा विवेकध्वजिनो द्विजाः ।आत्मसत्ताविहीनाश्च निजाऽकर्तृत्वमानिनः ॥५०॥अकर्तृत्वमभोक्तृत्वं नित्यशुद्धत्वमात्मनि ।अंशमात्रं न मन्वाना वागाडम्बरवेदिनः ॥५१॥कर्मठा देहरूपाश्च कामक्रोधपरायणाः ।योगिनां च सतां दिव्यमाहात्म्यस्याऽविदस्तथा ॥५२॥कामक्रियापरा यूयं स्ववत्परेऽभिशंकिनः ।निर्दया ब्रह्महत्याका मृतिं यान्तु यथा हरः ॥५३॥इति सत्या चाभिहिते खेटे खर्वटके वने ।क्ष्मासुरा नरवर्गास्ते द्रुतं क्रमान्मृतिं ययुः ॥५४॥शवा गृहे गृहे जाता नराणां वसतिष्वपि ।हाहाकारो महान् जातो विप्रावासेषु चाभितः ॥५५॥विप्रा मृतिं प्रयान्त्येव नग्ननार्याः प्रशापनात् ।किं कर्तव्यं क्व गन्तव्यं रक्षणार्थमिहाऽद्य वै ॥५६॥नार्यो रुदन्ति परितो बालाः कन्या रुदन्त्यपि ।मानवाश्चापि संश्रुत्वा रुदन्ति च स्थले स्थले ॥५७॥आत्मभावविहीनाश्च विवेकज्ञानवर्जिताः ।वाङ्मात्रज्ञानकर्तारो भेदज्ञानविवर्जिताः ॥५८॥कर्मठाः क्रोधकामादिदोषयुक्ताः शुचान्विताः ।सर्वत्र मानवे लोके क्षितौ देशेषु वै तदा ॥५९॥क्ष्मासुरा गतभानाश्च गतासवोऽभवँस्तदा ।दिनमध्ये तु सर्वस्यां पृथिव्यां कमले तदा ॥६०॥कोट्यर्बुदशवानां वै श्मशानान्यभवँस्तदा ।गृहे गृहे शवस्तत्र क्षणे क्षणे प्रजायते ॥६१॥कोपोऽयं कश्चिदेवाऽपि महत्तम इति स्त्रियः ।अन्ये जना अविप्राद्या मेनिरे सर्वनाशकः ॥६२॥यत्र यत्राऽभवन् विप्राः कर्मठा भिन्नवादिनः ।भक्तिहीनाश्च ते सर्वे शवतां भेजिरे तदा ॥६३॥हाहाकारे तथा जाते नरा नार्योऽवशेषिताः ।आराधनां परेशस्य चक्रुर्मे परमात्मनः ॥६४॥त्वं प्राणस्त्वं जीवनं च त्वं रक्षाकर माधव ।त्वं स्त्रीणां शरणं नाथ जीवयाऽस्मत्पतीन् जनान् ॥६५॥इत्येवं स्तवनं श्रुत्वा निमित्तं चागमे मम ।अहं साकं त्वया लक्ष्मि! चाययौ पुरुषोत्तमः ॥६६॥भुवं शीघ्रं शंखचक्रगदापद्मादिशोभितः ।स्वर्णभूषाम्बरशाली दिव्यतेजोऽभिराजितः ॥६७॥यत्र हरशवश्चास्ते यत्र द्विजशवास्तथा ।तत्र प्रदर्श्य मद्रूपं समाश्वास्य च योषितः ॥६८॥तथा नरान् द्विजभिन्नानहं धैर्यं परं ददौ ।कर्मठा ज्ञानकर्तारो विवेकाचारवर्जिताः ॥६९॥शुष्कज्ञाना भक्तिहीनाः साध्वपराधकारिणः ।सद्यः फलमिमे प्राप्ताश्चाऽविदित्वाऽपराधिनः ॥७०॥शुष्कज्ञाने महत्पापं ज्ञातुश्चाचारवर्जिनः ।ज्ञायते यत् प्रोच्यतेऽपि नाचर्यते न धार्यते ॥७१॥तत्पापसदृशं पापं नान्यद् भवति देहिनाम् ।कर्मकाण्डरताश्चेमे विवेकध्वजिनस्तथा ॥७२॥रागद्वेषविहीनत्वं पालयन्ति न सर्वथा ।मारितस्त्ववधूतोऽयं योगी विवेकवाँश्च तैः ॥७३॥साधोर्भक्तिविहीनैश्च मृतिश्चामन्त्रिता निजा ।अथ लोका जना नार्यः पप्रच्छुः परमेश्वरम् ॥७४॥कथमेषा महापत्तिर्विलीयेत प्रशाधि नः ।अहं तदाऽवद्ं तेभ्यो लक्ष्मि! तत्पूजनाय वै ॥७५॥शवं तं मारितं गत्वा पूजयन्तु प्रतिष्ठितम् ।प्राणप्रतिष्ठां कुर्वन्तु तन्मूर्तिं पूजयन्तु च ॥७६॥षोडशाद्युपचारैर्वै नैवेद्यार्पणसेवनैः ।नीराजनादिभिश्चापि स्तवनैः पूजयन्तु तम् ॥७७॥तदा प्रयास्यति ध्वंसं मृत्योरुपद्रवस्त्वयम् ।श्रुत्वा नार्यो नराश्चापि मृषाविवेकवर्जिताः ॥७८॥सर्वे नीत्वा सुसामग्रीश्चन्दनाक्षतमालिकाः ।धूपदीपसुनैवेद्यवस्त्रालंकारपादुकाः ॥७९॥आवाहनादिकं कृत्वा प्रपूज्य सर्ववस्तुभिः ।प्राणप्रतिष्ठां चक्रुस्ते मत्पूर्वाः स्त्रीनरादयः ॥८०॥नीराजनं प्रचक्रुश्च तावच्छंभुः सचेतनः ।भूत्वा नेत्रे समुन्मिल्योत्थितोऽभवत् क्षणान्तरे ॥८१॥नैवेद्यं च ददुस्तस्मै जलपानं ददुस्ततः ।हरस्तदा प्रसन्नश्चाऽभवद् वरार्थमाह तान् ॥८२॥सर्वे तदाऽर्थयामासुर्मृतानां जीवनं पुनः ।हरः प्राह प्रपूज्यैनां देवीं लब्ध्वा शुभाशिषः ॥८३॥जीवितास्ते भविष्यन्ति नान्यथा तु कदाचन ।अथ देवीं पुपूजुस्ते लक्ष्मि! नार्यो नरास्तथा ॥८४॥अर्थयामासुरेवाऽपि मृतानां जीवनं पुनः ।शिवा प्राह यथा चात्र पूजिता शंकरान्विता ॥८५॥तथा लक्ष्मीमिमां श्रीमन्नारायणसमन्विताम् ।पूजयन्तु ततः सर्वे मृता यास्यन्ति जीवनम् ॥८६॥इत्युक्ताश्च नरा नार्यः पुपूजुर्मां त्वयाऽन्वितम् ।ततः सर्वे चोत्थिताश्चाऽपराधमृतिवर्जिताः ॥८७॥ते जीवं प्राप्य मां जीवन्नारायणेति वै जगुः ।ख्यातिं प्राप्तस्तदाऽनादिजीवन्नारायणोऽप्यहम् ॥८८॥त्वया साकं मम मूर्ति भक्तिनारायणात्मिकाम् ।सर्वदा तु ततो भक्त्या मत्प्रदर्शितया जनाः ॥८९॥सेवयामासुरत्यर्थं त्यक्त्वा शुष्कं विवेचनम् ।कर्मकाण्डं च वै सर्वसमर्पणात्मकं व्यधुः ॥९०॥शंकरस्तान् समस्ताँश्चोपादिदेश मदर्पणम् ।सर्वविधं कर्मकाण्डं मम भक्त्यात्मकं ततः ॥९१॥धर्मयुक्तं भक्तियुक्तं ज्ञानं तु वेदनं मम ।ततः प्रवर्तितं तत्र कल्पे मोक्षप्रदं शुभम् ॥९२॥भक्तेरुज्जीवनं जातं भक्तिमार्गः प्रवर्तितः ।मूर्तयो मम शंभोश्च सशक्तिकाश्च भूतले ॥९३॥ततस्तैर्जीवमापन्नैः स्थापिता दर्शिता यथा ।पूजिताश्चापि सर्वत्र भक्तिः पुष्टिं जगाम ह ॥९४॥एवं शंभुः सतीयुक्तः कृत्वा कौतुकमुत्तमम् ।स्थापयित्वा क्षितौ मूर्तिपूजां भक्तिं तथोत्तमाम् ॥९५॥ययावदृश्यतां चाऽहं जीवनारायणः प्रभुः ।त्वया साकं क्षितौ कल्पान्तकं कालमुवास ह ॥९६॥इत्येवं शिवराज्ञीश्रि! प्राकट्यं कीर्तितं मम ।अनादिश्रीकृष्णनारायणस्य परमात्मनः ॥९७॥धर्मस्य भक्तियुक्तस्योपासनायाश्च पुष्टये ।पूजाया मम मूर्तेश्च मूर्तेश्च शंकरस्य च ॥९८॥नासील्लिंगं च तत्कल्पे मूर्तिरासीद्धरस्य वै ।मम मूर्तिस्तदैवासीन्नासीद्विष्णुशिला तदा ॥९९॥एवं पूर्वं तु यज्जातं वेद्म्यहं सर्वमेव तत् ।स्मर त्वं मम पूजादि तदा प्राकट्यमित्यपि ॥१००॥पठनाच्छ्रवणाच्चास्य स्मरणाच्चिन्तनादपि ।मम पूजाफलं लक्ष्मि! भवेदेव न संशयः ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसस्त्रयोविंशे वत्सरे भक्तेः प्रार्थनयाऽनादिश्रीजीवनारायणस्य प्राकट्यं शंकरद्वारा भक्तिमार्गप्रवर्तनं चेत्यादिनिरूपणनामा विंशोऽध्यायः ॥२०॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP