संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ५० द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ५० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५० Translation - भाषांतर श्रीनारायणीश्रीरुवाच-गुरुतीर्थस्य माहात्म्यं भूयोऽपि वद मे पते ।जिज्ञासा वर्धते श्रोतुं सुलभं गुरुतीर्थकम् ॥१॥श्रीपुरुषोत्तम उवाच-धन्याऽसि कृतकृत्याऽसि गुरुतीर्थाऽवगाहिनी ।योषितां दयया लक्ष्मि श्रेयःकरी यतो ह्यसि ॥२॥कथयामि तथा भूयो गुरुतीर्थं निशामय ।सर्वपापहरं चापि शिष्याणां मोक्षदायकम् ॥३॥दिव्यतापादकं पुण्यं धर्मात्मकं सनातनम् ।सर्वैश्वर्यान्वितं शीघ्रं प्रत्यक्षफलदायकम् ॥४॥गुरोः प्रसादात् कमले इहैव फलभाग् भवेत् ।परलोकसुखं भुंक्ते महानन्दमवानुयात् ॥५॥गुरोः प्रसादात् कमले त्रैलोक्यं सचराचरम् ।प्रत्यक्षं दृश्यते शिष्यैरीशलोकगतिं प्रति ॥६॥अव्याहतगतिमान् स्याद् विज्ञानं विन्दते तथा ।यशः कीर्ति व्यवहारं प्राधान्यं कृपया लभेत् ॥७॥सूर्यवत् सर्वथा गुरुः प्रकाशकोऽन्धचक्षुषाम् ।सोमवच्छान्तिदश्चापि प्रकाशदो निशात्मके ॥८॥दीपवद् गृहहृदये प्रभादो वै गुरुः सदा ।दिवा सूर्यः शशी रात्रौ दीपो गृहे गुरुः सदा ॥९॥प्रकाशते शिष्यहृदि गुरुर्ब्रह्मप्रकाशकृत् ।अतो गुरुः परं तीर्थं तारकं ज्ञानदानकैः ॥१०॥विज्ञायैवं गुरुं गुर्वी सर्वभावैः प्रसादयेत् ।कर्मभिर्मनसा देहैर्वाण्या च सेवया तथा ॥११॥अत्रार्थे ते कथयामि कथां दिव्यां मनोहराम् ।ब्रह्मपुत्रो भृगुस्तस्य वंशेऽभूच्च्यवनो मुनिः ॥१२॥कदाऽहं ज्ञानसम्पन्नः स्यामित्यचिन्तयन् मुहुः ।तदर्थं तीर्थयात्रायामगमज्ज्ञानलब्धये ॥१३॥गंगायात्रां बदरीतश्चाकपिलाश्रमं व्यधात् ।गोदावर्याः सरस्वत्या नर्मदायास्तथा व्यधात् ॥१४॥कायश्च निर्मलो जातः सूर्यतेजःसमप्रभः ।ओंकारेश्वरमासाद्य वटच्छायास्थितोऽभवत् ॥१५॥नर्मदाया जलं पीत्वा क्षणं ध्यानपरोऽभवत् ।तत्र शुश्राव पक्षिणां भाषां विज्ञानसंभृताम् ॥१६॥शुकपुत्रा हि चत्वारश्चासंस्ते पितृनन्दनाः ।उज्ज्वलश्च समुज्ज्वलो विज्वलश्च कपिञ्जलः ॥१७॥एते कुंजलशुकजाः पितृमातृपरायणाः ।फलान्याहृत्य पितृभ्यां ददत्यपि च भुञ्जते ॥१८॥क्रीडन्ति पितृनिकटे मातृसन्निधिमुत्सुकाः ।स्वपन्ति च च्यवनस्य पश्यतो नित्यमेव ते ॥१९॥सायमागत्य ते सर्वे नित्यं सेवां चरन्ति च ।आगतास्ते चरित्वैव पितुर्नीडं सुखावहम् ॥२०॥पितरं मातरं चोभौ प्रणेमुश्च फलानि च ।ददुश्चापि च पितृभ्यां मानिताः श्रान्तिमास्थिताः ॥२१॥सम्भाषिताः सेविताश्च पक्षवातादिभिश्च ते ।सेवन्ते स्म पितरौ च पितरौ ददतुस्तदा ॥२२॥शुभाशीर्वचनान्येव ततः पप्रच्छ तान् पिता ।उज्ज्वल त्वं चाद्य कस्यां दिशायां वै गतोऽभवः ॥२३॥तत्र दृष्टं श्रुतं चाऽप्यपूर्वं चेन्मे निवेदय ।श्रुत्वोज्ज्वलः प्रणम्यैव पितरं प्राह तत्कथाम् ॥२४॥गंगाद्वीपं जगामाऽद्य राजा यत्र हि धार्मिकः ।दिवोदासो वर्तते वै सत्यधर्मपरायणः ॥२५॥ब्राह्मीदेवी तस्य पत्नी पातिव्रत्यपरायणा ।सुषुवे गुणरूपाढ्यां सुशीलां चारुमंगलाम् ॥२६॥दिव्यादेवीतिविख्यातां कन्यां लावण्यशेवधिम् ।प्रथमे वयसि दिव्यां वरयोग्यां विलोक्य च ॥२७॥पिता कामरूपदेशराजं चित्रप्रसेनकम् ।आहूय कन्यां प्रददौ चित्रसेनाय धीमते ॥२८॥विवाहयज्ञे राजा स चित्रसेनो ममार ह ।अकृताग्निप्रदक्षिणा कन्या सौभाग्यवर्जिता ॥२९॥अभवद् वै तदा राजा विप्रान् पप्रच्छ कारणम् ।अस्या विवाहसमये चित्रसेनो दिवं गतः ॥३०॥अस्या वै कीदृशं कर्म भवत्येव ब्रुवन्तु मे ।श्रुत्वा विप्राः समाहुर्वै लग्नकालस्तथाविधः ॥२१॥पतिमृत्युश्च वा पत्युः प्रव्रजिता च रुग्णता ।अथ राजा च कालेन त्विन्द्रप्रस्थपुरं ययौ ॥३२॥इन्द्रप्रस्थनृपरूपसेनायेमां समार्पयत् ।रूपसेनोऽपि वै मृत्युं गतो विवाहनक्षणे ॥३३॥एवं यदा यदा यस्मै राजा ददाति कन्यकाम् ।तद्भर्ता वह्निसाक्ष्ये वै मृत्युं गच्छति सत्वरम् ॥३४॥एकविंशतिसंख्याका वरा मृत्युंगतास्तथा ।कन्या त्वास्ते चाऽक्षता वै दिवोदासः शुशोच ह ॥३५॥ततो मन्त्रिवचो मत्वा स्वयंवरं व्यधापयत् ।राजानो बहवस्तत्र समाहूताः समन्ततः ॥३६॥स्वयंवरसभामध्ये यदा प्राप्ता कुमारिका ।राधासमां चन्द्रमुखीं व्यलोकयन् नृपास्तदा ॥३७॥अदत्तवरमालाया रूपं वीक्ष्य तु तामसाः ।राजानो मोहमापन्ना हरणार्थं समुद्यताः ॥३८॥अन्ये तस्यास्तु रक्षार्थं तदैवं समरोऽभवत् ।तत्र महान् क्षयो जातः क्षत्रियाणां स्वयंवरे ॥३९॥दिव्यादेवी सुदुःखार्ता वैराग्यं समुपागता ।ययौ विन्ध्याचले तप्तुं तपस्तत्र रुरोद सा ॥४०॥मया तस्या रोदनं वै श्रुतं दृष्टं तदन्तिके ।पितस्तस्याः कथं तादृग्भाग्यं राजन्यनाशकम् ॥४१॥कुमारत्वं वने वासश्चार्धं विवाहनं तथा ।इति मे संशयश्चास्यां वर्तते तन्निषूदय ॥४२॥श्रुत्वा पुत्रवचस्तत्र शुकः कुंजलको जगौ ।पूर्वजन्मकृतं सर्वं शृणु पुत्र हि कान्यकम् ॥४३॥सा कन्या पूर्वमासीद्वै सुवीरवैश्यभामिनी ।वाराणस्यां च नाम्ना वै चित्रा स्वतन्त्रगामिनी ॥४४॥अनाचारपरा पापा स्वैरिणी व्यभिचारिणी ।भर्तारं मन्यते नैव पुण्यहीना तु पापिनी ॥४५॥कुत्सयते पतिं क्लेशकरी सद्धर्मवर्जिता ।परगृहे वसति भ्रमत्यपि सा गृहे गृहे ॥४६॥परच्छिद्रं पश्यति द्राक् साधुनिन्दापरा तथा ।परहास्यकरी दुष्टा सदाचारविवर्जिता ॥४७॥सुवीरेण तु वैश्येन गृहान्निष्कासिता हि सा ।दुष्टानां संगतिं प्राप्ता दूतीकर्म चकार सा ॥४८॥कुलटा च व्यभिचारकर्म कारयति पराः ।गृहभंगं कारयति साधूनां धर्मवर्त्मनाम् ॥४९॥साध्वीं नारीं समाहूय द्रव्यदानैः प्रलोभयेत् ।मनोभंगं कारयति व्यवाये योजयत्यपि ॥५०॥साधूनां सा स्त्रियं भङ्त्वाऽप्यन्यस्मै प्रददात्यपि ।एवं गृहशतं भग्नं चित्रया दुष्टया पुरा ॥५१॥संग्रामं सा महादुष्टाऽकारयत् पतिपुत्रकैः ।एवं पापपरा सा तु मृता यमपुरं गता ॥५२॥भुक्त्वा च यातनाः पश्चात् कर्मविपाकमागता ।सा त्विदानीं कृतं कर्म भुंक्ते रोदिति भामिनी ॥५३॥यस्माद् गृहशतं तस्मादस्याः शतं वराः ।एकविंशतिसहिता विवाहे च स्वयंवरे ॥५४॥पापायाः शुभसमये तत्संख्याका मृता वराः ।गृहभंगो न कर्तव्यो यस्य कस्यापि देहिनः ॥५५॥परभंगे निजभंगो जायते नैव संशयः ।श्रुत्वैवमुज्ज्वलः प्राह पितश्चास्या महत्कुले ॥५६॥जन्म कथं च वै जातं पापाया वद मेऽपि तत् ।श्रुत्वा पुत्रवचश्चापि कुञ्जलः प्राह पुत्रकम् ॥५७॥दूती यत्राऽभवत् सा वै तत्रैकदा तु भूसुरः ।साधुधर्मा सिद्धगतिः कुचेलो दण्डवान् यतिः ॥५८॥कौपीनमात्रवस्त्रश्च चित्राद्वारमुपस्थितः ।मौनी जितेन्द्रियो ज्ञानी व्रह्मभक्तिपरायणः ॥५९॥तत्त्वदर्शी क्षुधातृषाव्याप्तश्च श्रमितः सुखी ।दूराध्वानपरिश्रान्तश्चित्रया स विलोकितः ॥६०॥नाम्ना कृष्णायनं चित्रा दृष्ट्वाऽऽजुहाव तं गृहे ।आसनं च ददौ वारि भोजनं मधुपर्ककम् ॥६१॥देहसंवाहनं चक्रे साधुं मत्वा सुसेवनम् ।अकरोत् सा प्रसन्नः सा आशीर्वादं ददौ शुभम् ॥६२॥राजपुत्री भवत्वेवं कथयित्वा ययौ हि सः ।अथ कालान्तरे चित्रा मृत्युंगता ततस्त्विह ॥६३॥साधोः सेवाफलेनाऽपि तदाशीर्वादतस्तथा ।दिवोदासगृहे पुत्री दिव्यादेवी व्यजायत ॥६४॥सा हि दत्तवत्ती चान्नं जलं सेवां तथाऽऽसनम् ।तस्मात् पुण्यस्य माहात्म्याद् राजपुत्री हि वर्तते ॥६५॥गृहभंगादिपापैश्च ह्यधवात्वं पुनः पुनः ।सहते वै ततः सेवा कर्तव्या सततं सताम् ॥६६॥गुरोः सेवा प्रकर्तव्या साधोर्धर्मव्रतस्य च ।साध्व्याः सेवा प्रकर्तव्या सर्वसम्पत्करी हि सा ॥६७॥राजपुत्रा मृता ये ये ते पुरा भाण्डजातयः ।नारीणां हारकाश्चासन् तेन पापेन ते मृताः ॥६८॥गोविप्रगुरुसाधूनां सेवापरायणाः पुरा ।आसँश्चापि च वै तेन राजपुत्रत्वमागताः ॥६९॥अतः सेव्याः साधवश्च गुरवश्च सदा हि ताः ।परभंगो गृहभंगो न कर्तव्यः कदाचन ॥७०॥श्रुत्वोज्ज्वलः पुनस्तत्र पप्रच्छ पितरं प्रति ।कथं सा मुच्यते शोकान्महादुःखाद् वदस्व मे ॥७१॥कथं सा लभते मोक्षं तं चोपायं वदस्व मे ।पिता च कुञ्जलः प्राह श्रुत्वा पुत्रं तमुज्ज्वलम् ॥७२॥शृणु पुत्र प्रवक्ष्यामि तस्या दुःखविनाशकम् ।साधनं मोक्षणस्यापि येन शुद्धा भविष्यति ॥७३॥हरेर्ध्यानाज्जपाच्चापि व्रताच्च गुरुसेवनात् ।पापनाशो मोक्षणं च भवेदेव न संशयः ॥७४॥दिव्यो नारायणश्चास्तेऽक्षरे धाम्नि परात्परः ।सर्वज्ञः सर्वशक्तिश्च सर्वैश्वर्यसमन्वितः ॥७५॥किशोरः सर्वशोभाढ्यः श्रीकान्तः परमेश्वरः ।मायिकाऽऽकारवर्ज्यः स दिव्याकारसमन्वितः ॥७६॥दिव्यमुकुटमूर्द्धा च दिव्यचक्रादिशोभनः ।कोटिचन्द्राभवदनः पद्मपत्रनिभेक्षणः ॥७७॥सर्वभूषणशोभाढ्यः कौस्तुभेन विराजितः ।कमलाकृतसेवश्च श्रीवत्सांकेन राजितः ॥७८॥मनोहारिस्वरूपश्च कान्तः कान्तार्हयौवनः ।एवं ध्यायेत् सती नित्यं सर्वपापविशोधकम् ॥७९॥हरे नारायण कृष्ण श्रीपते कमलापते ।अनादिश्रीकृष्णनारायण श्रीकृष्णमोक्षकृत् ॥८०॥एवं कुर्याद् भजनं वै जपं कुर्याद्धरे इति ।व्रतं कुर्यात् पूर्णिमाया लक्ष्मीनारायणव्रतम् ॥८१॥उद्यापनेन सहितं कृष्णपूजान्वितं शुभम् ।गुरोस्तत्र च्यवनस्य प्रकुर्यात् सेवनं हि सा ॥८२॥कर्मणा मनसा वाचा तदा दुःखं प्रहास्यति ।इत्युक्तं सर्वमेवैतत् पक्ष्यपत्यं प्रणम्य च ॥८३॥पितुराज्ञां समादाय यत्र सा तत्र वै ययौ ।पक्षिभाषां परित्यज्य स्त्रीवाण्या तां जगाद ह ॥८४॥उज्ज्वलः सन्निधौ गत्वा तापसीं चेदमब्रवीत् ।का त्वं भवसि कस्याऽसि कस्मादत्र समागता ॥८५॥समाचक्ष्व त्वमनघे तपसश्चापि कारणम् ।दिव्यादेवी समुवाच पक्ष्यपत्यं विलोक्य सा ॥८६॥आश्चर्यं महदापन्ना पक्षिन् शृणु यथातथम् ।को भवान् मे वदत्वत्र विश्वासो येन जायते ॥८७॥पक्षी प्राह महाभागे पक्ष्यहं तव दुःखहाः ।रुदमानां विलोक्यैतत् पृष्टं मे वद कारणम् ॥८८॥यथाबलं यतिष्येऽहं तव दुःखविनाशने ।श्रुत्वा दिव्यादेविका सा जगाद पक्षिणं प्रति ॥८९॥कर्मणां मे फलं भुंजे दिवोदाससुताऽस्मि च ।शताधिका हि पतयो मृता उद्वाहनोत्सवे ॥९०॥अधवाऽहं हि तिष्ठामि तपोऽर्थमत्र चागता ।पापनाशो भवेद् येन तमुपायं करोमि च ॥९१॥उज्ज्वलश्च समाकर्ण्य पित्रोक्तं प्राह योषिते ।साऽपि तथ्यं हि तन्मेने प्रायश्चित्तमियेष सा ॥९२॥पप्रच्छ पक्षिणं पूर्वकृतपापस्य निष्कृतिम् ।उज्ज्वलः प्राह विष्णोर्वै ध्यानं कुरु यथोदितम् ॥९३॥जपं कुरु हरे कृष्णनारायण परेश्वर ।व्रतं कुरु शुभं लक्ष्मीनारायणव्रतं परम् ॥९४॥पूर्णिमायां निराहारं जागरणसमन्वितम् ।उद्यापनसमेतं च गुरोः संसेवनं कुरु ॥९५॥गुरुश्चात्र च्यवनोऽस्ति नर्मदायाः शुभे तटे ।भजस्व तं महात्मानं पुण्यपुञ्जा भविष्यसि ॥९६॥इत्युक्ता जगृहे सर्वं पक्षितः सा शुभोदया ।व्रतं चक्रे जपं चक्रे ध्यानं चक्रे हरेस्तथा ॥९७॥च्यवनस्य वटे सेवां चक्रे गत्वा गुरोर्हि सा ।देहेन मनसा वाचा सर्वार्पणेन कन्यका ॥९८॥गुरोस्तु कृपया साध्वी वर्षमध्ये ददर्श ह ।दिव्यं नारायणं कृष्णनारायणं परेश्वरम् ॥९९॥घनश्यामं सुन्दरं च शंखचक्रगदाधरम् ।सर्वाभरणशोभाढ्यं दृष्ट्वा ननाम पादयोः ॥१००॥दण्डवद् धरणिं प्राप्य चकार गद्गदाऽभवत् ।उवाच च हरिश्चाऽहं कृपया तव चागतः ॥१०१॥गुरोः प्रसादलाभेन जातं मे दर्शनं तव ।वरं वृणु महाभागे ददामि तव वाञ्छितम् ॥१०२॥श्रुत्वा सा कन्यका वव्रे मामुद्धर भवार्णवात् ।तव पादौ भजिष्यामि कान्तभक्तिं प्रदेहि मे ॥१०३॥मोक्षे दासीपदं देहि यदि तुष्टोऽसि नाथ मे ।हरिः प्राहाऽस्त्वेवमेव चायाहि मम धाम वै ॥१०४॥तावत् साऽप्यभवद् दिव्यादेवी लक्ष्मीस्वरूपिणी ।विमानवरमासाद्य ययौ वैकुण्ठमेव सा ॥१०५॥उज्ज्वलः पितरं प्राह वृत्तान्तं सर्वमेव ह ।पिता विवेद सर्वं च महिमानं गुरोस्तदा ॥१०६॥च्यवनः सर्वकामानां पूरको वैष्णवो गुरुः ।सेवितः कन्यया तेन याता सा ब्रह्मदर्शनम् ॥१०७॥तेनैव दिव्यदेहेन याता मोक्षपदं सती ।लक्ष्मीर्जाताऽपरा धाम्नि ध्यानजपव्रतादिभिः ॥१०८॥पठनाच्छ्रवणाच्चाऽस्य पापाऽपि पापशोधिता ।भूत्वा यायाद्धरेर्धाम लक्ष्मि! कान्ता भवेन्मम ॥१०९॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां गुरुतीर्थे दिव्यादेवीमोक्षणं नाम पञ्चाशत्तमोऽध्यायः ॥५०॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP