संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १३७

द्वापरयुगसन्तानः - अध्यायः १३७

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं घटलक्ष्मीव्रतं तव ।
घटलक्ष्मीव्रतिनस्तु क्रमात् सप्तदिवं भवेत् ॥१॥
भूलोकोऽयं दिवं प्रोक्तः सम्पत्सुखप्रमोदनैः ।
भुवर्लोकोऽपि च दिवं सिद्धिमतां हि योगिनाम् ॥२॥
स्वर्गादयो दिवं सन्ति सत्यान्ताः सर्व एव ते ।
देवलोका हि सप्तैते यतो दिव्यगतिप्रदाः ॥३॥
पर्यायेण तु सर्वेषामाधिपत्यं तव व्रतात् ।
घटलक्ष्मीव्रतादेव जायते नात्र संशयः ॥४॥
इह लोके शुभं रूपमायुः सौभाग्यमुत्तमम् ।
लक्ष्मीश्च विपुला सम्पज्जायते ते व्रतादिह ॥५॥
शृणु चात्र कथां दिव्यामगस्त्यस्य महात्मनः ।
पुरा वह्निः समाज्ञप्तो महेन्द्रेण सुरद्विषाम् ॥६॥
विनाशार्थं ततो वह्निर्ददाह कोटिदानवान् ।
निर्दग्धेभ्योऽवशिष्टा ये दानवास्तु सहस्रशः ॥७॥
पलायमानास्त्रस्ताश्च समुद्रं विविशुः खलाः ।
तारकः कमलाक्षश्च कालदंष्ट्रः परावसुः ॥८॥
विरोचनश्च ते चाऽब्धौ सन्निवेशमकुर्वत ।
अशक्तास्ते चेति मत्वा वह्निना समुपेक्षिताः ॥९॥
अथ कालान्तरे दैत्या बलमवाप्य वै पुनः ।
सम्पीडयन्ति ते देवान् मनुष्यान् सह जंगमान् ॥१०॥
विप्रान् साधून् प्रसम्पीड्य प्रविशन्ति पुनर्जलम् ।
एवं वर्षसहस्राणि वीराः पञ्च च सप्त च ॥११॥
जलदुर्गबलाल्लक्ष्मि पीडयन्ति जगत्त्रयम् ।
ततः पुनर्महेन्द्रोऽपि वह्नये समुपादिशत् ॥१२॥
अचिराद् दैत्यनाशार्थमब्धिरेष विशुष्यतु ।
यस्मादस्मद्द्विषामेषः शरणं वरुणालयः १३॥
तस्माद् भवान् द्रुतमस्य क्षयं विधातु शोषणात् ।
अग्निः प्राह ततः शुक्रं समुद्रशोषणं प्रति ॥१४॥
अधर्म एव देवेन्द्र सागरस्य प्रशोषणम् ।
अस्य योजनमात्रेऽपि जीवकोटिशतानि वै ॥१५॥
निवसन्ति हि जीवानां महान् प्रसंक्षयो भवेत् ।
पापं चाऽसीमकं स्यान्मे तत्कथं प्रकरोम्यहम् ॥१६॥
एवं श्रुत्वा महेन्द्रस्तु प्राह रोषाद् वचस्तदा ।
न धर्माऽधर्मसंश्लेषं प्राप्नुवन्त्यमरा दिवि ॥१७॥
भवान् दाहकरो देवः पापलेपविवर्जितः ।
तथापि नाऽऽज्ञां वहसे शषामि मानुषो भव ॥१८॥
अथाह पवनं चेन्द्रस्त्वं प्रशोषय सागरम् ।
पवनोऽपि तथा प्राह पापकृत्यं करोमि न ॥१९॥
तदेन्द्रस्तं शशापापि भव त्वं मानुषोऽनिल ।
एवं शापं गतौ तौ च वशिष्ठाऽगस्त्यनामकौ ॥२०॥
वह्निर्जातोऽगस्त्यमुनिर्वायुर्वसिष्ठ एव च ।
कुंभाद् द्वौ सहजातौ वै मित्रावरुणवीर्यतः ॥२१॥
उर्वशी श्रीनरनारायणपुत्र्यप्सरोवरा ।
मित्रेणाऽऽमन्त्रिता कामाद् गच्छन्ती चाम्बरे यदा ॥२२॥
पश्चाद् दृष्टा वरुणेन धृता कामार्थमित्यपि ।
किन्तु सा सत्यमार्गस्था वरुणं नाभ्यनन्दत ॥२३॥
मित्रेणाऽहं वृता पूर्वं तस्य भार्या भवामि ह ।
ते भार्या धर्मतो नास्मि ह्यधुना वरुण प्रभो ॥२४॥
आह तां वरुणश्चित्तं मयि न्यस्य प्रगम्यताम् ।
सापि मित्रं गता मित्रः शुश्राव च तयोदितम् ॥२५॥
चित्तन्यासं समाकर्ण्य क्रुद्धस्तत्याज तां तदा ।
वेश्याधर्मं श्रितवती द्वाभ्यां त्यक्ता हि सा ययौ ॥२६॥
संकल्पजं धातुमुग्रं मित्रश्च वरुणोऽपि च ।
उर्वशीदर्शनोत्थं वै घटमध्ये ससर्जतुः ॥२७॥
एतस्मिन्नेव काले तु निमिना श्रीवसिष्ठकः ।
शप्तो विदेहभावत्वे विदेहः सन् घटे स्थितः ॥२८॥
अगस्त्योऽपीन्द्रशापेन घटे तत्र स्थितोऽभवत् ।
अग्निरगस्त्यो घटत उत्पन्नस्तत्र बालकः ॥२९॥
वायुर्वशिष्ठो घटत उत्पन्नस्तत्र बालकः ।
वरुणांऽशोऽगस्त्यकश्च मित्रांशस्तु वसिष्ठकः ॥३०॥
उत्पन्नौ जातमात्रौ तौ जातिस्मरौ प्रवेदिनौ ।
चक्रतुः शापमुक्त्यर्थं घटलक्ष्मीव्रतं ह्युभौ ॥३१॥
मण्डपं कदलीस्तभैः कारयामासतुश्च तौ ।
हारतोरणमालाभिर्वस्त्रपुष्पफलादिभिः ॥३२॥
मृत्तिकाकलशाद्यैश्च कुण्डवेदीभिरन्वितम् ।
होमसामग्रिकायुक्तं काष्ठासनादिराजितम् ॥३३॥
पूजोपहारयुक्तं च स्वर्णकलशराजितम् ।
मृत्तिकाया घटं वारियुतं स्वयोनिमुत्तमम् ॥३४॥
मण्डपे चानयामासतुश्च द्वौ तौ पुपूजतुः ।
मातरं श्रीमहालक्ष्मीमाह्वयामासतुश्च तौ ॥३५॥
स्थापयामासतुस्तत्र घटे सौवर्णकारिताम् ।
पञ्चामृतैर्जलैश्चापि स्नापयामासतुस्ततः ॥३६॥
भूषयामासतुः शृंगारयामासतुरीश्वरीम् ।
वेषयामासतू रक्ताम्बराद्यैर्मातरं हि ताम् ॥३७॥
पूजयामासतुः पुष्पाक्षतकुंकुमकज्जलैः ।
सर्ववस्तुभिरभ्यर्च्याऽऽरार्त्रिकं चक्रतुस्तथा ॥३८॥
मिष्टान्नं पायसान्नं च भोजयामासतुर्मुदा ।
जलं ताम्बूलकं चाप्यर्पयामासतुरादरात् ॥३९॥
सुवर्णकलशं पार्श्वे माल्यवस्त्रविभूषितम् ।
पञ्चरत्नसमायुक्तं घृतपात्रसमन्वितम् ॥४०॥
तिलपत्रफलयुक्तं स्थापयामासतुश्च तौ ।
अङ्गुष्ठमात्रं पुरुषं परमं ब्रह्म शाश्वतम् ॥४१॥
अनादिश्रीहरिं मां स्थापयामासतुरत्र च ।
धान्यानि वस्त्रभूषाश्च पात्ररत्नानि सर्वथा ॥४२॥
विन्यस्य पूजयामासतुश्च गां वत्सिकायुताम् ।
सर्वाभरणभूषाढ्यां शृंगखुरैः सुवर्णजाम् ॥४३॥
सकांस्यदोहपात्राढ्यां घण्टाऽऽभरणभूषिताम् ।
पूजयामासतुश्चापि पुष्पाञ्जलिं न्यवापतुः ॥४४॥
ततः प्रसन्ना माता श्रीघटलक्ष्मीर्महासती ।
प्रत्यक्षाऽभूत्तयोरग्रे वरार्थं तौ न्ययोजयत् ॥४५॥
वव्राते तौ वरं श्रेष्ठं मातस्तव प्रसादतः ।
जन्मनोऽस्माद् भवेन्मुक्तिर्मानुषात्तत् तथा कुरु ॥४६॥
लक्ष्मीः प्राह तदागस्त्यं दैत्या वसन्ति वारिधौ ।
अब्धिपानोत्तरं मुक्तिर्मानुषात्ते भविष्यति ॥४७॥
वसिष्ठोऽयं दिव्यदेहस्त्वया साकं भविष्यति ।
लक्ष्मीः प्राह पुनश्चापि वरार्थं च तदा मुनिः ॥४८॥
वसिष्ठः सम्प्रययाचे घटलक्ष्मीव्रतं शुभम् ।
अगस्त्योदयदिवसे प्रातः शुक्लतिलादिभिः ॥४९॥
तीर्थजलैः स्नानमाप्तः शुक्लाम्बरधरो गृही ।
मृद्घटे वा स्वर्णघटे लक्ष्मीं त्वां पूजयेत्तु यः ॥५०॥
श्रीहरिं च वसिष्ठं चाऽगस्तिं च पूजयेत्तु यः ।
आसप्तरात्रं वापि च सप्तदशसमाश्च वा ॥५१॥
पूजयेदर्घमप्यत्र दद्यात्तस्य क्रमात् खलु ।
भूर्लोके च भुवर्लोके स्वर्गे महरि वै जने ॥५२॥
तपोलोके सत्यलोके वासो भवेच्चिरं खलु ।
कल्पं कल्पं प्रभुक्त्वा स भोगान् यायात्ततोऽक्षरम् ॥५३॥
सप्ताऽर्घ्यकर्ता प्राप्नुयात् सप्तलोकान् समृद्धिकान् ।
'नमो लक्ष्म्यै महालक्ष्म्यै विष्णुपत्न्यै नमो नमः ॥५४॥
अर्घ्यं गृहाण सर्वेशि देहि सौख्यानि सर्वशः' ।
'नमो नारायणाय श्रीपतये हरये नमः ॥५५॥
अर्घ्यं गृहाण भगवन् देहि सौख्यानि सर्वशः' ।
'काशपुष्पप्रतीकाशावग्निमारुतसंभवौ ॥५६॥
मित्रावरुणयोः पुत्रौ कुंभयोनी नमोऽस्तु वाम्' ।
एवमर्घ्यं च पूजां च पुष्पाञ्जलिं समर्पयेत् ॥५७॥
तस्य लोकाः शाश्वतास्ते लक्ष्मि भवन्तु सर्वदा ।
यावदायुश्च यः कुर्यात्तस्य वासोऽक्षरे भवेत् ॥५८॥
इत्यर्थिता वशिष्ठेन कुंभलक्ष्मीः प्रसूस्तदा ।
तथास्त्विति प्राह ताभ्यां शीघ्रं लीनाऽभवत् प्रसूः ॥५९॥
मुनी कृत्वा परिहारं तेपतुर्दुश्चरं तपः ।
ततः कालेन दैत्यानां वीक्ष्योपद्रवमुल्बणम् ॥६०॥
अगस्त्यः पीतवानब्धिं दैत्या नाशं ययुस्तदा ।
इन्द्रादिदेववृन्देन हता नष्टाः सुरद्विषः ॥६१॥
ततो देवाः प्रसन्ना वै ब्रह्माद्याश्चाययुर्मुनी ।
यत्र तपस्तेपाते तौ वरार्थं प्रेरितौ च तैः ॥६२॥
अगस्त्यश्च वरं वव्रे यदभीष्टं तदाऽभवत् ।
यावद् ब्रह्मसहस्राणां पञ्चविंशतिकोटयः ॥६३॥
वैमानिकौ भविष्यावो द्वावावां स्वर्गगामिनौ ।
वसिष्ठः सप्तमध्ये स्यादगस्त्यो दक्षिणापथे ॥६४॥
अस्मत्तारोदये कुर्याद् यः कश्चित् पूजनं तु नौ ।
स सप्तलोकसम्राड् वै पर्यायेण भवेदिति ॥६५॥
देवाः प्राहुस्तथाऽस्त्वेव ययुस्ते च यथागतम् ।
वसिष्ठागस्त्यकौ चापि मलयाद्रौ गतौ तदा ॥६६॥
ततः कालान्तरेऽगस्त्यं पर्शुरामः प्रतापवान् ।
समुद्रस्य प्रपानार्थं सर्षिगणो न्यवेदयत्। ॥६७॥
गोकर्णतीर्थभूम्यर्थं तदाऽगस्त्यः पुनः पपौ ।
एवं कृत्वा महत्कार्यं स्वर्गं ययतुस्तौ मुनी ॥६८॥
इत्येतत् कथितं लक्ष्मि घटलक्ष्मीव्रतं तव ।
सप्तदिनं फलाहारात्मकं पूजात्मकं तव ॥६९॥
अगस्त्यस्योदये कार्यं भुक्तिमुक्तिफलप्रदम् ।
एवं लक्ष्मि तव पूजां भाद्रपदेऽष्टमीदिने ॥७०॥
मार्गशीर्षे च वैशाखे ऊर्जे वा शुक्लपक्षके ।
मण्डपोद्यानसंयुक्तामुद्यापनसमन्विताम् ॥७१॥
करिष्यन्ति नरा नार्यो यास्यन्ति ते परां गतिम् ।
पञ्चगव्येन क्षीरेण पुष्पगन्धोदकेन च ॥७२॥
मधुना स्नापयेत्त्वां सम्पूजयेत् फलपुष्पकैः ।
शृंगारयेद् वेषयेच्च विभूषयेन्नीराजयेत् ॥७३॥
भोजयेच्च ततः पुष्पाञ्जलिं दद्यात् सुमूर्तये ।
क्षमां याचेत च नमेत् प्रार्थयेद् गुरवेऽर्पयेत् ॥७४॥
 'महालक्ष्म्यै नमः पादौ तव गुल्फौ नमः श्रियै ।
शोकहन्त्र्यै नमो जङ्घे रमायै जानुनी नमः ॥७५॥
ऊरू मंगलकारिण्यै वक्षःस्थल्यै नमः कटिम् ।
पद्मायै नम उदरमुरः कामश्रियै नमः ॥७६॥
करौ सौभाग्यलक्ष्म्यै ते बाहूदरमुखं श्रियै ।
कमलायै नमो नासां पद्मिन्यै लोचने नमः ॥७७॥
पुष्ट्यै ललाटमलकान् हिरण्यायै शिरो नमः ।
हरिण्यै सुखदालक्ष्म्यै ललितायै नमो नमः ॥७८॥
नारायण्यै वासुदेव्यै सम्पदायै नमोऽस्तु ते ।
सर्वमंगलमांगल्यं देहि मे मातरीश्वरि ॥७९॥
सर्वमंगलमांगल्यव्रतेन तव पद्मजे ।
ममेष्टं सर्वमेवाऽस्तु कृपया तव चाब्धिजे ॥८०॥
गीतमंगलनिर्घोषान् कारयेद् यजमानकः ।
सुवासिन्यः कन्यकाश्च कुर्युर्गीतानि तत्र च ॥८१॥
पूजयेयू रक्तवस्त्रै रक्तमाल्यानुलेपनैः ।
कुसुमैरक्षतैर्वार्भिर्नमस्कारैः प्रभोजनैः ॥८२॥
सिन्दूरकुंकुमतैलसारकस्तूरिकाऽञ्जनैः ।
एवं सम्पूज्य तां मूर्तिं दद्याच्छ्रीगुरवे शुभाम् ॥८३॥
गुरुं सम्पूजयेच्चापि कमलैश्चन्दनादिभिः ।
परिहारं ततः कुर्याद् भोजयेद् बालबालिकाः ॥८४॥
सर्वमंगलमांगल्यलक्ष्मीव्रतमिदं परम् ।
यः कुर्यात्तस्य मांगल्यं बहुधा वै वसेद् गृहे ॥८५॥
सर्वपापविनाशश्च सौभाग्यारोग्यवर्धनम् ।
सर्वामोदप्रमोदेष्टानन्दसौख्यप्रदं व्रतम् ॥८६॥
अथाऽप्यन्यद् व्रतं लक्ष्मि वदामि सांख्ययौगिकम् ।
सांख्ययोगकृतदीक्षायुतां त्वां तत्र पूजयेत् ॥८७॥
पूर्णिमायां तथा चैकादश्यां शुक्ले तु पक्षके ।
सर्वमासेषु सौवर्णां कृत्वा लक्ष्मीं शुभाननाम् ॥८८॥
रक्ताम्बरां रक्तलेपां रक्तचन्दनचर्चिताम् ।
पाटलां त्वां रत्तवर्णासने सम्यक् प्रपूजयेत् ॥८९॥
रक्तकुंकुमसलिलैः स्नापयेत् त्वां विभूषयेत् ।
रक्तपुष्पाम्बरै रक्तहारै रक्त्ग्फलादिभिः ॥९०॥
रक्तपुष्पैः पूजयेच्च रक्तां नारायणे मयि ।
भोजयेत्पूजयेच्चापि नीराजयेन्नमेत्तथा ॥९१॥
प्रार्थयेद् पूजिका त्वां च सांख्ययोगव्रतस्थिता ।
रक्तवस्त्रे महालक्ष्मि रक्ते नारायणे स्थिते ॥९२॥
स्वास्थ्यं त्यागं महाशान्तिं हरेर्योगं प्रदेहि मे ।
अन्येभ्यश्च विरक्ताऽहं रक्ताऽहं श्रीपतौ प्रभौ ॥९३॥
सांख्ययोगमहालक्ष्मीव्रतं तेऽत्र करोम्यहम् ।
अनेन मम सौभाग्यं तवेव भवताद्धरौ ॥९४॥
सर्वविघ्नविनाशोऽस्तु सर्वानन्दा भवन्तु मे ।
सर्वे रसाः सर्वश्रेयःकल्याणानि भवन्तु मे ॥९५॥
इत्यभ्यर्थ्य दिशेल्लक्ष्मीं गुरवे कानकीं तथा ।
रत्नभूषाम्बरधान्यपात्रादीनि समर्पयेत् ॥९६॥
एवं व्रतं प्रकर्त्र्यास्तु हरेर्दास्यं प्रपद्यते ।
भुक्तिर्मुक्तिर्भवेद्धस्तगता नारायणाश्रयात् ॥९७॥
सोपवासं प्रकर्तव्यं सांख्ययौगव्रतं त्विदम् ।
सर्वपापहरं दिव्यदेहप्रदं हरिप्रियम् ॥९८॥
हरिप्रिया भवेत् साध्वी व्रतकर्त्री विदेहिनी ।
चमत्कारमयी दिव्याऽक्षरधामगता भवेत् ॥९९॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने घटलक्ष्मीव्रतस्याऽगस्त्यकृतस्य सर्वमंगलमांगल्यलक्ष्मीव्रतस्य, सांख्ययोगलक्ष्मीव्रतस्य च निरूपणनामा सप्तत्रिंशदधिकशततमोऽध्यायः ॥१३७॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP