द्वापरयुगसन्तानः - अध्यायः २१२
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं लोहकारस्य वै कथाम् ।
मे पावनस्य भक्तस्य नाम्ना नालीकरस्य वै ॥१॥
नालीकरो मम भक्तोऽवसद् वक्रनदाऽऽह्वये ।
नगरे लोहकारो वै कुटुम्बेन समन्वितः ॥२॥
लोष्ठानां शृंखला दीर्घाः स्वल्पाश्च कीलकाँस्तथा ।
पट्टाँश्च कुण्डलाँश्चापि पट्टिका लोष्टपत्रिकाः ॥३॥
लोष्टपात्राणि बहूनि लोहोपकरणान्यपि ।
अनसा च ग्रहाणां च साधनानि करोत्यपि ॥४॥
भस्त्रायाश्चालने श्वासे प्रश्वासे श्रीनरायणम् ।
लोहघ्नोन्नयने तस्य पातने लोहपीटने ॥५॥
लोहसन्धानकार्यादौ स्मरते मां नरायणम् ।
भस्त्रां मत्वा रमादेवीं वह्निं मत्वा नरायणम् ॥६॥
मालां मत्वा चालदण्डं भजते मां हरिं सदा ।
लोहकूट्टीं पापपुञ्जकूट्टीं मायां विचिन्त्य च ॥७॥
लोष्टानि मायिकान्येव मत्वा हन्ति विमुक्तये ।
लोहघातोत्थशब्दाँश्च प्रणवान् मनुते स च ॥८॥
एवं नालीकरो भक्तो ब्रह्मदृष्ट्याऽऽत्मबोधवान् ।
वर्तते भक्तियुक्तश्च मूर्तिं मे पूजयत्यपि ॥९॥
प्रातः स्नात्वा गृहे मूर्तिं नत्वा धूपं करोति च ।
दीपं कृत्वा पुष्पमालां चन्दनं मेऽर्पयत्यपि ॥१०॥
सुगन्धसारं दत्वा मे नैवेद्यं दुग्धशर्कराम् ।
पोलिकाश्च समर्प्यैव जलं ताम्बूलकं तथा ॥११॥
समर्प्य मे क्षमां याचित्वाऽथ भुंक्ते पिबत्यपि ।
एवमेव ततो लोहशालायामपि माधवम् ॥१२॥
स्मृत्वा गत्वा नमस्कृत्य धूपं कृत्वा च दीपकम् ।
पुष्पमालां शर्करां च तथाऽन्यत् फलमुत्तमम् ॥१३॥
यथाकालं समर्प्यैव ततः कार्यं करोति च ।
लोहकार्याणि मे भक्त्या करोति शुद्धमानसः ॥१४॥
एवंविधस्य भक्तस्यैकदाऽभवत् सुचिन्तनम् ।
रात्रौ नित्यं प्रकर्तव्यं भजनं बहुभिः सह ॥१५॥
सङ्घेन भजनं कार्यं बहूनां मोक्षसाधनम् ।
एवं शुभेन मनसा स्वग्रामजनबान्धवान् ॥१६॥
जगाद मण्डलं भक्तेर्विधातुं च तदापि ते ।
प्रहर्षेणाऽस्थापयँश्च भक्तमण्डलमुत्तमम् ॥१७॥
नरा नार्यो निशारंभे मिलित्वा घटिकाद्वयम् ।
नित्यमारेभिरे कृष्णनामसंकीर्तनं शुभम् ॥१८॥
सर्वे जना नगरस्थाः श्रुत्वा वीक्ष्य शुभक्रियाम् ।
सहकारं ददुस्तत्र युयुजुर्भक्तमण्डले ॥१९॥
सहस्रशो जना भक्तिं कुर्वन्त्युत्साहसंभृताः ।
उत्सवान् श्रीहरेः सर्वान् वाद्यनृत्यादिभिस्तथा ॥२०॥
शृंगारपूजनाद्यैश्च जागराद्यैः समुत्सुकाः ।
कुर्वन्ति च यथाकालं लक्ष्मि स्वश्रेयसे यताः ॥२१॥
तेषां भक्तिं विलोक्याऽहं भक्तिप्रवर्तकस्य मे ।
भक्तस्य लोहकारस्य प्रसन्नोऽहं तदाऽभवम् ॥२२॥
एकदा भक्तिवृद्ध्यर्थं तेजो मयाऽतिभास्वरम् ।
निर्यन्मत्प्रतिमाभालाद् दर्शितं तेभ्य उज्ज्वलम् ॥२३॥
शामितं च मया तूर्णं तेन ते भक्तिगौरवाः ।
विशेषतो मम भक्तिमकुर्वन् भावगर्भिताम् ॥२४॥
ज्ञातारश्चाऽभवन् मूर्तौ तिष्ठतो मम शार्ङ्गिणः ।
मन्दिरं कृतवन्तस्ते लक्ष्मीनारायणस्य ह ॥२५॥
तत्र पूजाप्रवाहादि चक्रिरे च यथाधनम् ।
अहं मूर्तौ निवसामि त्वया साकं समुद्रजे ॥२६॥
अपहरामि सर्वेषां दुःखानि विपदोऽन्वहम् ।
मानतास्ते प्रकुर्वन्ति रोगदुःखविनाशिनीः ॥२७॥
आध्यात्मिकाऽऽधिदैवाधिभौतिकाधिविनाशिनीः ।
सर्वाः पीडा नाशयामि स्वस्थास्ते च भवन्ति वै ॥२८॥
भजन्ते मां चातिभावैश्चमत्कारादिकीर्तनैः ।
अथैकदा सतीत्वं च जाता तापसीवेषिणी ॥२९॥
अहं च तापसो योगी भूत्वाऽगमं निशामुखे ।
भक्तमण्डलमालक्ष्य मन्दिरस्याऽन्तिके स्थले ॥३०॥
यथा दीनजनो रङ्कः कश्चिद् भिक्षुक उद्गतः ।
त्वं तथा दीनचित्ता च भिक्षुकी व्रतवर्जिता ॥३१॥
धर्मस्नानार्हणशून्या मलिना प्राकृती यथा ।
अहं तथैव मलिनो दर्शकानां तु चित्तहाः ॥३२॥
एकं तु बालकं स्वल्पं मलमूत्रादिसंभृतम् ।
गरुडं बालरूपं तं कृत्वा कुक्षौ पुरोऽभवम् ॥३३॥
एवं त्रिकं च ते वीक्ष्य याचमानं च दीनवत् ।
मन्दिराग्रे समायातं दयापरास्ततोऽभवन् ॥३४॥
आहूय वेदिकायां ते न्यषादयन् सुखेन च ।
अयच्छन् भोजनं लक्ष्मीनारायणप्रसादजम् ॥३५॥
अपत्याय पयश्चापि ददुस्ते भावनान्विताः ।
कृत्वा च भोजनं पानं वयं लक्ष्मि सुखस्थिताः ॥३६॥
वितर्दिकायामभवन् ते चक्रुर्नामकीर्तनम् ।
चत्वरे रासमारेभुस्तालवाद्यसुनर्तनैः ॥३७॥
नरा नार्योऽसंख्यजना भक्तिं चक्रुर्हि भावुकाः ।
कृत्वा ते कीर्तनं यावत् क्षणं विश्रान्तिमादधुः ॥३८॥
तदोत्थाय त्वया साकमहं तत्र हि चत्वरे ।
करतालैर्मञ्जिरैश्च सनृत्यं कीर्तनं व्यधाम् ॥३९॥
आश्चर्यं परमं प्राप्ता दृष्ट्वा मां त्वां च ते तदा ।
प्रसन्नास्ते च पप्रच्छुः शान्तं मां श्रेयसे मुहुः ॥४०॥
साधो कल्याणदं किञ्चिद् वदाऽत्र नः कृपां कुरु ।
श्रुत्वाऽहं च तदा लक्ष्मि ज्ञानं तेभ्यो ददौ मम ॥४१॥
प्रेम्णो हेतुं भगवति माहात्म्यं निजगाद वै ।
माहात्म्यज्ञानवत्प्रेम्णि विश्वासोऽपि च कारणम् ॥४२॥
मायापुरुषकालानां स्वभावगुणकर्मणाम् ।
जडचेतनतत्त्वानां नियन्तारं हरिं श्रयेत् ॥४३॥
सर्वस्वतन्त्रकर्तारं सर्वावतारकारणम् ।
सर्वशक्तिप्रदातारं नारायणं हरिं श्रयेत् ॥४४॥
प्रेम्णाश्रयेत् परात्मानं माहात्म्यज्ञानवान् जनः ।
प्रीत्या संसेव्य तं नाथं परधाम समर्जयेत् ॥४५॥
कुर्याद् वै वासनानाशं सर्वथा तु विवेकवान् ।
लौकिकेषु विषयेषु रुचिरिच्छाऽस्ति मे तु या ॥४६॥
कियतीति विविच्यैव ह्यपनेया तु सा ततः ।
कियती वा हरौ चास्ते रुचिरिच्छा तु पावनी ॥४७॥
मायायां च हरौ तुल्या न्यूना वा चाधिकाऽपि वा ।
विविच्येति हरौ वर्धनीया प्रयत्नतः सदा ॥४८॥
हसनीया च मायायां निर्मूला यावती भवेत् ।
क्षयिष्णुत्वं दुःखदत्वं बन्धकृत्त्वं तु मायिके ॥४९॥
पदार्थजाते भवतीत्येवं ज्ञात्वा विवर्जयेत् ।
रुचिं त्यजेन्मायिकेषु मुक्तानामपि बन्धनीम् ॥५०॥
अरुचेर्वासनानाशो जायते द्रुतमेव ह ।
सत्संगात् कृष्णसम्बन्धात् कृष्णकीर्तनगायनात् ॥५१॥
कृष्णे रुचिर्भवत्येव साक्षाद् योगाद् विशेषतः ।
एवमभ्यासयोगेन कृष्णे प्रीतिर्विवर्धते ॥५२॥
मायिके मलतुल्ये च भोग्ये रम्ये तथेतरे ।
रुचेर्नाशो भवेत्तूर्णं भगवद्रसवेदिनः ॥५३॥
ब्रह्ममयं भासतेऽस्य दिव्यं नारायणात्मकम् ।
भगवन्निष्ठभक्तस्य ब्रह्मभावः परो वृषः ॥५४॥
स्थितिः सा परमा महाभागवती प्रमोदिनी ।
मायाभिमानरहिता भगवद्भावशोभिता ॥५५॥
वासनायाः प्रणाशार्थं प्रीत्यर्थं च हरेस्तथा ।
साधयेदात्मनिष्ठां च वैराग्यं श्रेष्ठमित्यपि ॥५६॥
कृष्णमाहात्म्यातिशयविज्ञानं स्वसमर्पणम् ।
साधयेद् भगवन्निष्ठां सतां समागमं चरेत् ॥५७॥
निर्वासनात्मनिष्ठानां सतां सेवां प्रसाधयेत् ।
प्रसन्नतां सतां लब्ध्वा जयेन्मायां परं व्रजेत् ॥५८॥
अतिधैर्यं लभेज्ज्ञानादाश्रयात्परमात्मनः ।
सतां सत्संगसाहाय्याद्धैर्यं दृढं हरौ भवेत् ॥५९॥
आत्मनिष्ठायुजा भक्त्या धैर्यस्थैर्थं तथा भवेत् ।
धीरस्य मुक्तभावस्य विघ्ना नैव भवन्ति च ॥६०॥
भक्त्यन्तरायरूपाश्च सिद्धयो नोपयान्त्यपि ।
पक्वभक्तपरीक्षार्थं समायान्ति हि सिद्धयः ॥६१॥
श्रीहरेराज्ञया तास्तु लोभयन्ति मुहुः श्रितम् ।
तथापि ता न पश्येच्च जित्वा याति परं पदम् ॥६२॥
एवंविधस्य भक्तस्य कृष्णो वशे स्वयं भवेत् ।
मायाया वासनाशून्यो यश्च कृष्णार्पिताऽखिलः ॥६३॥
कृष्णार्थकृतसर्वस्वस्तस्य प्रीतो हरिः सदा ।
कृष्णेऽतिप्रेमवद्भक्तहृदयाच्छ्रीहरिः क्वचित् ॥६४॥
प्रेमरज्ज्वा नद्धवर्मा गन्तुं शक्तो न जायते ।
'तस्यैव भगवान् पाता स्वामी कान्तश्च मोक्षकृत् ॥६५॥
मायादुःखहरश्चास्ते हृदये सर्वथा सह ।
एतादृशस्य भक्तस्य गुणा दिव्या भवन्ति हि ॥६६॥
सत्यशौचादयो ये च सर्वे कृष्णसमाश्रयात् ।
कृष्णस्य दिव्यविज्ञानाज्जायन्ते भक्तिमत्यपि ॥६७॥
कालकर्मस्वभावानां मायायाः पुरुषस्य च ।
ईश्वराणां नियन्ता श्रीबालकृष्णोऽस्ति माधवः ॥६८॥
कर्ता पोष्टा च संहर्ता सृष्टीनां श्रीपतिः प्रभुः ।
अस्ति गोपालबालः स सर्वेषां हृदयेषु सः ॥६९॥
निर्लेपो वर्तते स्वामी राधारमाप्रधीपतिः ।
एवं ज्ञात्वा हरौ कृष्णे सम्बन्धं प्राप्तवान् दृढम् ॥७०॥
यस्तस्य श्रीहरेः सम्बन्धिनो दिव्यगुणा अपि ।
आविर्भवन्ति भक्ते वै सर्वैश्वर्याणि सर्वथा ॥७१॥
चक्षुर्दीपप्रसंगेन प्रभागुणं प्रविन्दति ।
यथा तथा हरेर्योगाद् भक्ते गुणा विशन्ति च ॥७२॥
स्वतन्त्रो जायते कृष्णतुल्यः कृष्णप्रसादतः ।
सर्वं कर्तुं सिद्धिमाँश्च नित्यसिद्धोऽपि जायते ॥७३॥
यथेन्द्र आययौ नारायणं नरं तपःक्षतिम् ।
कर्तुमप्सरसां व्रातैर्निरस्तश्चोर्वशीजनेः ॥७४॥
एवं सिद्ध्या सिद्धिमन्तो निरस्यन्ते सुसिद्धिना ।
भक्तेन मूलमायाऽपि निरस्यते हरेर्बलात् ॥७५॥
देवा भक्ता भवन्त्येव भगवद्गुणयोगिनः ।
आसुरा न प्रजायन्ते भगवद्गुणिनः क्वचित् ॥७६॥
महतां तु सतां कृपापारावारे प्रविश्य च ।
पापिनो भगवद्भक्त्या क्वचिद् गुणा विशन्ति हि ॥७७॥
प्रसन्नाः सेवया सन्तो नाशयन्ति हि दुर्गुणान् ।
आसुरत्वं नाशयन्ति कुर्वन्ति दैवभावुकम् ॥७८॥
यस्तु रङ्कजनान् गर्वादवजानाति भक्तकान् ।
सोऽपि तत्पापपुञ्जेन दैवोऽप्यासुरतां व्रजेत् ॥७९॥
शप्तो भवेद् ब्रह्मदग्धो गुणास्तत्र विशन्ति न ।
दीनाऽवमानं तस्मान्न कर्तव्यं क्वचिदेव ह ॥८०॥
दीनाग्रे दीनवत् स्थेयं तेन कृष्णः प्रतुष्यति ।
गर्ववत्सु कृपां नैव करोति भगवान् क्वचित् ॥८१॥
गुणास्तेषु शुभा नैव जायन्ते द्रोहिषु क्वचित् ।
मृदोर्भक्तस्य दीनस्य द्रोहेण पुण्यसंक्षयः ॥८२॥
जायते नाऽत्र सन्देहो नावमान्या हि दुर्बलाः ।
बाह्यतो मलिनाश्चापि हृदये शुद्धभावनाः ॥८३॥
भक्ता भगवतो मान्या मोक्षदाः साधवो हि ते ।
तेषां हृदये भगवानन्तर्यामी विराजते ॥८४॥
सहैव वर्तते दीननाथो ह्यनाथरक्षकः ।
भक्तानामवमानेन रुष्टो भवति माधवः ॥८५॥
अवमानयितुस्तूर्णं विनाशं कुरुते स्वयम् ।
कारयत्याशु चान्येन रङ्कभक्तवशंवदः ॥८६॥
नालीकर! वयं दीना मलिना मक्षिकावृताः ।
सभयाश्चात्र भोज्यार्थं ह्यायाता दीनमानसाः ॥८७॥
तिरस्कारो भवद्भिर्न कृतः सत्कार आदृतः ।
अतः प्रसन्नहृदया भवामोऽत्र सुखान्विताः ॥८८॥
यूयं भक्ता भगवतः सत्या निर्मानिसेवकाः ।
वरदानं चार्थयन्तु रोचते यदि मानसे ॥८९॥
इत्युक्त्वाऽहं यदा लक्ष्मि मूर्तिं नत्वा च मामकीम् ।
गन्तुमियेष दूरं च तावद् बालो मलं व्यधात् ॥९०॥
नालीकरो जलं निन्ये ददौ वै तस्य योषिते ।
तत्स्त्री नाम्ना कुन्दनिका बलिं लब्ध्वा करात्तव ॥९१॥
मलप्रक्षालनं चक्रे भावेन बालकस्य ते ।
तावन्मेऽपि विशेषेणाऽभवत् प्रसन्नता ह्यति ॥९२॥
भक्तेभ्यः प्रददौ नैजं दर्शनं दिव्यमद्भुतम्।
शंखचक्रगदापद्मधरं श्रीश्यामसुन्दरम् ॥९३॥
तव रूपं सुन्दरं च लक्ष्मि व्यदर्शयँस्तथा ।
बालकस्य स्वरूपं च गारुडं समदर्शयम् ॥९४॥
अथ भक्ताः कृतकृत्या व्यजायन्त हृदन्तरे ।
ननृतुर्दर्शनं कृत्वा पूजयामासुरुत्सुकाः ॥९५॥
वव्रुस्ते वरदानं च मोक्षार्थं नेतरत्तदा ।
तथाऽस्त्विति वरं दत्वा तिरोभावं क्षणान्तरे ॥९६॥
लक्ष्मीनारायणमूर्तौ विवेशाऽहं त्वया सह ।
गरुडः पक्षिमूर्तौ च विवेश सहसा तदा ॥९७॥
एवं स्वं दर्शनं दत्वा सुखं तेभ्योऽददां परम् ।
अथ काले गते नालीकरस्य लोहकर्मभिः ॥९८॥
वक्षसि श्वासरोगोऽभूत् सर्वथा श्वाससञ्चरः ।
दमाख्येन हि रोगेण पीडितो भक्तराण्निजम् ॥९९॥
कार्यं कर्तुमशक्तो मां प्रार्थयामास मूर्तिगम् ।
द्रागाविर्भूय हस्तेन मया दुग्धं प्रपायितम् ॥१००॥
हस्तेन तस्य हृदयं स्पृष्ट्वा रोगो विनाशितः ।
अथ तूर्णं तिरोभूत्वा मूर्तौ सदाऽवसं रमे ॥१०१॥
आयुष्यस्य क्षये नालीकरं तथा स्त्रियम् ।
कुन्दनिकां विमानेनाऽनयं धामाऽक्षरं परम् ॥१०२॥
एवमन्यानपि भक्ताननयं धाम चाक्षरम् ।
ये भजन्ति च मां भक्त्या गुणान् गृह्णन्ति मे तथा ॥१०३॥
सतां सेवां प्रकुर्वन्ति प्रेमभावेन सर्वथा ।
सतां प्रसन्नता प्राप्य ते प्रयास्यन्ति मत्पदम् ॥१०४॥
पठनाच्छ्रवणाच्चापि स्मरणात् सेवनादपि ।
भुक्तिर्मुक्तिर्भवत्येव यथेष्टा परमा गतिः ॥१०५॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने नालीकरस्य लोहकारस्य भक्त्या श्रीलक्ष्मीनारायणगरुडदत्तदर्शनं तन्मोक्षणं चेत्यादिनिरूपणनामा
द्वादशाधिकद्विशततमोऽध्यायः ॥२१२॥
N/A
References : N/A
Last Updated : May 05, 2021
TOP