संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १२२

द्वापरयुगसन्तानः - अध्यायः १२२

लक्ष्मीनारायणसंहिता


श्रीनारायणीश्रीरुवाच-
परमेश कृपासिन्धो महालक्ष्मीजनिं शुभाम् ।
प्राकट्यं च निमित्तं च वैभवं मण्डलानि च ॥१॥
श्रुत्वा श्रुत्वा प्रहृष्यामि पुत्र्यां स्पृहयते मनः ।
धन्या सा जननी यस्याः सुता त्वेतादृशी भुवि ॥२॥
यद्गृहे परमेशानी महालक्ष्मीर्विराजते ।
महालक्ष्मीसमा पुत्री केन पुण्येन लभ्यते ॥३॥
व्रतेनाऽऽराधनेनापि सेवया वा जपेन वा ।
दानेन तपसा यज्ञैः किंवा भक्त्या हि मे वद ॥४॥
श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि बहून्यत्र कारणानि भवन्ति वै ।
प्रागदत्वेह केनापि लभ्यते नहि किञ्चन ॥५॥
कर्मबन्धातुयोगेन लभ्यन्ते सुतपुत्रिकाः ।
कर्मतन्तुप्रवाहोऽयं लोको वंशानुवंशवान् ॥६॥
पिता पुत्रस्वरूपो वै जायतेऽणोर्निजात्मकात् ।
माता पुत्रीस्वरूपा च जायतेऽणोर्निजात्मकात् ॥७॥
पूर्वं येन प्रदत्तं वै कन्यादानं तु तस्य वै ।
सत्पुण्यप्रेरिता यत्र क्वापि प्रजायतेऽपरा ॥८॥
बालिका स्वं भवत्येव बालकोऽन्यत्र प्राक् तथा ।
तयोर्विवाहो लोकेऽत्र भार्या सा विधिना भवेत् ॥९॥
एवं कन्योद्भवो लक्ष्मि पतिपुण्येन जायते ।
पत्युः ऋणं श्वशुरस्य श्वश्र्वाश्च प्राग्भवं भवेत् ॥१०॥
तेनर्णेन भवेत् कन्या वर्धिता दीयते ततः ।
एवं पारक्यमेवापि धनं कन्या निगद्यते ॥११॥
ऋणानुबन्धा पुत्रीयं कथिता ते रमे! त्विह ।
प्रायशः संभवन्त्येव पत्युः ऋणं हि कन्यकाः ॥१२॥
दातुर्दानफलं स्याद्वै पत्युः प्रागर्पितस्य तत् ।
दातैव फलभोक्तेति भोक्ता दाता पुरा मतः ॥१३॥
येन राज्ञा हि दीयन्ते कन्यादानानि सद्व्ययैः ।
येषां केषामपि लक्ष्मि! कन्यानां लग्नकानि वै ॥१४॥
धनव्ययैः कारयन्ति दापयन्ति हि कन्यकाः ।
राजानस्ते त्विह लोके बहुस्त्रीका भवन्ति हि ॥१५॥
यद्वा स्वर्गे बहुस्त्रीको भवत्येव सुरो महान् ।
बह्वीभिरप्सरोभिश्च सेव्यमानः प्रमोदते ॥१६॥
कन्यादो विन्दते पत्नीं नान्यथा तु कदाचन ।
यावन्त्यस्ताः प्रदीयन्ते विना मूल्यं हि कन्यकाः ॥१७॥
तावन्त्यस्ता हि लभ्यन्ते पत्न्यस्तावद्गुणान्विताः ।
पत्नीदो लभते पत्नीं पत्नीदानं कृते युगे ॥१८॥
त्रेतायां द्वापरे धर्मो नातिश्रेयान् क्वचिद् वरः ।
पातिव्रत्यं परो धर्मश्चैकपतित्वमुत्तमम् ॥१९॥
ब्रह्मचर्यव्रतं प्रोक्तमेकपतित्वमुत्तमम् ।
तद्धानिः स्वांगनादाने तस्माद् दानं स्त्रिया न वै ॥२०॥
बहुसामर्थ्यसंयुक्ते तैजसे पुरुषे क्वचित् ।
पत्नीदानं निराबाधं हितकृद् देयमित्यपि ॥२१॥
यत्र धर्मो न लुप्येत कन्याभावोऽपि यस्य तु ।
यस्य बह्व्यः स्त्रियः सन्ति पत्नी देया हि तेन तु ॥२२॥
तत्र पत्नीप्रदानस्य फलं पत्नी भवान्तरे ।
पुत्रहीनस्य धर्मोऽयं मतः पुत्रफलाशया ॥२३॥
श्रेष्ठस्तु परकन्याया दानं द्रव्यसहायता ।
कर्तव्या पितृवत्तेन फलं पत्नीं लभेत् स तु ॥२४॥
एष एव विधिः श्रेष्ठः पत्नीदानं न चोत्तमम् ।
कन्यादानफलं पत्न्यश्चेति सर्वैः प्रवर्तितम् ॥२५॥
पितृसेवा श्राद्धदानं फलं पुत्रात्मकं स्मृतम् ।
पुत्रेष्टिः पुत्रफलदा पुत्रीष्टिः पुत्रिकाप्रदा ॥२६॥
पुत्रोदानं शुभं देयं नाऽशुभं तु कदाचन ।
द्रव्याऽऽदानेन दानं वै ह्यशुभं फलदं न तत् ॥२७॥
शुभं विभूषिता देया द्रव्याऽऽदानविवर्जिता ।
अन्यकन्यां सुयोग्यां च सर्वदोषविवर्जिताम् ॥२८॥
मातापित्रोस्तु संवादं कृत्वा दत्वा धनं महत् ।
आत्मीकृत्याऽथ संस्नाप्य दत्वा भूषाम्बराणि च ॥२९॥
शृंगारयित्वा शृंगारैर्गन्धमाल्यैः समर्चयेत् ।
निमित्तानि समीक्ष्याऽथ गोत्रनक्षत्रकादिकान् ॥३०॥
अन्विष्य सद्वरं कन्यायोग्यं योग्यगुणादिकम् ।
उभयोश्चित्तमालोक्य प्रेमाख्यं चेत्परस्परम् ॥३१॥
उभौ सम्पूज्य विधिना विवाहोत्सवमण्डपे ।
दातव्या सद्वरायैव ब्रह्मिष्ठाय तपस्विने ॥३२॥
विदुषे सद्गुणाढ्याय कन्यापालनशक्तये ।
दासदासीधनभूषाम्बरवाहनमर्पयेत् ॥३३॥
क्षेत्रमुद्यानमर्थांश्च धान्यानि वाटिका दिशेत् ।
गृहं चोपकरणानि दिशेच्च दापयेत्तथा ॥३४॥
कामधेनुं च महिषीं गजाश्ववृषभान् दिशेत् ।
जीविकां प्रदिशेत् सर्वां योग्यां युगलपोषिणीम् ॥३५॥
एवं दातुर्हि कन्याया दानस्य धनिनस्त्विह ।
पुण्यजाः स्युरसंख्या वै भोगाः स्वर्गेऽपि वै तथा ॥३६॥
देहे यावन्ति रोमाणि कन्यायाः सन्ततौ पुनः ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥३७॥
तत्रैव मण्डपे कार्यं लक्ष्मीदानमनुत्तमम् ।
सर्वसम्पत्करं सौख्यमहदैश्वर्यवर्धनम् ॥३८॥
श्रीलक्ष्मीमतुलां कृत्वा हिरण्येन यथाविधि ।
सहस्रेण तदर्धेन तदर्धार्धेन वा पुनः ॥३९॥
अष्टोत्तरशतेनापि सर्वलक्षणसंयुताम् ।
सर्वशृंगारितां लक्ष्मीं सर्वालंकारशोभिताम् ॥४०॥
चतुर्भुजां शुभां लक्ष्मीं महालक्ष्मीं कराऽष्टकाम् ।
विन्यस्य मण्डले तस्या दक्षे विष्णुं हरिं तथा ॥४१॥
अर्चयित्वोपचाराद्यैः राजभोगैः श्रियं हरिम् ।
होमोत्तरं पूजयित्वा भोजयित्वा च पाययेत् ॥४२॥
ताम्बूलकं ततो दत्वा नीराजयेन्नमस्क्रियात् ।
दण्डवत्कुसुमानां चांऽजलिं दत्वा ततः परम् ॥४३॥
दद्याल्लक्ष्मीं सुपात्राय साधवे ब्रह्मचारिणे ।
जलसाक्ष्ये वह्निसाक्ष्ये विप्रसाक्ष्ये प्रकाशने ॥४४॥
गुरोः साक्ष्ये सूर्यसाक्ष्ये देवसाक्ष्ये हरेः पुरः ।
एवं लक्ष्म्या दानकर्तुः सम्पत् सर्वा प्रजायते ॥४५॥
स्वर्णचम्पकवर्णाभाः पत्न्यो भवन्ति तत्फलम् ।
कन्यकाः श्रेष्ठपुत्राश्च स्वसारश्च भवन्त्यपि ॥४६॥
दासा दास्यस्तथा भृत्या भवन्ति परिचारिकाः ।
स्वर्गेऽप्सरसां स्वामी स्यान्मोक्षे शक्तिपतिः प्रभुः ॥४७॥
महालक्ष्मीप्रदानेन सम्राट् स्याल्ललनापतिः ।
कम्भराश्रीप्रदानेन सर्वसौख्यान्वितः स्वराट् ॥४८॥
युगलस्य प्रदानेन युगलात्मा प्रजायते ।
पुरा युगलजन्मानोऽभवन् महर्षयोऽखिलाः ॥४९॥
ततो मिथुनभावाढ्या सृष्टिर्व्यस्ताऽभवत् खलु ।
पुराऽभवद्धि दाम्पत्यमार्षयोः सहजन्मनोः ॥५०॥
कालान्तरे भिन्नकुलजातयोर्वै विवाहनम् ।
सर्वसृष्ट्युपकारार्थं स्नेहसंकलनार्थकम् ॥५१॥
ओतप्रोतादिलाभार्थं व्यधुः सर्वे महर्षयः ।
धर्मा एव ह्यधर्माः स्युरधर्मास्तु वृषाः पुनः ॥५२॥
कालान्तरे प्रजायन्ते देवमानवसत्स्वपि ।
पशुधर्माः पक्षिधर्माः कालान्तरे तु मानवाः ॥५३॥
ऋषिधर्मा देवधर्माः कालान्तरे तु मानवाः ।
दैत्यदानवधर्माश्च कालान्तरे तु मानवाः ॥५४॥
भवन्त्येव पुनस्तेऽपि विपरीताः पुनः पुनः ।
अतो दानफलं तत्र तत्राऽऽप्यते यथावृषम् ॥५५॥
दत्तमेव भवेत् प्राप्यं नदत्तं न कदाचन ।
एवं कुमारदानस्य पतिप्राप्तिः फलं शुभम् ॥५६॥
केतुमाले कुमाराणां दानं कुर्वन्ति मातरः ।
गौर्यस्तेनाऽऽप्नुवन्त्येव स्वामिनः सुस्वरूपिणः ॥५७॥
स्वसृदानेन चाप्यन्ते स्वसारः शोभिताः शुभाः ।
मातृसेवाफलं श्रेष्ठं सन्मात्रङ्के जनुर्भवेत् ॥५८॥
एवं धर्मा भवन्त्येव निगूढा कमले! भुवि ।
अतत्त्वज्ञा न जानन्ति मुह्यन्ति तत्र तत्र च ॥५९॥
आप्नुवन्ति परं कष्टं क्लेशं कुर्वन्ति वै तथा ।
धर्ममधर्मं मत्वैव दानं कुर्वन्ति नैव ह ॥६०॥
भवत्यो मम पत्न्योऽपि पूर्वदत्तफलं हि तत् ।
शृणु लक्ष्मि तथाऽन्यच्च पुत्रीप्राप्तौ तु कारणम् ॥६१॥
व्रतं पुत्रीव्रतं नाम कम्भराश्रीव्रतं हि तत् ।
यदा लोके समानो वै भागोऽधिकार इत्यपि ॥६२॥
दायभागः समानश्च पुत्रपुत्र्योः पुराऽभवत् ।
तदा पुत्रीव्रतं माता पुत्रेष्टिं चाऽकरोत् पिता ॥६३॥
सर्वलोकेषु सर्वत्र धर्मश्चाऽयं परोऽभवत् ।
मम माता कम्भराश्रीः पुत्र्यर्थं पुत्रिकाव्रतम् ॥६४॥
अकरोत्तेन सन्तोषानाम्नी पुत्री ततोऽभवत् ।
वासुदेवी स्वयं लक्ष्मीः पुत्रीरूपा व्यजायत ।
या प्रोक्ता श्रीकृष्णनारायणस्वसा सुशीलिनी ॥६५॥
श्रीनारायणीश्रीरुवाच-
कीदृशं तद् व्रतं प्रोक्तं पुत्रीव्रतं मखात्मकम् ।
आद्यन्तं सफलं स्याद् यत् तत्तथा मे विधिं वद ॥६६॥
श्रीपुरुषोत्तम उवाच-
शृणु पुत्रीव्रतं माता कम्भरा यच्चकार ह ।
महालक्ष्मीर्ललिताश्रीः सपुत्री सा ततोऽभवत् ॥६७॥
फाल्गुनस्याऽसिते चाऽऽद्ये पक्षे वै पञ्चमीतिथौ ।
पुत्रीव्रतं प्रकर्तव्यं मात्रा सौभाग्यसम्पदा ॥६८॥
चतुर्थ्यास्तु निशायां वै दुग्धपानपरा भवेत् ।
ब्रह्मचर्यपरा स्याच्च भवेद् भूतलशायिनी ॥६९॥
दुष्टस्वप्नं यथा न स्यात्तथा निद्रां विधाय वै ।
ललिताश्रीमहालक्ष्मीं स्मृत्वोत्थाय क्षणं च ताम् ॥७०॥
ध्यात्वा चतुर्भुजां लक्ष्मीं स्वर्णचम्पकरोचनाम् ।
युवतीं च हरिद्वर्णाम्बरां स्वर्णविभूषिताम् ॥७१॥
आलिप्तां चन्दनाद्यैश्च गन्धसारसुगन्धिताम् ।
प्रसन्नवदनां पद्मगर्भाभकरपत्तलाम् ॥७२॥
रूपानुरूपावयवां चन्द्राभमुखशोभिताम् ।
ताम्बूलचर्वणरक्ताधरशोभाविराजिताम् ॥७३॥
यौवनपूरसंशोभद्विग्रहां पुष्टरूपिणीम् ।
ध्यात्वा स्नात्वा ततः स्वर्णमूर्तौ तां पूजयेत् सती ॥७४॥
संकल्पयेन्महालक्ष्मि! पुत्र्यर्थं पञ्चमीव्रतम् ।
करोम्यद्य निराहारं निर्विघ्नं पूर्णमस्तु मे ॥७५॥
तन्निमित्तं पूजनं ते मातः करोमि शोभनम् ।
आगच्छाऽत्राऽऽसने तिष्ठ गृह्ण पाद्यं शुभार्घ्यकम् ॥७६॥
आचमनं ततः पञ्चामृतस्नानं विधेहि च ।
अभिषेकं गन्धिजलैर्गन्धिसारयुतैः कुरु ॥७७॥
वस्त्राभरणभूषालंकारशृंगारकं वह ।
सौभाग्यद्रव्यसिन्दूरान् पुष्पहारान् प्रयुक्ष्व च ॥७८॥
धूपं दीपं च नैवेद्यं दुग्धसारं च पायसम् ।
मिष्टान्नानि विचित्राणि भुंक्ष्व शाकफलानि च ॥७९॥
जलपानं ततस्ताम्बूलकं स्वीकुरु चोत्तमम् ।
आरार्त्रिकं पुष्पमालां प्रार्थनां स्वीकुरु ध्रुवाम् ॥८०॥
प्रदक्षिणां नमस्कारान् दण्डवत् स्वीकुरु त्वथ ।
देहि पुत्रीं त्वत्सरूपां सर्वसौभाग्यशालिनीम् ॥८१॥
सर्वांगशोभनां रम्यां पद्मिनीं मन्थरागतिम् ।
सेविकां तोषहेतुं च दिव्यर्द्धिं शान्तिचन्द्रिकाम् ॥८२॥
दीर्घजीवां च नीरोगां सम्पदामीश्वरीं सतीम् ।
वंशशोभां पतिपुत्रभाग्यवतीं च सद्गुणाम् ॥८३॥
परमेश्वरभक्तां ते भक्तां देहि सुपुत्रिकाम् ।
इत्यभ्यर्थ्य ततो भक्तिं कुर्यात् कीर्तनरूपिणीम् ॥८४॥
जपमालां यथाशक्त्यावर्तयेद् भक्तिमानसा ।
मध्याह्नेऽपि सुनैवेद्यं जलं ताम्बूलकं दिशेत् ॥८५॥
प्रस्वापयेत्ततश्चोत्थापयेत् फलं समर्पयेत् ।
जलं समर्पयेद् रात्रावारार्त्रिकं सुपूजनम् ॥८६॥
कुंकुमाऽबीरकस्तूरीकर्पूरकुसुमादिभिः ।
पायसाद्यैर्भोजनं च कारयित्वाऽथ नर्तनम् ॥८७॥
कीर्तनं गायनं चापि चरेज्जागरणं निशि ।
व्रतकर्त्री ततः प्रातः स्नात्वा संस्नाप्य मातरम् ॥८८॥
महालक्ष्मीं पूजयित्वा संभोज्याऽऽरार्त्रिकोत्तरम् ।
देहि पुत्रीं व्रतं पूर्ण कृतं क्षमां कुरु व्रते ॥८९॥
अपूर्णं पूर्णतां यातु त्वत्प्रतापात् परेश्वरि ।
इत्यभ्यर्थ्य नमस्कृत्वा विसर्जयेत्ततः परम् ॥९०॥
पतिं स्वं भोजयित्वा तत्पादांगुष्ठजलामृतम् ।
लक्ष्मीप्रसादसहितं पीत्वा भोजनमाचरेत् ॥९१॥
दद्याद् दानानि विधिना यथाशक्ति यथाधनम् ।
कन्यायोग्याम्बरभूषाशृंगारादि समस्तकम् ॥९२॥
कन्यकां भोजयेदष्टाऽवरां दद्यात् सुदक्षिणाम् ।
एवं कुर्याद्व्रतं लक्ष्मि पुत्रीप्राप्तिप्रदायकम् ॥९३॥
कृष्णे यथा तथा शुक्ले चतुर्विंशतिपञ्चमीः ।
कुर्यान्निरुक्तरूपेण व्रतिनी पुत्रीदायिनीः ॥९४॥
स्वप्ने त्वागत्य सा ब्रूयान्महालक्ष्मीः सुकन्यका ।
पुत्री ते भाविनी साध्वि वर्षव्रतोत्तरं ततः ॥९५॥
उद्यापनं प्रकुर्याच्च शय्यादानसमन्वितम् ।
महालक्ष्मीप्रपूजां च कारयेत् सर्वभद्रके ॥९६॥
महोत्सवं कारयेच्च धेनुं दद्यात् सवत्सिकाम् ।
कन्यादानं दापयेच्च यथाशक्ति यथाधनम् ॥९७॥
नमो लक्ष्म्यै नमो धिष्ण्यै नमः पुत्र्यै नमः श्रियै ।
रमायै ललितायै च महालक्ष्म्यै नमोऽस्तु ते ॥९८॥
यथर्तुपुष्पमालाद्यैर्यथर्तुफलसद्रसैः ।
प्रीयतां मे महालक्ष्मि पुत्रीदात्री च मे भव ॥९९॥
एवमाराधयेद् देवीं कम्भराश्रीं सदा व्रते ।
वित्तशाठ्यं न वै कुर्यात् कन्या शठा न जायते ॥१००॥
गर्भिणी सूतिका वापि रोगिणी शुद्धिवर्जिता ।
आपद्गता स्त्रियाऽन्यथा कारयेत् प्रयता स्वयम् ॥१०१॥
अतिदुर्भाग्ययुक्ताया वर्षत्रयव्रतैर्ध्रुवम् ।
पुत्रीप्राप्तिभवेदेव ललिताश्रीकृपाकणात् ॥१०२॥
पुत्रीप्रसवमालोक्य व्रतं देव्यै समर्पयेत् ।
व्रतं पुत्रीफलान्तं वै कर्तव्यं चिरमेव हि ॥१०३॥
आरम्भः फाल्गुने कृष्णे समाप्तिः पुत्रिकाऽर्जने ।
कम्भराश्रीमहालक्ष्म्या कृतमासीत् त्विदं व्रतम् ॥१०४॥
सन्तोषाख्या वासुदेवी लक्ष्मीस्तेन सुताऽभवत् ।
इत्येतत् कथितं लक्ष्मि व्रतं परमपावनम् ॥१०५॥
पुत्रीव्रतं नरो नारी कृत्वा पुत्रीमवाप्नुयात् ।
समुद्रः कृतवानेतल्लक्ष्मीं पुत्रीमवाप सः ॥१०६॥
सदाशिवः कृतवाँश्च जयां पुत्रीमवाप सः ।
ब्रह्मा व्रतं कृतवाँश्च ललितां प्राप वै सुताम् ॥१०७॥
दिशो व्रतं कृतवत्यश्चापुः पद्मावतीं सुताम् ।
सूर्यो व्रतं कृतवाँश्च प्रभां पुत्रीमवाप ह ॥१०८॥
कल्पद्रुमा व्रतं कृत्वा श्रीं पुत्रीमापुरेव ते ।
दिव्या विभूतिरेवैतत् कृत्वाऽऽप माणिकीं सुताम् ॥१०९॥
वैराजी च व्रतं कृत्वा कमलामाप पुत्रिकाम् ।
ख्यातिश्चैतद् व्रतं कृत्वा प्राप श्रीभार्गवीं सुताम् ॥११०॥
धरणिस्तद्व्रतं कृत्वा प्राप पद्मावतीं सुताम् ।
एवमेतन्नान्यथाऽस्ति सफलं तद्गतं ध्रुवम् ॥१११॥
कन्यार्थी निजपत्नीं संगच्छेद्वै पञ्चमेऽथवा ।
सप्तमे नवमे चैकादशे त्रयोदशे च वा ॥११२॥
पञ्चदशे शुभे काले दिनसंख्यागते निशि ।
बीजदाने कन्यका सा जायते गर्भसंभवा ॥११३॥
बीजदाने वायुदेवो वामपार्श्वे गतिप्रदः ।
तदा कन्या भवेदेव दक्षपार्श्वे कुमारदः ॥११४॥
एवमेतन्न सन्देहस्ततो ज्ञात्वा व्रजेदृतुम् ।
पठनाच्छ्रवणादस्य वंशदं सत्फलं भवेत्। ॥११५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने पुत्रीप्राप्त्यर्थं कन्यादानं लक्ष्मीदानं पुत्रीव्रतं चेत्यादिनिरूपणनामा द्वाविंशत्यधिकशततमोऽध्यायः ॥१२२॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP