द्वापरयुगसन्तानः - अध्यायः २१३
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणुनारायणीश्रि त्वं चर्मकारस्य शोभनाम् ।
कथां नाम्ना मंगलस्य मम भक्तिसमन्विताम् ॥१॥
भक्तो मंगलदेवाख्यश्चर्मकारोऽतिसेवकः ।
अभवद् द्रोणिकापुर्यां कुटुम्बी चर्मकार्यकृत् ॥२॥
महिषीणां गवां सारंगाणां केसरिणां तथा ।
व्याघ्राणां करिणां चान्यजातीनां पशुवर्ष्मणाम् ॥३॥
मृतानां चर्मणां शुद्धिं संस्कारैः प्रकरोति सः ।
विक्रीणाति सुमूल्यैश्च चर्माणि संस्कृतानि वै ॥४॥
चर्मणां च पवित्राणामासनानि विधाय तु ।
मृगाणां च मृगेन्द्राणां साधुभ्यः स ददात्यपि ॥५॥
साधुसमागमं नित्यं गत्वा साधुमठेऽन्वहम् ।
करोति चत्वरादीनां मार्जनं गोपुरादिषु ॥६॥
सतां पादरजो धृत्वा मस्तके हृदये मुखे ।
देहे स्नात्वा रजोभिश्च धूलीष्वपि लुठत्यपि ॥७॥
अहो भाग्यं सतां पुण्यरजसा स्नामि चर्मकृत् ।
सतां प्रसन्नतां लब्ध्वा प्रयास्यामि परं पदम् ॥८॥
एवं वदन् महिमानं पादजलं पिबत्यपि ।
सतामुच्छिष्टमन्नं च भुंक्ते पत्रावलिस्थितम् ॥९॥
अशुद्धश्चर्मकृद्देहः शुद्धः प्रसादतः सताम् ।
सर्वपापानि नष्टानि चर्मकृत्त्वं गतं मम ॥१०॥
अहो सन्तः अहो कृष्णः अहो जन्म ममाऽत्र च ।
नीचजातावधिकोहं भाग्यवान् सेवयाऽस्मि वै ॥११॥
एवं जानन् महिमानं कृष्ण कृष्ण स्मरत्यपि ।
चर्मसु श्रीकृष्णनारायणनाम लिखत्यपि ॥१२॥
ददाति दाने साधुभ्यः श्रेयः स्वं चार्थयत्यपि ।
चर्मजन्योपकरणान्यन्यान्यपि विधाय च ॥१३॥
विक्रीणाति लिखित्वा श्रीकृष्णनारायणाभिधाम् ।
गृहांगणे तोरणे चालिखत् कृष्णनरायणम् ॥१४॥
सर्वं कृष्णमयं तस्य भक्तस्य वर्तते रमे ।
आपणोऽपि कृतस्तेन कृष्णनारायणापणः ॥१५॥
चित्रितश्चाभितो भित्तिद्वारतोरणभूमिषु ।
राधाकृष्ण हरे लक्ष्मीनारायण रमापते ॥१६॥
वल्लभ प्रभो कमलापते श्रीकंभराजने ।
गोपालबालक श्रीमन्नारायण परेश्वर ॥१७॥
भगवन्नघहन् पुण्यं चावहन् चान्तरे स्थित ।
एवं नामभिः सर्वत्र तथा च प्रतिमादिभिः ॥१८॥
चित्रितश्चापणः सर्वो गृहं च चित्रितं तथा ।
एतादृशोऽयं भक्तो मे स्नात्वा पूजां करोति मे ॥१९॥
समर्प्य धूपदीपादि नैवेद्यं फलमित्यपि ।
ताम्बूलं जलमित्यादि परिहारं करोति च ॥२०॥
भुक्त्वा प्रसादजं चान्नं तत उद्यममेति हि ।
कर्मचारास्तस्य भृत्याः सर्वेऽपि पूजनं मम ॥२१॥
कृत्वा कर्मसमारम्भं विदधत्यनिशं रमे ।
रात्रौ संभूय च कथां कीर्तनं रचयन्त्यपि ॥२२॥
गायन्ति मम गाथाश्च मोदन्ते च यदुत्सवैः ।
यदि व्रताहो भवति जाग्रत्याप्रातरेव च ॥२३॥
प्रातः कुर्वन्ति मिलिता उद्यापनं व्रतस्य ते ।
भोजयन्ति पूजयन्ति भक्तान् चर्मकरान् बहून् ॥२४॥
अन्यानपि समायातान् सत्कारयन्ति वस्तुभिः ।
साधवो ये तथायोग्या अन्ये वा नगरे निजे ॥२५॥
य आयान्ति च तेभ्यस्ते पादत्राणे ददत्यपि ।
एवं वै बहुधा सेवां कुर्वन्ति भक्तिसंविदः ॥२६॥
प्रसन्नाः साधवश्चैषां भवन्त्याशीःप्रदा यथा ।
भवन्तु सुखिनो भक्ता भक्तौ निर्विघ्नसत्फलाः ॥२७॥
चिरञ्जीवाः पावनाश्च सर्वविपद्विवर्जिताः ।
सतीनां च सतां सन्तु सेवकाः पुण्यशालिनः ॥२८॥
एवमाशीर्वादमाप्ता भवन्ति कृपया सताम् ।
अथैकदा पूर्णिमायामाश्विनस्य निशाकरे ॥२९॥
सर्वकलाप्रपूर्णे चाम्बरं प्राप्ते महोत्सवम् ।
चक्रुस्ते चर्मकारा वै कौमुद्यां प्रतिमां हरेः ॥३०॥
अवस्थाप्यासने रम्ये ज्योत्स्नायां तां समर्चयन् ।
चन्दनै रम्यवस्त्रैश्चाऽलंकारैः शोभनैस्तथा ॥३१॥
नीराजनादिकं चक्रूरर्नैवेद्यं शर्करायुतान् ।
दुग्धमग्नान् पृथुकाँश्च समार्पयत् हि विष्णवे३२॥
महास्थाले प्रसादं च निधाय तमनावृतम् ।
रासं भगवतश्चाग्रे खेलयामासुरुत्सुकाः ॥३३॥
हस्तपादादितालैस्ते । कीर्तयामासुरच्युतम् ।
प्रेममग्ना अभवँश्च भ्रमन्तो वलयाकृतिम् ॥३४॥
चक्रयन्ति हरिं मां ते गायन्ति चोत्प्लवोत्सुकाः ।
आलापयन्ति तालैश्च कूर्दन्ति विविधक्रमैः ॥३५॥
निषद्योत्थाय च भ्रान्त्या विलुठ्योत्थाय यान्ति च ।
तालं गृह्णन्ति ददति सन्मुखाः प्रतिसन्मुखाः ॥३६॥
एवं प्रमोदमानन्दं भुञ्जते मम सेवकाः ।
लक्ष्मि यदा निशामध्ये चान्द्रीदुग्धायिते स्थले ॥३७॥
तदाऽहं भगवान् विष्णुर्लुब्धो भक्तिरसायने ।
रासैकाग्रमना भूत्वा पश्यामि संशृणोमि च ॥३८॥
मूर्तावेव यथा ते मां नैव पश्यन्ति तत्तथा ।
प्रसन्नोऽहमभवँ च प्रेमबद्धः प्रियः प्रभुः ॥३९॥
शृणु तत्राऽभवद् यद्वै गीतिलुब्धो भुजङ्गमः ।
पार्श्ववासः समागत्य गृहकोणे स्थिरोऽभवत् ॥४०॥
श्रुत्वा रासरसां गीतिं श्रुत्वा सतालकीर्तनम् ।
घ्रात्वा स्थालस्थपृथुकान् सदुग्धशर्करान् शुभान् ॥४१॥
दृष्ट्वा निर्जनसंस्थाँश्च गत्वा शनैः शनैश्च तान् ।
आस्वाद्य जिह्वया दुग्धं पीत्वा मिष्टं पुनः पुनः ॥४२॥
प्रसादपावितः शीघ्रं सभयः प्रययौ दरम् ।
अथ रासान्तविश्रान्तिं प्राप्य प्रसादलब्धये ॥४३॥
पंक्तिशश्चाऽभवन् सर्वे विषाक्तान् पृथुकान् जनाः ।
पर्यवेषयन् भक्तास्तान् पंक्तौ सहस्रदेहिनाम् ॥४४॥
पृथुकान् भुक्तवन्तस्ते माहात्म्यवेदिनो जनाः ।
आबालवृद्धाः सर्वे ते कृष्णसर्पविषान्वितान् ॥४५॥
सर्वे भुक्त्वा जलं पीत्वा सुप्ताः क्षणं तु चत्वरे ।
विषमूर्छामगमँस्ते बहवो मरणोन्मुखाः ॥४६॥
अभवन् विषदग्धास्ते देहभानविवर्जिताः ।
अथाऽन्ये न्यूनगरलस्पर्शा विविदुरुल्बणम् ॥४७॥
विषप्रकोपमन्येषां स्वेषां च मस्तकभ्रमम् ।
पिशङ्गनीलहरितरङ्गाऽऽभा नेत्ररश्मिषु ॥४८॥
ते परीक्षां प्रचक्रुर्वै शीघ्रं .च विविदुर्विषम् ।
प्रकाशं जगदुः सर्वे पृथुका गरलान्विताः ॥४९॥
भक्षिता वै ततो मूर्छा मृत्युदा समुपस्थिता ।
सर्वे शीघ्रं घृतपानं चक्रुर्विषनिवृत्तये ॥५०॥
वमनं सविषं तेषां जातं विषनिवर्तनम् ।
अथापि बहवो भक्ता विषेण वै मृता इव ॥५१॥
अभवँस्तान् जीवयितुं प्रार्थयन् मां परे जनाः ।
रुरुदुर्बहवस्तत्र स्त्रीपुत्राः पतिबान्धवाः ॥५२॥
सस्मरुर्मां परमेशं प्राणदं चान्तरस्थितम् ।
तेषां विक्लवभावं च रोदनं भजनं व्रतम् ॥५३॥
भक्तिं वीक्ष्य प्रसन्नोऽहं तूर्णमाविर्बभूव ह ।
साधुरूपः कृतकुक्षिविषहौषधपेटिका ॥५४॥
अतिष्ठं शोककर्तॄणां सन्निधौ वृत्तसंश्रवः ।
तूर्णं वृत्तान्तमावेद्य जलमाधाय वै घटे ॥५५॥
तत्रौषधरसं क्षिप्त्वाऽददां चाचमनीयकम् ।
मूर्छितानां मृततुल्यावस्थानां सहसा मुखे ॥५६॥
तालौ जलस्य स्पर्शेन गतमूर्छास्तदाऽभवन् ।
अमृतास्तेऽभवँश्चापि लब्धाऽऽसुज्ञानसञ्चराः ॥५७॥
उत्तस्थुर्द्राक् समस्ता वै भजन्तो निद्रिता यथा ।
स्वस्थास्ते स्वप्नवत्तत्र ज्ञातवन्तो निजापदम् ॥५८॥
विषं चामृततां प्राप्तं साधोरोषधिवारिणा ।
अथ सर्वे मिलित्वा ते साधोर्ददुर्हि भोजनम् ॥५९॥
पानं रम्यं चासनं च विश्रान्त्यर्थं निशोत्तरे ।
पादसंवाहनं तस्य चक्रुस्ते जीविता जनाः ॥६०॥
सेवामग्ना जनास्ते तु पप्रच्छुः साधुमेव तम् ।
भगवन्निष्ठताऽऽप्तानां कथं विघ्नं प्रजायते ॥६१॥
तमुवाच तदा साधुर्विघ्नं कृष्णेच्छया खलु ।
परीक्षार्थं जायते वै न तु विघ्नं हि तन्मतम् ॥६२॥
कृष्णप्रसन्नतादार्ढ्यं भक्तिदार्ढ्यं भवेत्ततः ।
सर्वविघ्नविनाशं च साक्षादेत्य करोति सः ॥६३॥
आपत्काले तु भक्तानां स्मरणं श्रीहरेर्भवेत् ।
चमत्कारे दर्शिते तु भक्तिदार्ढ्यं भवेद् बहु ॥६४॥
अहोऽयं भगवानस्ति सर्वदुःखनिवारकः ।
तस्य सेवा प्रकर्तव्या मोक्षदा सुखदा शुभा ॥६५॥
एवं भवन्ति संकल्पा ऐश्वर्यवीक्षणे सदा ।
अथाऽनैश्वर्यवीक्षायां नृनाट्यमनुकुर्वति ॥६६॥
कृष्णे खेदो भवेदेव न चायं भगवानिति ।
बहुकालं मया सेवा कृता सा विफला त्विह ॥६७॥
यथाऽहं निर्बलश्चास्म्यसमर्थः पारतान्त्रिकः ।
तथाऽयं निर्बलश्चास्ते ह्यशक्तः पारतान्त्रिकः ॥६८॥
मयि कामस्तथा क्रोधो लोभो मोहो भयं यथा ।
तथा कृष्णे कामलोभक्रोधमोहभयानि वै ॥६९॥
सन्ति तस्मान्न वै चाऽयं भगवान् किन्तु मानवः ।
एवं प्राकृतमतिमान् कृष्णे प्राकृतमर्त्यधीः ॥७०॥
दोषान् स्ववत् कल्पयति सन्नष्टदिव्यभावनः ।
तस्माद्धरौ सदा भाव्यं दिव्यभावप्रभाविणा ॥७१॥
मन्तव्या पूर्णता स्वस्य न मे प्राप्यं हरिं विना ।
न मे साध्यं परं किञ्चिच्छिष्यते हरिसाधनम् ॥७२॥
अत्र वै मिलितः साक्षाद्धरिस्तत्रास्ति तत्पदम् ।
ब्रह्मधामापि तत्रास्ति मुक्तास्तत्र वसन्ति च ॥७३॥
अत्र हरौ विद्यमाने पृथ्व्यादि सर्वमुत्तमम् ।
दिव्यमेव सभा दिव्या भक्ता दिव्या नराः स्त्रियः ॥७४॥
तेषां योगे ममानन्दो वर्तते भगवन्मयः ।
धन्योऽहं कृतकृत्योऽहं यदत्र वर्तते हरिः ॥७५॥
साधुरूपो मूर्तिरूपो वर्तते भगवानिह ।
एवं भक्तस्य संकल्पा जायन्ते चात्मवेदिनः ॥७६॥
देवाश्चेशा अवतारा मुक्ता यत्सम्पदा सुखाः ।
स एव भगवानत्र राजते पुरुषोत्तमः ॥७७॥
यदक्षरं व्यापकं च ब्रह्मधाम परात्परम् ।
तत्परो भगवान् कृष्णनारायणस्त्विहाऽऽगतः ॥७८॥
मिलितोऽत्र महाराजो मद्भाग्यान्तो न विद्यते ।
तस्य कृष्णस्य योगेन जीवनं नः पुनः खलु ॥७९॥
दिव्ये नित्ये परे धाम्नि यः श्रीकृष्णो विराजते ।
निजतुल्यैर्महामुक्तैरसंख्यातैरुपासितः ॥८०॥
तेषां वै दिव्यमुक्तानां श्रीकृष्णस्य प्रतापतः ।
एकैकरोम्णि तेजोऽस्ति कोटिकोट्यर्कसदृशम् ॥८१॥
तादृशानामसंख्यानां मुक्तानां तेज उज्ज्वलम् ।
समस्तं लीयते त्वेकरोम्णि तादृक् तदक्षरम् ॥८२॥
ब्रह्मधामाऽस्ति दिव्यं वै सच्चिदानन्दलक्षणम् ।
तथाविधानि धामानि धाम्नां तेजांसि यान्यपि ॥८३॥
समस्तानि कृष्णनारायणैकरोम्णि लीनताम् ।
यान्तीति तादृशी भूतिर्वर्तते परमात्मनः ॥८४॥
तादृशो भगवान् कृष्णः समर्थोऽति महान् हरिः ।
कृपावशो देहिनां तु श्रेयसे सर्वशक्तियुक् ॥८५॥
धृतदिव्यनराकारो नरवन्नृषु जायते ।
तिरोधाय महैश्वर्याण्यपि नराकृतिरस्ति सः ॥८६॥
तस्य भक्त्या समस्तानि दुःखानि यान्ति लीनताम् ।
कालस्य कर्मणां मायायाश्च तस्य न बन्धनम् ॥८७॥
सेवया श्रीहरेस्तस्य रक्षणं जायते सदा ।
यथा मया सता रक्षा भवतां विहिताऽत्र वै ॥८८॥
तथा कृष्णः कारयति साधुद्वारा निजाऽवनम् ।
भक्ता जीवाश्चेतनाश्च माया तत्त्वानि यानि च ॥८९॥
सर्वमस्य शरीरं वै व्याप्यं चाधीनमित्यपि ।
वश्यं चापि भवत्येव सर्वमस्य महात्मनः ॥९०॥
तेषु सर्वेषु तत्त्वेषु मुक्ताऽक्षरेश्वरेष्वपि ।
व्यापको वर्तते कृष्णो मायाजीवादिकेष्वपि ॥९१॥
सर्वेषां प्रेरकः कृष्णः स्वतन्त्रश्च नियामकः ।
सवैश्वर्ययुतः सर्वशेषी कल्याणकृत्प्रभुः ॥९२॥
आविर्भूय क्षितौ न्राभो नृनाट्यं विदधाति सः ।
सेवध्वं तं हरिं ये वै दिव्यभावा नराः स्त्रियः ॥९३॥
ते सर्वे श्रीहरेः सर्वमैश्वर्यं प्राप्नुवन्ति ह ।
ब्रह्मरूपा ब्रह्मभावाः सप्रेमसेविनो हरेः ॥९४॥
व्रह्मलोकेऽपि तद्रूपाः सेवन्ते परमेश्वरम् ।
तस्मादत्र हरिः सेव्यः साधुरूपोऽतिरक्षकः ॥९५॥
साधौ नारायणश्चास्ते भक्तेच्छापूरकः स्वयम् ।
एवं मंगलदेवाद्या लक्ष्मि प्रोक्ता मया तदा ॥९६॥
विविदुस्ते मयि कृष्णं मां कृष्णं केचिदित्यथ ।
सिषेविरेऽतिभावेन साधुरूपं पुनः पुनः ॥९७॥
सती मंगलदेवस्य पत्नी नाम्ना विभावरी ।
सिषेवे मां पादसंवाहनाद्यैरतिभावुकी ॥९८॥
अथाऽहं प्रार्थितस्तैश्च मोक्षार्थं वै पुनः पुनः ।
तथाऽस्त्वेवाऽकथयं स्वां दिव्यामदर्शयं तनुम् ॥९९॥
वीणायुक्तं समुकुटं श्यामसुन्दरविग्रहम् ।
कोटिमन्मथरूपातिरूपं किशोरमुज्ज्वलम् ॥१००॥
राधादिभिर्वन्दितं च ब्रह्मप्रियाभिसेवितम् ।
कोटिमुक्तमहामुक्तानिकाजुष्टं श्रियः पतिम् ॥१०१॥
एतादृशं च मद्रूपं दर्शयित्वा क्षणान्तरे ।
मूर्तौ तिरोभवं ते तु महाश्चर्यपराः पुनः ॥१०२॥
ननृतुः कीर्तनं चक्रुः साक्षात् कृष्णस्य दर्शनात् ।
एवं नित्यं भेजिरे ते चातिभक्त्या तु नित्यशः ॥१०३॥
प्राप्ते काले तु तान् दिव्याक्षरं धाम परात्परम् ।
विमानेनाऽनयं चास्थापयं मुक्तेषु तत्र च ॥१०४॥
भक्तं मंगलदेवं च पत्नीं विभावरीं तथा ।
अरक्षयं मे सेवायां पादयोरक्षरे स्थले ॥१०५॥
एवं लक्ष्मि मया रक्षा कृता चर्मकृतां तदा ।
तेभ्यो मन्त्रं दत्तवाँश्च साधुरूपो दयावशः ॥१०६॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
जेपुर्भेजुः सस्मरुर्मां ययुर्मे परमं पदम् ॥१०७॥
पठनाच्छ्रवणादस्य स्मरणात् सेवनादपि ।
भजनाल्लभते भूतिं दिव्यां दिवं च मोक्षणम् ॥१०८॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने मंगलदेवाख्यचर्मकारभक्तस्य भक्त्या साक्षादागत्य भगवता विषवारणं कृतमित्यादिनिरूपणनामा
त्रयोदशाधिकद्विशततमोऽध्यायः ॥२१३॥
N/A
References : N/A
Last Updated : May 05, 2021
TOP