संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ९२ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ९२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९२ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं ब्राह्मण्यं वचनादपि ।अन्यजातेः पुरा जातं तथा लोके भविष्यति ॥१॥दिवोदासो महाभक्तोऽभवद् वाराणसीनृपः ।हैहयैरेकदा युद्धे जितो ययौ प्रयागकम् ॥२॥भरद्वाजं बृहस्पतेः पुत्रमृषिं ननाम सः ।दुःखं निवेदयामास ततः ऋषिः प्रतापतः ॥३॥पुत्रेष्ट्या च सुतो जातो दिवोदासस्य योषिति ।प्रतर्दनः स गत्वा च युवा वाराणसीं पुरीम् ॥४॥युयुधे हैहयैः साकं पराजितास्तु हैहयाः ।पलायनपरा भृगोः शरणं चाश्रमे गताः ॥५॥प्रतर्दनो ययौ पृष्ठे प्राह भृगुं प्रणम्य च ।देहि मे शत्रुभूपालान् वीतहव्यादिहैहयान् ॥६॥तेषां वधाद् भविष्याम्यनृणः पितुः कृपां कुरु ।भृगुः प्राह कृपाविष्टः क्षत्रिया नात्र सन्ति वै ॥७॥प्रतर्दनः प्रत्युवाच कृतकृत्योऽस्मि वै भृगो ।राजानोऽपि च वीर्येण स्वजातिं त्याजिता मया ॥८॥प्रतर्दनो भृगुं नत्वा वीतहव्यं नृपं द्विजम् ।विप्रं भृगोर्वचनेन प्राणरक्षणहेतवे ॥९॥त्यक्त्वा ययौ निजां राजधानीं वाराणसीं ततः ।भृगोर्वचनमात्रेण वीतहव्योऽपि हैहयः ॥१०॥भयेन क्षत्रभावं संत्यक्त्वा ब्रह्मर्षितां गतः ।तस्य पुत्रो गृत्समदो विप्रर्षिर्वैदिकोऽभवत् ॥११॥तस्य द्विजः सुतेजाश्च विहविस्तस्य वै द्विजः ।तस्य वितत्यस्तस्य तु सत्यस्तस्य श्रवाद्विजः ॥१२॥तस्य ऋषिस्तस्य पुत्रः प्रकाशस्तस्य वाचिकः ।तस्य प्रमितिर्विप्रश्च तस्य रुरुः सुविप्रकः ॥१३॥तस्य शुनकस्तस्यैव शौनको विप्रसत्तमः ।एवं साधोर्महर्षेश्च वचनाद् विप्रता तथा ॥१४॥ब्रह्मण्यता भवत्येव दीक्षयाऽपि भवेत्तथा ।दीक्षया त्रिवर्णजाता भवन्ति ब्राह्मणोत्तमाः ॥१५॥साधवो वैष्णवाः सर्वे विप्रा अच्युतगोत्रजाः ।एवं गुणैर्वचसा च दीक्षया विप्रता भवेत् ॥१६॥ब्राह्मणस्य गृहे तिष्ठन्नाबाल्याद् यदि संस्कृतः ।ब्राह्मणो जायते सोऽपि गृहीतोंऽके द्विजेन सः ॥१७॥स्तन्यपो बालको येन वर्धितोऽन्नजलादिभिः ।तज्जातिं समवाप्नोति ब्राह्मणे ब्राह्मणो भवेत् ॥१८॥तपसा च चमत्कारैराशीर्वादैश्च वै द्विजाः ।जायन्ते ब्राह्मणाश्चापि धर्मकर्मादिशोभनाः ॥१९॥शृणु लक्ष्मि तथाऽन्यच्च समर्थो व्याकरोति हि ।शंकरेण कृतो नन्दी मानवोऽपि गणो निजः ॥२०॥रमाऽब्धिजा तु हरिणा कृता नारायणी निजा ।विश्वामित्रेण नरपः त्रिशंकुर्देवताकृतः ॥२१॥कृता हराद्याः कृष्णेन गोलोके गोपिकाः स्त्रियः ।मासि मासि च सुद्युम्नोऽभवन्नरोऽबला तथा ॥२२॥अर्धनारीश्वरः शंभुर्विष्णुश्च मोहिनी तथा ।नरबीजं सर्वसृष्टौ सुता सुतोऽपि जायते ॥२३॥देवपुत्रा मानवाश्च काश्यप्यः सर्वशः प्रजाः ।एवं बीजेऽपि वैवर्त्त्यं जायते जातिरोधकम् ॥२४॥स्वेदजाश्चापि जायन्ते सर्वे विजातयः खलु ।जडेभ्यश्च जडाश्चापि विजातयो भवन्त्यपि ॥२५॥तस्माज्जातिर्न नियता सापेक्षा गुणकर्मभिः ।साधुत्वं सर्वतः श्रेष्ठं प्राप्तव्यं शुभकर्मभिः ॥२६॥शृणु लक्ष्मि नहुषोऽभूत् सर्पस्तेनैव वर्ष्मणा ।अगस्त्यस्य प्रशापेन वहमानस्य तं नृपम् ॥२७॥कल्पाषपादः सहसा वशिष्ठशापतोऽभवत् ।राक्षसो द्वादशवर्षाण्यचरत् स वनान्तरे ॥२८॥अहल्या चाऽभवत् पत्युः शापाच्छिला पुनश्च सा ।वृन्दाऽभवत्तूलसी सा वृक्षरूपा क्षणान्तरे ॥२९॥हरिः शालग्रामरूपः काली गौरी तथाऽभवत् ।शनैश्चरः पन्नतित्वं प्राप्तश्चेन्द्रो बिडालताम् ॥३०॥हरिर्मत्स्यादिरूपश्च वह्निः सुवर्णरूपधृक् ।भंगास्वनस्तथा राजा वने स्नात्वा सरोवरे ॥३१॥शतपुत्रजनकोऽपि स्त्रीत्वमाप्तो यथार्थतः ।पुनः सा ऋषिभार्याऽभूच्छतपुत्रप्रसूर्वने ॥३२॥श्रीनारायणीश्रीरुवाच-कथं भंगास्वनो राजा नरो नारी तथाऽभवत् ।श्रोतुमिच्छामि कान्ताऽत्र कथां तां वद मे हरे ॥३३॥श्रीपुरुषोत्तम उवाच-पुरा भंगास्वनो नाम राजर्षिर्धर्मवान् शुचिः ।अनपत्यः स पुत्रेष्टिं समाचरत् क्रतुं शुभम् ॥३४॥इन्द्रप्रधानभावस्याऽसत्त्वादिन्द्रो रुषा ज्वलन् ।विघ्नं कर्तुमियेषाऽपि रन्ध्रं नाऽवाप वै ततः ॥३५॥यज्ञान्ते तु क्वचिद्राजा मृगयार्थं वनं ययौ ।इन्द्रश्छिद्रं परं लब्ध्वाऽऽगत्याऽऽविवेश भूभृति ॥३६॥अश्वत्थं तं नृपं दूरेऽरण्ये निनाय भ्रान्तिगम् ।राजा च तृषितस्तत्राऽपश्यच्छ्रेष्ठं सरोवरम् ॥३७॥सोऽश्वं संपाययामास जलं बबन्ध पादपे।स्वयं पीत्वा जलं पश्चात् स्नानं चक्रे सरोवरे ॥३८॥अवगाहनमात्रेण द्रुतं स्त्रीत्वमवाप्तवान् ।दृष्ट्वाऽऽत्मानं स्त्रीकृतं च व्रीडितोऽभवदेव च ॥३९॥व्यचिन्तयन्मुखं कीदृग् दर्शयिष्ये पुरे मम ।शतपुत्रा मम सन्ति तान्प्रवक्ष्यामि किन्त्विदम् ॥४०॥एवं स दुःखितो राजा चाश्वमारुह्य कृच्छ्रतः ।लज्जां विहाय नगरीं ययावश्वेन वै च तम् ॥४१॥पुत्रा दाराश्च भृत्याश्च पौरा जानपदास्तदा ।दृष्ट्वा किं त्विदमेवेत्याश्चर्यं च विस्मयं गताः ॥४२॥स उवाच मृगयार्थं वनान्तरसरोवरे ।गतः स्नातस्तावताऽहं स्त्रीत्वमापन्न एव ह ॥४३॥पुत्रेभ्यो मम राज्यं सम्प्रददामि वनं ततः ।प्रयामीत्यभिधायैव दत्त्वा राज्यं ययौ वनम् ॥४४॥स्त्रीरूपा सा ऋषेः पत्नी ह्यभवत् स्वर्वहस्य तु ।स्वर्वहर्षेः शत पुत्रा राज्ञ्यां तस्यां ततोऽभवत् ॥४५॥सा तानादाय राज्यं स्वं ययौ पूर्वसुतान् प्रति ।प्राह यूयं पुरुषत्वे सुताः स्त्रीत्वे सुतास्त्विमे ॥४६॥एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः ।पितृमातृवचो मत्वा राज्यं बुभुजिरे सह ॥४७॥अथेन्द्रस्तत्र चागत्य भेदयामास पूर्वजान् ।पितृपुत्रा राज्ययोग्याः स्त्रीपुत्रा न कदाचन ॥४८॥स्त्रीपुत्राः सन्ति विप्रा वै न तेऽर्हन्ति नृपास्पदम् ।तत उत्तरजानाह भवन्तश्चोत्तमाः खलु ॥४९॥पूर्वजाः क्षत्रियाः सन्ति भवद्दासा हि ते मताः ।मा राज्यं ते प्रकुर्वन्तु राज्ययोग्या हि भूसुराः ॥५०॥इत्यन्योन्यं कारयित्वा वैरं युद्धेन नाशिताः ।श्रुत्वा तु तापसी माता रुरोद शोकसंप्लुता ॥५१॥इन्द्रस्त्वागत्य तामाह केन दुःखेन रोदिषि ।विप्ररूपं तु तं प्राह मम पुत्रशतद्वयम् ॥५२॥युद्धेन नष्टं विप्रेन्द्र! शोचामि ताँश्च रोदिमि ।इन्द्रः प्राह पुरा राज्ञा त्वया यज्ञः सुतेष्टिकः ॥५३॥विहितो मामनादृत्य मम दुःखं त्वया कृतम् ।वैरं निर्यापितं राज्ञि मया मा रोदनं कुरु ॥५४॥श्रुत्वा राज्ञी निपपात पादयोः क्षम चाह वै ।इन्द्रो वरं ददौ तस्यै जीवन्तु के सुतास्तव ॥५५॥सा प्राह स्त्रीसमुत्पन्ना जीवन्तु मम पुत्रकाः ।इन्द्रः प्राह कथं पूर्वे न जीवन्तु वदाऽत्र मे ॥५६॥-म'- साऽऽह स्त्रियाः परः स्नेहोऽपत्येषु न नरस्य वै ।तस्मादुत्तरजाता मे सर्वे जीवन्तु पुत्रकाः ॥५७॥इन्द्रः प्राह शते द्वे वै सर्वे जीवन्तु ते सुताः ।कृपया जीवयाम्येतान् राज्यं कुर्वन्तु ते मिथः ॥५८॥इत्युक्ता जीविताः सर्वे सत्यवक्त्र्या सुपुत्रकाः ।अथेन्द्रो वरदानार्थं पुनः प्राह स्त्रियं प्रति ॥५९॥वरं वृणु नरत्वं नारीत्वं वा यत् प्रकांक्षसे ।स्त्री प्राह मे सदा स्त्रीत्वं चास्तु नैव नरत्वकम् ॥६०॥इन्द्रः प्राह कथं स्त्रीत्वे विशेषाभिनिवेशनम् ।साऽऽह स्त्रिया नरयोगे प्रीतिरभ्यधिका सदा ॥६१॥कामसुखं च दशधा तुष्यामि स्त्रीस्वरूपिणी ।तथाऽस्त्विन्द्रो वरं दत्वा ययौ दिवं च सा सती ॥६२॥स्त्रीरूपा स्वर्वहं कान्तं भङ्गास्वनाऽप्यसेवत ।पप्रच्छ स्त्रीस्वभावाँश्च कान्तं कान्तो जगाद ताम् ॥६३॥स्त्रियो मूलं हि दोषाणां लघुचित्ता विनाशिकाः ।पञ्चचूडाऽप्सरोवरा नारदायाऽऽह पृच्छते ॥६४॥नारद! स्त्रीस्वभावोऽस्ति चंचलः पुरुषाश्रयः ।अबला चेहते कान्तं रामकं रमणोत्सुकम् ॥६५॥कुलीना रूपवत्यश्च नाथवत्यश्च योषितः ।मर्यादासु न वर्तन्ते दोषोऽयं प्रमदाजने ॥६६॥स्त्रीत्वं सदाऽभिवाञ्च्छन्ति पुरुषाऽधीनताकरम् ।गृहराज्यं स्त्र्यधीनं वै पुमान् स्त्र्यधीन एव च ॥६७॥अप्रयत्नाः सदा भोग्यजातानि भुञ्जते स्त्रियः ।पूज्यन्ते मानमर्हन्ति मोहगर्वं विदन्ति च ॥६८॥आयोद्यमादिनिश्चिन्ताः सदा चेच्छन्ति भोग्यताम् ।स्त्रीत्वमिच्छन्ति सौभाग्यं दार्ढ्यमेतत् स्त्रियाः सदा ॥६९॥अनुकूलानृद्धिमतः सुरूपान् स्ववशे स्थितान् ।परानन्तरमासाद्य भुंजते स्वान् विहाय च ॥७०॥अयं दोषो हि नारीणां महानास्ते ह्यगोचरः ।स्त्रियं हि यः प्रार्थयते ददातीष्टं पुनः पुन ॥७१॥इषञ्च कुरुते सेवां निर्लज्जास्तं हि भुञ्जते ।नैव मिलति यावद्वै विमार्गवाहको नरः ॥७२॥भयं नैव कुटुम्बस्य मर्यादा नेतरस्य च ।राजदण्डभयं चेन्न व्यवायं यान्ति तास्तदा ॥७३॥नाऽगम्योऽस्ति नरः कोऽपि नाऽऽसां वयसि गोरवम् ।न रूपादौ दार्ढ्यभावः पुमानित्येव भुञ्जते ॥७४॥या रक्ष्यन्ते सर्वदानैः सर्वमानसपूरणैः ।तथापि सम्प्रसज्जन्ते कुब्जाऽन्धजडवामनैः ॥७५॥ कामदोषो महानासां प्रवर्तन्ते मिथः स्त्रियः ।चलस्वभावा दुष्पूर्या दुर्नियम्याः स्वभर्तृभिः ॥७६॥कामानामपि दातारं मनसां प्रियकारिणम् ।पालकं न गणयन्ति कान्तं नार्यो ह्यनर्गलाः ॥७७॥रत्यनुग्रह एवाऽऽसां मुख्यः पुमर्थ इष्टकृत् ।धर्मार्थमोक्षास्तमनु मताः स्त्रीणां तु यौवने ॥७८॥साहसं कपटं मौढ्यं लोभो गुप्तिर्हठोऽनृतम् ।अशौचं क्रूरता चापि दोषा भवन्ति योषिति ॥७९॥आश्रयः स्वीयता सेवा तितिक्षा प्राणदायिता ।मार्दवं स्निग्धता वश्यं गुणा ह्येते तु योषिति ॥८०॥दुःखे दुःखं सुखे सौख्यं हृदयैक्यं धनैकता ।आत्मनिवेदिता दास्यं नारीषु प्रायशो गुणाः ॥८१॥धर्मवृत्तिर्व्रतवृत्तिश्चास्तिक्यं पूजनं हरेः ।आतिथ्यं स्वजनकीर्तिर्गुणाः श्रेष्ठा हि योषिति ॥८२॥दानं श्रैष्ठ्यं कुटुम्बस्य कान्तनिन्दाश्रुतिर्न च ।क्षमा पालनशक्तिश्च गुणाः सन्ति हि योषिति ॥८३॥गृहकार्यकारिणीत्वं चोपार्जनमतिस्तथा ।व्ययभीरुत्वमेवाऽपि गुणाः सन्ति हि योषिति ॥८४॥रासनं च सुखं स्वादश्चांगमर्दनमित्यपि ।समुद्विग्नमनःशान्तिर्गुणाः सन्ति हि योषिति ॥८५॥वंशविस्तारकारित्वं बालरक्षा गृहाऽवनम् ।परोपकारशीलत्वं गुणाः सन्ति हि योषिति ॥८६॥हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च ।उद्विग्नं प्रियवाक्यैश्च सन्तोषयन्ति मायया ॥८७॥वानरीणां तु चाञ्चल्यं मार्जारीणां तु गुप्तता ।कलहश्चक्रवाकीनां मूषिकाणां चरित्रता ॥८८॥पिपीलिकानां चयनं मार्गणं गृध्रपक्षिणाम् ।सूर्योदयस्य प्राकट्यं ह्यानन्दस्य तु मूर्छना ॥८९॥शोको मृतैकपुत्रस्य मौर्ख्यमुष्ट्रस्य वै तथा ।मार्दवं चोरणस्यापि तैक्ष्ण्यं क्षुरस्य वै तथा ॥९०॥एते धर्माः प्रमदासु वर्तन्ते वै विशेषतः ।पूर्वे सर्गे तदा नार्यः साध्व्यः सत्य इहाऽभवन् ॥९१॥स्वयं प्रजा देवसमा आसन् यान्ति दिवं हि ताः ।ततो मानवमोहार्थमसाध्वीर्विश्वमोहिनीः ॥९२॥ब्रह्माऽसृजत् क्रियाहीनाः कामक्रोधपरायणाः ।शय्यासनमलंकारमन्नपानमनार्यताम् ॥९३॥दुर्वाग्भावं चोग्ररतिं ददौ स्त्रीभ्यः प्रजापतिः ।तैर्धर्मैः रक्षितुं शक्या नैव नार्यः कथंचन ॥९४॥तथापि लक्ष्मि जायन्ते तपोव्रतोपवासनैः ।सतां सेवादिभिर्नार्यः पवित्रा लोकपावनाः ॥९६॥कृष्णपातिव्रत्यपराः साध्व्यो भवन्ति योगतः ।दोषान् दग्ध्वा हृषीकावन्मुक्ता जायन्त एव ताः ॥९६॥यत्र क्वापि कुले जाता विप्राश्रिता द्विजास्तु ताः ।साध्वीदीक्षान्वितास्तास्तु साध्व्यः सत्यो द्विजाश्च ताः ॥९७॥योगदीक्षान्विता विप्रा योगिन्यस्ता हि देवताः ।सांख्ययोगान्वितास्तास्तु मुक्तान्यो ब्रह्मयोषितः ॥९८॥हरेः पत्नीत्वमापन्ना ब्राह्मण्यस्ता हरिप्रियाः ।त्यागिन्यस्त्यागमापन्ना ब्रह्मप्रियाः सदा मताः ॥९९॥गोपालकन्या ब्रह्माणं प्राप्य गायत्रिकाऽभवत् ।पूज्या वन्द्या ब्राह्मणी सा ब्रह्माणी लोकमातृका ॥१००॥श्वपचस्य सुता प्राप्य वसिष्ठं ब्राह्मणी शुभा ।आर्षी चाऽरुन्धतीनाम्नी पूज्या पतिव्रताऽभवत् ॥१०१॥कन्यास्तु बहुवर्णानां कृष्णं प्राप्य च गोपिकाः ।कार्ष्ण्यो जाताः कृष्णरूपा स्त्रियः शुद्ध्यन्ति योगतः ॥१०२॥राक्षस्यो देवमासाद्य देव्यो भवन्ति सर्वथा ।पौलोमी वै महेन्द्रं तु समासाद्य हि देवता ॥१०३॥देव्यपि देवयानी च क्षत्रमासाद्य मानवम् ।ययातेर्गृहिणी भूत्वा मानवी सा व्यजायत ॥१०४॥दक्षपुत्र्यश्च काश्चित्तु चान्द्र्यो देव्योऽभवन् दिवि ।धर्मपत्न्यो देवताश्च ब्राह्मण्यः ऋषियोषितः ॥१०५॥मनुपत्न्यस्तु मानव्यः काश्यप्यो बहुजातयः ।जातास्तस्मान्न वै स्त्रीणां जातित्वं नियतं क्वचित् ॥१०६॥किमत्र बहुनोक्तेन मम पत्न्योऽर्वुदाऽर्बुदाः ।सर्वभूस्वःसत्यमद्वर्जनपातालदेहिजाः ॥१०७॥सर्वजातिसमुत्पन्ना मद्योगाद् विप्रजातयः ।यज्ञोपवीतधारिण्यो ब्रह्मप्रिया रमा इव ॥१०८॥भवत्य सन्ति चात्रैवाऽक्षरक्षेत्रे मया सह ।ब्राह्मण्यः सर्वपूज्या वै दिव्या मद्रूपधारिकाः ॥१०९॥सर्वा वै पारमेश्वर्यः पौरुषोत्तम्य ईशिकाः ।पावन्यः सर्वसृष्टीनां श्रीभूगंगा इव प्रियाः ॥११०॥तस्माल्लक्ष्मि! मम योगान्नारायणी यथा भवेत् ।देवयोगाच्च देवी वै साधवी साधुयोगतः ॥१११॥विप्रयोगाच्च विप्राणी ब्राह्मणी ब्रह्मयोगिनी ।मुक्तयोगाच्च मुक्तानी सिद्धिः सिद्धप्रयोगिणी ॥११२॥गणयोगाच्च गणिका योगियोगाच्च योगिनी ।ईशयोगादीश्वराणि मनोर्योगात्तु मानवी ॥११३॥नार्यश्चैवं प्रजायन्ते सत्ययोगात् सती सदा।तत्र सर्वत्र श्रेष्ठोऽहं श्रीपतिः पुरुषोत्तमः ॥११४॥मम योगेन च पौरुषोत्तमीत्वं परात्परम् ।प्राप्तव्यं मां भजित्वैव साध्वीत्वं साधुसेवया ॥११५॥मोक्ष एव भवेद् यस्मात् तद्गृहं शाश्वतं सदा ।अशाश्वतं विहायैव शाश्वतं समुपाश्रयेत् ॥११६॥पठनाच्छ्रवणादस्य ब्राह्मीत्वं चेह जायते ।भुक्तिर्मुक्तिर्भवेच्चापि नारायणीत्वमीयते ॥११७॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्तानेऽन्यजातीनामपि गुणव्रताचारदीक्षावरशापलग्नादियोगेन तत्तज्जातिपरिवर्तनं ब्राह्मण्यं च जायतेऽत्रार्थेऽनेकनिदर्शनानि भङ्गास्वननृपस्य नारीत्वे निदर्शनमित्यादिनिरूपणनामा द्वानवतितमोऽध्यायः ॥९२॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP