संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २०३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २०३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २०३ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं वायकस्य कथां शुभाम् ।धुरिलाख्ये पुरे नाम्ना तूलवायीति वायकः ॥१॥न्यवसत् सकुटुम्बोऽयं राजप्रजादृतः सदा ।सूक्ष्मतन्त्वादिवयने कुशलः सूत्रनिर्मितौ ॥२॥सूक्ष्मातिसूक्ष्मसूत्राणि निर्माति कलया नखैः ।सूत्रयन्त्रेण च लूतातन्तुसमा हि तन्तवः ॥३॥ज्जायन्ते कलया तस्य सूक्ष्मातिसूक्ष्मपेशलाः ।अम्बरे तस्य तन्तूनां निर्मितं धार्यतेऽम्बरम् ॥४॥दृश्यते नैव किरणेष्वेवं तनु प्रजायते ।स्वर्णोर्मिकायां शाटीं च प्रसारयितुं शक्यते ॥५॥धोत्रं तथोत्तरीयं चोष्णीशं तादृक् प्रजायते ।राज्ञीवेषार्हवस्त्राणि तत्तन्तुभ्यो भवन्ति वै ॥६॥वायकोऽयं तुरीं वेमानं च संयोजिकां तथा ।शलाकां चेति सूक्ष्माणि वयने संयुनक्ति हि ॥७॥सूक्ष्मतमाः सूक्ष्मतरा सूक्ष्माश्च सूक्ष्मसदृशाः ।स्थूलसूक्ष्मा मध्यस्थूलाः स्थूलाः स्थूलतरास्तथा ॥८॥स्थूलतमा जाड्यगात्रास्तन्तवः संभवन्ति वै ।फालिका विविधा रम्याः कुकट्यः संभवन्ति च ॥९॥पेटिकाश्चापि तन्तूनां शालायां तूलवायिनः ।उत्पद्यन्ते करजैश्च यन्त्रतर्कटिकादिभिः ॥१०॥रन्टकैर्भ्रमचक्रैश्च जायन्ते तन्तवः शुभाः ।नार्यो नरा हि बहवो बह्व्यश्च कर्मचारिकाः ॥११॥उत्पादयन्ति सूत्राणि कार्पासान्यपराणि च ।समनाडिकसूत्राणि यथार्थवलयानि च ॥१२॥अन्यूनानतिरिक्तानि ग्रन्थित्रूटीवियुञ्जि च ।स्थूलसूक्ष्मादिदोषैश्च वर्जितानि शुभानि च ॥१३॥एतेषामेव तन्तूनां प्रायो वस्त्राणि वै प्रजाः ।राजानः श्रेष्ठिनश्चापि धारयन्तीति विश्रुतम् ॥१४॥तूलवायिमहामुद्रा मुद्र्यते मानवर्धिनी ।सूत्रेषु तज्जवस्त्रेषु श्रैष्ठ्यं प्रद्योतते सदा ॥१५॥एवंविधस्तूलवायी विशालकार्यकारकः ।तथापि सर्वकार्येषु मम भक्तिं चकार सः ॥१६॥यन्त्रेषु श्रीकृष्णनाम साधनेष्वायसेष्वपि ।श्रीकृष्णनाम सर्वत्र फालिकाकुकटीष्वपि ॥१७॥वासे भित्तौ च शालायां मुद्रितं कृष्णनाम ह ।कर्मचाराः समस्ताश्च कर्मचारिण्य इत्यपि ॥१८॥अनादिश्रीकृष्णनारायणनाम गृणन्ति हि ।तूलवायी स्वयं नित्यं भजते मां नरायणम् ॥१९॥स्नात्वा प्रपूज्य मां पश्चादुद्यमे चानुरोहति ।प्रसादं मम नैवेद्यं चान्नं जलं फलादिकम् ॥२०॥भुंक्ते कुटुम्बसहितश्चात्मनिवेदिवत् सदा ।वस्त्रपात्रासनाद्यानि निवेद्य मे युनक्ति च ॥२१॥एवंविधो भक्तराण्मे भजते मां समाहितः ।अथाऽयं वायको यन्त्रेऽनवधानतया द्रुतम् ॥२२॥चक्रवेगे गतहस्तः पतितश्चूर्णितः करे ।स्कन्धात् करः पृथग्जातो मूर्छितो मम भक्तराट् ॥२३॥सस्मार मां द्रुतं सोऽपि हृदि रक्षामयाचत ।कर्मचाराः समस्ताश्च ज्ञात्वा मे नामकीर्तनम् ॥२४॥चक्रुः पार्श्वे समागत्य तत्राऽहं चौषधप्रदः ।कुशलो वैद्यराट् भूत्वा चिकित्सकः समागतः ॥२५॥सन्धिनीं रक्तरोधां च पोषिणीं स्थितिस्थापिकाम् ।ओषधिं सह नीत्वैव तूर्णं चोपस्थितोऽभवम् ॥२६॥करेण तु जलं दत्वाऽऽनने मूर्छां न्यवारयम् ।सन्धिन्या स्कन्धमूलं च कबन्धे सन्न्ययोजयम् ॥२७॥रक्तरोधनिकया च रक्तस्थैर्यं व्यधापयम् ।पोषिण्या बाहुकरयोश्चांगुलीनां यथायथम् ॥२८॥पुष्टिं विधाय च स्थितिस्थापिन्या सुकरं करम् ।अकरवं तथा धैर्यं दत्वाऽऽसने स्थितोऽभवम् ॥२९॥अथ ते दिव्यरूपं मां विलोक्य मुग्धमानसाः ।विश्वासं परमं प्राप्ता मां श्रीकृष्णं हि मेनिरे ॥३०॥तुष्टुवुस्ते ववन्दुश्च पुपूजुश्च ययाचिरे ।क्षमामुद्धरणं चापि मायापाशविमोचनम् ॥३१॥सतां समागमं कृष्णे भक्तिं ज्ञानं ययाचिरे ।तथाऽस्त्वित्यवदं तेभ्यो ज्ञानं च मामकं परम् ॥३२॥अददां लक्ष्मि सर्वेभ्यो दिव्यं च मम दर्शनम् ।तथाऽस्त्वित्यददां तेभ्यो भुक्तिं मुक्तिं च सम्पदः ॥३३॥तिरोभावं ततः स्थानादथ कालान्तरे पुनः ।देहान्ते क्रमशस्ताँश्च नीतवानक्षरं मम ॥३४॥तूलवायी यदा वृद्धोऽभवन्नद्धश्च मुक्तये ।पुनश्चाऽहं दर्शनं स्वं दत्तवान् तूलवायिने ॥३५॥तूलवायी समपृच्छन्मां हिते जगतां कृते ।कीदृशोऽस्ति भवान् धाम्नि कीदृश्यो मुक्तकोटयः ॥३६॥कीदृशं ते गृहं धाम कीदृशा ईश्वरा अपि ।कीदृश्यश्चावतारिण्य ईश्वर्यः सत्य इत्यपि ॥३७॥कीदृशाः साधवस्ते च कीदृश्यो मुक्तयस्तव ।कीदृश्यः सिद्धयस्तेऽपि कीदृशोऽहं तवाश्रितः ॥३८॥कथंकारो निवत्स्ये ते धाम्नि मे वद माधव ।अहं लक्ष्मि तूलवायिजिज्ञासां समशान्तयम् ॥३९॥शृणु भक्तो भवाम्यत्र दिव्यस्ते नेत्रगोचरः ।सोऽहं धाम्नि भवाम्येव सर्वथा दिव्यमूर्तिमान् ॥४०॥अपारगुणसौन्दर्यलावण्यौज्ज्वल्यसागरः ।साकारः सर्वमुक्तानां निभालनीयो माधवः ॥४१॥द्विभुजः सर्वदा चास्मि रूपान्तराणि चेच्छया ।धारयामि सहस्रादिभुजानि बहुरूपवान् ॥४२॥सर्वरसः सर्वगन्धः सर्वरूपो भवाम्यहम् ।सर्वस्पर्शः सर्वशब्दः सर्वानन्दो भवाम्यहम् ॥४३॥किशोरोऽस्मि ब्रह्मप्रियाऽसंख्यमुक्तानिकापतिः ।हरिप्रियाऽसंख्यमुक्तपतिः पुष्टशरीरवान् ॥४४॥सेवायोग्यः सर्वकामप्रपूरोऽस्मि ममाऽक्षरे ।अक्षरे धाम्नि तत्रैव वसन्ति मुक्तकोटयः ॥४५॥सर्वे मत्परमा दिव्या मत्समानसुमूर्तयः ।दिव्यसर्वगुणाढ्यास्ते साकाराः सुखवार्धयः ॥४६॥एतादृशा मम मुक्ताः किशोराश्चातिसुन्दराः ।तेजस्विनोऽतिरम्याश्च मनोहरा वसन्ति हि ॥४७॥ममाऽक्षरं परं व्योम परंधाम परं गृहम् ।सहस्रकोटिस्तम्भालीसंशोभत्स्वर्णनिर्मितम् ॥४८॥सहस्रकोटिकलशं सर्वर्द्धिसिद्धिसंभृतम् ।सहस्रकोटिकक्षाढ्यं वर्तते बहुविस्तरम् ॥४९॥सर्वकामाः सर्वकल्पा सुमूर्तास्तत्र सन्ति वै ।सर्वभोगमयीशय्याः सर्वसिंहासनानि वै ॥५०॥गजासनं महार्घ्यं च विद्यते मम मन्दिरे ।एतादृशं परं धाम यत्र वसामि शक्तिभिः ॥५१॥सहितश्चापि मुक्तैश्च सहितो दिव्यविग्रहः ।मत्तः प्राविर्भवन्त्येवाऽवताराः कृष्णकोटयः ॥५२॥नारायणा असंख्याता रामा नराश्च कोटयः ।मुनयोऽसंख्यधामानो भवन्त्यवतरन्ति च ॥५३॥वासुदेवादयश्चापि हिरण्यगर्भकोटयः ।वैराजा ईश्वरा भूमानश्च ब्रह्माण इत्यपि ॥५४॥रुद्राश्च विष्णुवर्याश्च भवन्तीश्वरकोटयः ।मत्तः प्राप्य महैश्वर्याण्येवाऽवतारकोटयः ॥५५॥भवन्ति चेश्वराः शुद्धसत्त्वप्रकर्षभोगिनः ।तेषां च शक्तयः सर्वा मया वै प्रकटीकृताः ॥५६॥ईश्वराण्यो भवन्त्येव संसारसारशक्तयः ।आनन्दखनयस्ताश्च ततः सत्यो भवन्ति च ॥५७॥साध्व्यस्ता ब्रह्मरूपिण्यो ब्रह्मचर्यपरायणाः ।शीलव्रतार्थिदेहिन्यः सांख्ययोगिन्य इत्यपि ॥५८॥अवतारिण्य एवाऽपि लक्ष्म्यस्ताः कमलाः श्रियः ।रमास्ता राधिकास्ताश्च सम्पदस्ता भवन्ति च ॥५९॥एवंविधानि मे धाम्नि चैश्वरे मण्डलानि वै ।भवन्ति तादृशाल्लोकादिहाऽऽयान्ति तु पार्षदाः ॥६०॥त्यागमात्रपरा भक्तास्ते दिव्या मूर्तयो मम ।साधवस्ते भवन्त्येव सर्वकल्याणकारकाः ॥६१॥मुक्तयः साधुसेवायां वर्तन्ते दिव्यविग्रहाः ।सालोक्याः सार्ष्टयश्चापि सारूप्याश्च सयोगिकाः ॥६२॥एतादृशा भवन्त्येव मुक्तयो दिव्यसौख्यदाः ।सिद्धयः सर्वदर्शिन्यः सर्वश्रावणिकास्तथा ॥६३॥सर्वप्राप्तिस्वरूपाश्च सत्यकामावसायिताः ।सर्वकामदुघाश्चापि पूर्णानन्दभृताः सदा ॥६४॥सुमूर्ताः सर्वपूर्णाश्च भवन्ति सेविका मम ।मुक्तो भूत्वा भवाँस्तत्र तूलवायिन्! निवत्स्यति ॥६५॥मम मूर्तिसमाकारो दिव्यैश्वर्ययुतोऽन्वहम् ।पूर्णानन्दभृतो दिव्यः किशोरः संनिवत्स्यति ॥६६॥तत्र वसतो भवतो निर्विकल्पा स्थितिः परा ।भविष्यति यथा नान्यद् दृष्टिगतं च ते भवेत् ॥६७॥ब्रह्मीभूतस्य ते तत्र मदन्यन्नैव गोचरम् ।सर्वं खलु त्विदं ब्रह्म परं नान्यद् विलोकनम् ॥६८॥मम तादात्म्यमाप्तस्य मुक्तास्तेऽपि न गोचराः ।अक्षरं गोचरं तेन त्वं न तवापि गोचरः ॥६९॥एतादृशीं परां ब्राह्मीं स्थितिं तत्र गमिष्यसि ।साकारे मम रूपे त्वं सदा मग्नो भविष्यसि ॥७०॥तव दृष्ट्यां न वै मुक्ता नाऽक्षरं कुत ईश्वराः ।कुतो माया कुतो जीवाः सर्वं ब्रह्मात्मकं तव ॥७१॥एवंस्थितिस्तव तूलवायिंस्तत्र भविष्यति ।कृपया मे तव मुक्तिस्तादृशी संभविष्यति ॥७२॥निर्विकल्पा विदेहा मत्तादात्म्या स स्थितिर्मता ।अत्रत्या ये मम मुक्ताः सन्ति जीवनमुक्तयः ॥७३॥ते तु मायां प्रपश्यन्ति जीवाँस्तत्त्वानि सर्वथा ।ईश्वरान् सर्वधामानि सविकल्पसमाधयः ॥७४॥वीक्षमाणा अपि मायाकालकर्मसु नैव ते ।बध्यन्ते नापि हन्यन्ते सज्जन्ते नैव तेषु च ॥७५॥निर्लेपास्ते प्रवर्तन्ते देहेन्द्रियादिभिस्त्विह ।त एते मम भक्ता वै भवन्त्यात्मनिवेदिनः ॥७६॥धर्मज्ञानविरागाढ्यां भक्तिं कुर्वन्ति मे सदा ।सविकल्पा भक्तिमन्तो मुक्ता मे साधवस्त्विह ॥७७॥तथा च गृहिणश्चापि यतयो न्यासवेदिनः ।सन्न्यासिन्यो विरागिण्यो भवन्ति साध्विका अपि ॥७८॥सविकल्पस्थितयस्ते ताश्च नवविधां मम ।भक्तिं कुर्वन्ति सततं प्रेम्णा सर्वार्पणात्मना ॥७९॥श्रवणं मे कथायाश्च मल्लीलानां प्रकीर्तनम् ।स्मरणं मम मूर्तेश्च मम पादादिमर्दनम् ॥८०॥साधूनां पादयोश्चापि देहस्यापि प्रमर्दनम् ।अर्चनं चन्दनाद्यैर्मे वन्दनं वचनैर्मम ॥८१॥दास्यं दत्वा समस्तं मे समीपे चासनं मम ।सर्वाज्ञापालनं दास्यं चानुवृत्त्या हि वर्तनम् ॥८२॥सख्यं सौहार्दभावश्च क्रियैक्यं च निरन्तरम् ।आत्मनिवेदनं चाप्यात्मीयसर्वनिवेदनम् ॥८३॥सर्वथा सहवासश्च पत्नीवद् भृत्यता तथा ।एवंविधा मम भक्तिः सविकल्पस्य योगिनः ॥८४॥सर्वथा मन्मयत्वेन भवत्येव सुखप्रदा ।एवंविधया भक्त्या च स्नेहेन सेवया मम ॥८५॥ज्ञानेनोत्कर्षभावेन सान्निध्यकरणं तु यत्॥उपासना मता सा च सर्वदिव्यप्रकाशिनी ॥८६॥सर्वविधानां ज्ञानानां प्रवाहाणां हरौ मयि ।योजनं बहुधा चापि मुहुश्चोपासना हि सा ॥८७॥मननं निश्चयश्चापि स्मरणं श्रीहरेर्मम ।दिव्यः किशोरः कृष्णोऽहं कोटिमुक्तादिसेवितः ॥८८॥अक्षरे सन्ति मे वंशा मुक्ता मुक्तानिकाः शुभाः ।सर्वभूषान्वितश्चास्मि सर्वमनोहरो हरिः ॥८९॥अनन्तैश्वर्यसम्पद्वाननन्तर्द्धिगुणाश्रयः ।एवंविधस्य मे ज्ञानं वेदनं सा ह्युपासना ॥९०॥भक्तिं स्नेहं तथा सेवामुपासनां वचःस्थितिम् ।संसाधयति यो देही जीवन्मुक्तः स उच्यते ॥९१॥सोऽयं भवति लोकेऽत्र सविकल्पसमाधिमान् ।ततो ब्रह्मस्थितिं लब्ध्वा सज्जते मयि माधवे ॥९२॥देहेन मनसा वाचा क्रिययेन्द्रियवृत्तिभिः ।आत्मना भावनया च संस्कारैर्वेदनादिभिः ॥९३॥ध्यानेनापि धारणयाऽर्पणेन रोधनेन च ।तादात्म्येन द्रवीभावेनैक्येन यो विदेहवत् ॥९४॥विदेही स भवेद् भक्तो निर्विकल्पसमाधिमान् ।प्राप्यैवं परमां दिव्यां मुदं स मोदते मयि ॥९५॥एवं ते कथितं सर्वं तूलवायिन् द्रुतं कुरु ।याहि मे धाम परमं सर्वानन्दभृतं द्रुतम् ॥९६॥इत्युक्तः स मया लक्ष्मि तूलवायी नमन् प्रभुम् ।देहं विहाय दिव्यो वै जातो मुक्तशरीरवान् ॥९७॥दिव्यं विमानमारुह्य ययौ धामाऽक्षरं मम ।एवमन्येऽपि भक्ता मे तूलवायिसकर्मिणः ॥९८॥मया कालेन सर्वे ते प्रापिता मेऽक्षरं पदम् ।एवं भक्तो भवेल्लक्ष्मि भक्तिमान् मदुपासकः ॥९९॥तस्मै दत्वा दर्शनं मे नयामि धाम मे परम् ।भुक्तिं मुक्तिं ददाम्येव रक्षां करोमि सर्वथा ॥१००॥पठनाच्छ्रवणादस्य स्मरणात् पालनात्तथा ।भुक्तिं मुक्तिं लभेच्चापि सुखं मे परमं लभेत् ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने तूलवायिनामकस्य सूत्रवायकस्य भक्त्या भगवाँस्तस्य तत्कर्मचाराणां च रक्षां कृत्वा दर्शनं दत्वा मोक्षं कृतवानित्यादिनिरूपणनामा त्र्यधिकद्विशततमोऽध्यायः ॥२०३॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP