संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ३०

द्वापरयुगसन्तानः - अध्यायः ३०

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि! ततो राज्ञा सेवितोऽहं सदा हरिः ।
साधुसेवाफलं श्वेतद्वीपं ददौ नृपाय वै ॥१॥
कुटुम्बसहितः सौख्यं भुक्त्वा स्वर्गं ययौ ततः ।
तत्र सौख्यानि भुक्त्वैव वैराजदेवतात्मकः ॥२॥
भूत्वा सुखानि भुक्त्वैव सत्यलोकं ययौ पुनः ।
ततो वैकुण्ठमासाद्य सुखं भुक्त्वा दिवं पुनः ॥३॥
मदिच्छयैव सम्प्राप्तो भक्तेः प्रवर्तनाय ह ।
ततः कोट्यधिलोकानामीश्वरः स भविष्यति ॥४॥
नारायणस्वरूपः सोऽसंख्यलोकान् स्वकाश्रितान् ।
नीत्वा भक्तियुतान् धामाऽक्षरं मे सम्प्रयास्यति ॥५॥
अंशुक्रमथ एवाऽयं भक्तो मे यादृशोऽभवत् ।
तादृशा नाऽपरे लोके भविष्यन्ति निवेदिनः ॥६॥
पुत्राः पुत्र्यश्च राज्ञ्यश्च राजा प्रजास्तथाऽनुगाः ।
सर्वे सर्वाणि राष्ट्राणि मदर्थसर्वसम्पदाम् ॥७॥
कृतोपयोगा आसँस्ते वैष्णवाः सर्वतोमुखाः ।
अथाऽन्यत्ते कथयामि प्राकट्यं शृणु माधवि! ॥८॥
वेधसो राक्षसाऽऽख्ये षट्त्रिंशे वर्षे ततः पुनः ।
कल्पे षण्णवतिसंख्ये सप्तमे च मनौ प्रिये ॥९॥
प्राकट्यं मे यथा जातं प्रवदामि निबोध मे ।
अनादिश्रीकृष्णनारायणस्यैवाऽवतारिणः ॥१०॥
कृते युगे पञ्चदशे योगी नाम्ना हरिप्रथः ।
कुंभकारोऽभवत् पृथ्व्यां विष्णुपद्यास्तटे शुभे ॥११॥
आबाल्यात्साधुयोगेन बभूव भक्तराट् मम ।
माता श्रेणीमती तस्मै ददात्यपि सुशिक्षणम् ॥१२॥
अंके स्तन्यप्रपाने च प्रेंखायां कटिवासने ।
खष्ट्विकायां तथा योगे बालानां खलनेऽपि च ॥१३॥
वद पुत्र हरेर्नाम कृष्ण कृष्ण नरायण ।
वद पुत्र श्रिया नाम लक्ष्मि लक्ष्मि नरायणि ॥१४॥
एवं माता निजं पुत्रं शिक्षयत्येव मुक्तये ।
श्रेयसे पापनाशाय जन्मसार्थक्यहेतवे ॥१५॥
अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ।
परब्रह्माऽक्षरातीत श्रीपते परमेश्वर ॥१६॥
एवं स्वयं च तन्माता करोति कीर्तनं मम ।
सदैव सर्वकार्येषु भक्तिमती हि सद्गुणा ॥१७॥
कुंभकारोऽपि विरणो नाम्ना मे भक्तिमान् सदा ।
सर्वकार्ये स्मरत्येव मां सतां सेवकोऽपि सन् ॥१८॥
भजत्येव हरिं नित्यं स्मरत्येव जनार्दनम् ।
करोत्येवाऽर्पणं मह्यं ततो भुंक्ते यथोचितम् ॥१९॥
सायं नित्यं मम मालामावर्तयति मन्मनाः ।
करोत्यपि सदा सेवां सतां भक्तिमतां शुभाम् ॥२०॥
गृहकार्यं पात्रकार्यं ग्रामसेवादिकं तथा ।
यदा करोति तत्रापि गृणाति श्रीनरायण ॥२१॥
करे मालां गले मालां सदा रक्षति कुंभकृत् ।
हरेर्नाम जपन् कालं सार्थकयति सर्वदा ॥२२॥
शृणु लक्ष्मि प्रभक्तस्य भक्तिर्नास्त्येव दुर्लभा ।
सर्वदा सर्वकार्येषु सुलभाऽऽत्मनिवेदिनः ॥२३॥
विरणः प्रातरुत्थाय नारायणेति संवदन् ।
घटं नीत्वा नदीं याति स्नाति रटति मां हरिम् ॥२४॥
जलं भृत्वा गृहं याति पिप्पलस्य तु मूलके ।
स्मृत्वा मां सलिलं तत्र सिञ्चत्यपि ततः स च ॥२५॥
सूर्यं नत्वा मृत्तिकायाः कृतं मां च प्रणम्य च ।
रटन् खादति मह्यं चार्पितं प्रातर्हि रोटकम् ॥२६॥
तथैव कुंभिकृत् पत्नी भुंक्ते भुंक्ते सुतोऽपि च ।
अथाऽऽदातुं मृदो यान्ति कीर्तयन्तो हरिं त्रयः ॥२७॥
खरपृष्ठे मृदो योग्या आहरन्ति यदा तदा ।
हरेः कीतनकर्तारस्त्रयो यान्ति गृहं प्रति ॥२८॥
गर्धप्यै गर्धपायाऽपि तृणादि च जलादि च ।
हरिप्रसादसलिलैः संप्रोक्ष्य तद् ददत्यपि ॥२९॥
जलैर्मृदश्चार्द्रयन्ति कीर्तयन्ति हरिं तदा ।
मर्दयन्ति मृदश्चापि कीर्तयन्ति तदापि माम् ॥३०॥
चक्रं च कीलके धृत्वा भ्रामयन्ति स्मरन्ति माम् ।
पिंडं चक्रे स्थापयन्ति मां स्मरन्ति जनार्दनम् ॥३१॥
घटशरावपात्राणि रचयन्ति स्मरन्ति माम् ।
तन्तुना च पृथक् कृत्वाऽवतारयन्ति चाप्यधः ॥३२॥
स्मरन्तो मां टीप्पयन्ति पात्राणि टीप्पसाधनैः ।
वह्निभ्राष्ट्र्यां क्लृप्तयन्ति पक्वयन्ति स्मरन्ति माम् ॥३३॥
विक्रीणन्ति च पात्राणि पक्वानि च स्मरन्ति माम् ।
लब्धद्रव्यैरन्नशाकादिकं क्रीणन्ति चापणात् ॥३४॥
रन्धयन्ति भोजनानि स्मरन्ति च रटन्ति माम् ।
स्थाल्यां भृत्वाऽर्पयित्वा मे भुञ्जते मन्निवेदितम् ॥३५॥
एवं यात्रां कुटुम्बस्य निर्वर्तयन्ति मत्पराः ।
सायं कथां प्रशृण्वन्ति सतां मुखान्ममालये ॥३६॥
रात्रौ श्रुतं स्मरन्त्येव विचारयन्ति मुक्तये ।
न विना भोजनं मोक्षो भक्तिर्न पुण्यमन्तरा ॥३७॥
पुण्यं सेवां विना नैव सेवा कृपां विना च न ।
कृपा दास्यं विना नैव दास्यं श्रद्धां विना न वै ॥३८॥
श्रद्धा ज्ञानं विना नापि ज्ञानं न श्रवणं विना ।
श्रुतिर्विना न सत्संगं सत्संगो न सतो विना ॥३९॥
सन्तो भावं विना नैव भावो विना न भावनाम् ।
भावनाख्यस्तु संस्कारो न विना प्रागुपार्जितम् ॥४०॥
प्रागुपार्जितमत्रैव भुज्यते फलरूपि तत् ।
अद्योपार्जितमन्यत्र भोक्ष्यते श्रेयसां पदे ॥४१॥
श्रेयः सर्वविधं साध्यं श्रेयः परं नरायणः ।
तस्य चरणे मोक्षोऽस्ति प्राप्तव्यः प्रेमतन्तुना ॥४२॥
प्रेमपात्रं हरेर्मूर्तिश्चेतना साधुसंज्ञिका ।
सन्तः प्रसादयितव्याः सेवाभिः श्रेयइच्छुभिः ॥४३॥
अन्नं जलं च वस्त्रं च त्रेधा निर्वाहसाधनम् ।
गृहं कान्ता च धेनुश्च त्रेधा त्वालम्बनं मतम् ॥४४॥
उद्यमः पुत्र आरोग्यं त्रेता धैर्यस्य साधनम् ।
आयः कोशो बान्धवाश्च त्रेधा बलस्य साधनम् ॥४५॥
मैत्र्यं मानं यशश्चेति त्रेधा स्थितेर्हि साधनम् ।
विद्या वृत्तिर्वशित्वं च त्रेधा वैतृष्ण्यसाधनम् ॥४६॥
तृप्तिर्विराग ऐश्वर्यं त्रेधा शान्तेः प्रसाधनम् ।
धर्मः क्षमा तितिक्षा च त्रेधा सुखस्य साधनम् ॥४७॥
सन्तो हरिश्च शीलं च त्रेधा मुक्तेः प्रसाधनम् ।
दुःखं विवेकोऽवमानं त्रेधा वैराग्यसाधनम् ॥४८॥
कर्म तृष्णा वासना च त्रेधा संसारकारणम् ।
द्रोहो निन्दा च नास्तिक्यं त्रेधा निरयसाधनम् ॥४९॥
प्रमादो मोह ईहा च त्रेधा मृत्युनिमन्त्रणम् ।
नैष्कर्म्यमर्पणं भक्तिस्त्रेधा मोक्षस्य साधनम् ॥५०॥
तस्मान्मोक्षार्थमेवेह यतितव्यं निरन्तरम् ।
अन्यानि सम्परित्यज्य निर्वाणकारणेष्विह ॥५१॥
घटा यथा विभिन्ना वै प्रजायन्ते तथात्विह ।
प्रजा लोकाश्च कर्माणि सुखानि प्रत्यहं हताः ॥५२॥
कालवेगेन नश्यन्ति देहदैहिकसम्पदः ।
का नारी को नरः पुत्रः पुत्री वा कृत्रिमं त्विह ॥५३॥
सम्बन्धा नामसंज्ञाश्च यथा मृदा भवन्त्यपि ।
तथा षाट्कौशिकादीनां नामसंज्ञाश्च कृत्रिमाः ॥५४॥
कृत्रिमं देहमासाद्य ज्ञात्वा मोक्षस्य साधनम् ।
यदि साध्येत् मोक्षो न वृथा जन्म हि मानवम् ॥५५॥
सर्वत्र विषयाः सन्ति क्षुधा तृषा प्रमोदनम् ।
ऐहिकं सर्वमेवेति क्षणिकं जीवबन्धम् ॥५६॥
नवं नवं बन्धनं च नित्यं नित्यं प्रजायते ।
न चाऽन्तोऽस्ति बन्धनानां नवे वर्षे नवा घटाः ॥५७॥
घटकर्ता मृतिं यान्ति चान्यस्तत्र प्रवर्तते ।
घटानां घटकर्तॄणां प्रवाहो न निवर्तते ॥५८॥
प्रवाहपतिता जीवा ममाऽहंपाशपाशिताः ।
घटे नष्टेऽपि खण्डेषु बध्यन्ते मोहपाशिताः ॥५९॥
कालेन नाशः सर्वेषामवश्यं जायते त्विह ।
पश्यन्तश्चेति मोक्षार्थं यतन्ते न मृता हि ते ॥६०॥
पुनः पुनर्मरिष्यन्ति विना शाश्वतसेवनम् ।
तस्मान्नारायणो विष्णुः श्रीमत्कृष्णनरायणः ॥६१॥
परब्रह्मान्तरात्मा श्रीहरिः सेव्यः सदा भुवि ।
भजन्तु परमात्मानं रटन्तु हरिनाम च ॥६२॥
ध्यायन्तु च हरिकृष्णं प्राप्नुवन्तु परेश्वरम् ।
एवं नित्यं निशायां वै विरणाद्या निजं हितम् ॥६३॥
विचारयन्ति सत्यार्थं भजन्ते स्म च मां सदा ।
एवं याते स्वल्पकाले त्रयस्ते कुंभकर्मिणः ॥६४॥
साधुसेवापराः साध्वाश्रयाश्च सर्वथाऽभवन् ।
तद्गृहं मन्दिरं जातं मम साधुनिषेवणात् ॥६५॥
साधवो नित्यमेवाऽत्र कुर्वन्ति मत्कथादिकम् ।
विरणस्य कुंभकृतः पुत्रो हरिप्रथः स्वयम् ॥६६॥
आनन्दब्रह्मगुरुतो दीक्षां जग्राह साधवीम् ।
साधुर्भूत्वा प्रभुं नित्यं भजते मां दिवानिशम् ॥६७॥
वाक्सिद्धिस्तस्य सम्पन्ना यथा वक्ति प्रजायते ।
अथैकदा सतां तत्र सभायां भजने मम ॥६८॥
जायमाने तानमिश्रेऽम्बरात्तत्र मनुः स्वयम् ।
सप्तमो वर्णिशालाख्यो विमानेन हि निर्ययौ ॥६९॥
साधवः कुंभकाराद्याः साध्व्यश्च भजनोत्तरम् ।
विष्णुपद्यास्तटे स्नानाद्यर्थं ययुः सकीर्तनाः ॥७०॥
स्नान्ति केचित्तथान्ये च कीर्तयन्ति परेश्वरम् ।
यावद् घट्टेऽम्बरं दूरं भ्रमित्वा मनुरेव सः ॥७१॥
यदृच्छया विष्णुपद्यास्तटं चावातरद्धि सः ।
राजरूपो भृत्ययुक्तो जलावतारमाययौ ॥७२॥
यत्र ते भजने मग्नाः साध्वाद्याः स्नानहेतवे ।
तिष्ठन्ति मां भजन्तश्च रटन्तो हरिकीर्तनम् ॥७३॥
वर्णिशालो मनुस्तत्र भृत्यानाह सगर्वकः ।
इमान् वै मानवानत्र सर्वान्नारीनरादिकान् ॥७४॥
निष्कासयन्तु रुन्धन्तु दूरमेव नदीतटात् ।
यावदहं जले नद्याः स्नानं कृत्वा न यामि च ॥७५॥
तावद् भृत्याः करैर्धृत्वा निष्कासयन्तु दूरतः ।
इत्युक्त्वा भृत्यवर्गास्ते प्रत्युद्गम्य समन्ततः ॥७६॥
दूरयामासुरेवैतान् वारयामासुरेव च ।
साधवोऽपि विनिवृत्ता आनन्दब्रह्मनोदिताः ॥७७॥
हरिप्रथः साधुभक्तः प्राह दूतान् कथं त्विदम् ।
रोधनं वारणं स्नाने भवद्भिः संविधीयते ॥७८॥
दूताः प्राहुश्च ते किं वा प्रयोजनं विभावने ।
गच्छ दूरं यान्तु सर्वे नाऽत्राऽऽवेशो भविष्यति ॥७९॥
एवं वदन्तो दूताश्च जगृहुर्भुजमेव च ।
दूरं निष्कासयामासुर्हरिप्रथं तथाऽपरान् ॥८०॥
हरिप्रथस्तदोवाच मृतिं यातु नृपो हि वः ।
एवमुक्ते मनुस्तत्र क्षणे ममार जीवतः ॥८१॥
व्यसुः शवोऽभवच्छीघ्रं पपात भुवि पद्मजे ।
प्रसारितकरपादः प्राक्रोशन् चोग्रवेगतः ॥८२॥
हाहाकारस्तदा जातश्चाकृत्यं समजायत ।
दूतास्तूर्णं गताः पार्श्वेऽसेवयन् पवनार्पणैः ॥८३॥
पादसंवाहनैर्वारिपानदानैस्तथापि सः ।
मनुर्ययौ विहायैव प्राणान् धर्मालयं तदा ॥८४॥
हाहाकारोऽभवत् सर्वप्रजापालेषु वै तदा ।
दिक्पालेषु समस्तेषु देवेषु सत्यवासिषु ॥८५॥
महर्षिषु महेन्द्रादौ मनुर्मृतोऽभवद्धि शुक् ।
अथ सर्वेऽजशंभ्वाद्याश्चाययुर्यत्र स मृतः ॥८६॥
जीवनार्थं तदा सर्वे चक्रुश्चाराधनं हरेः ।
अनादिश्रीकृष्णनारायणस्य मम पद्मजे ॥८७॥
अहं तत्र समायातस्त्वया साकं नरायणि ।
शंखचक्रगदापद्मधरः श्रीपुरुषोत्तमः ॥८८॥
प्रार्थितस्तैर्जीवनार्थं मया ते बोधितास्तदा ।
मद्भक्तस्य कृतं नाऽहं परावर्तयितुं क्षमः ॥८९॥
प्रसादनीयो भक्तो मे स वै श्रेयो विधास्यति ।
ततो भक्तं सुरा नेमुश्चार्थयामासुरेव च ॥९०॥
जीवनं च क्षमां चाप्यर्थयामासुः पुनः पुनः ।
पूजयामासुरेवाऽपि साधून् हरिप्रथस्तदा ॥९१॥
ज्ञात्वा मां परमात्मानं नत्वाऽभ्यर्च्य शवोपरि ।
जलं चिक्षेप तावद्वै मनुः प्राणयुतोऽभवत् ॥९२॥
उत्तस्थौ च हरिं मां स तुष्टाव सम्पुपूज च ।
साधून्नत्वा क्षमां लब्ध्वा ययौ नैजं पदं पुनः ॥९३॥
साधुभिश्चार्थितश्चाऽहं हरिप्रथस्य मन्दिरे ।
न्यवसं सर्वदा लक्ष्मि! साकं त्वया सतां गृहे ॥९४॥
अनादिश्रीभक्तनारायणनाम्ना स्वयं प्रभुः ।
त्वं तदा श्रीकुंभिकाश्रीरितिख्यातिं गताऽभवः ॥९५॥
वेद्म्यहं सर्वमेवैतन्मनोनाशं च जीवनम् ।
स्मर सर्वं विष्णुपदीतटादिकं सतीजनान् ॥९६॥
चतुर्युगं पूर्णमेव न्यवसं साधुभिः सह ।
अन्येऽपि च ततो जाताः सम्प्रदायास्तदा मम ॥९७॥
अन्येऽवताराः संभूता लोकरक्षणहेतवे ।
पठनाच्छ्रवणाच्चास्य भुक्तिर्मुक्तिर्भवेदपि ॥९८॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः षट्त्रिंशद्वत्सरे हरिप्रथभक्तस्य शापेन मृतस्य वर्णिशालमनोरुज्जीवनार्थम् अनादिश्रीभक्तनारायणस्य
कुंभिकाश्रीसहितस्य प्राकट्यमित्यादिनिरूपणनामा त्रिंशोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : May 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP