संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ९

द्वापरयुगसन्तानः - अध्यायः ९

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं द्वादशे तु प्रधारणे ।
वत्सरे ब्रह्मणस्तत्र षष्ठे कल्पेऽष्टमे मनौ ॥१॥
शोणभद्रोऽभवद्वैश्यो मम भक्तो जितेन्द्रियः ।
सर्वयज्ञपरः सर्वदानदाताऽतिथिप्रियः ॥२॥
लक्षगोधनयुक्तश्च कृषिव्यापारसंभृतः ।
क्रयविक्रयकुशलो राजेव राजमानितः ॥३॥
सत्यप्यनन्तविभवे सम्माने च प्रजोत्तरे ।
व्यवसायेष्वसंख्येषु सहस्रेष्वनुगेष्वपि ॥४॥
भगवन्तं स मां नैव विस्मरत्येव वै क्वचित् ।
प्रातर्ब्राह्मे मुहूर्ते स समुत्थाय हरेर्मम ॥५॥
ध्यानं नित्यं करोत्येव सर्वागानां मुहुर्मुहुः ।
ध्यानतृप्तस्ततस्तालीवादनैः सह मेऽभिधाः ॥६॥
हरेकृष्ण हरे कृष्णनारायण प्रभो हरे ।
अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ॥७॥
इत्येवं कीर्तयत्येव ततः स्नात्वा नदीजले ।
पैतृकानञ्जलीन्दत्वा कृत्वा सन्ध्यां ममाऽर्चनम् ॥८॥
मम सौवर्णमूर्तौ स विधत्ते सर्ववस्तुभिः ।
आवाहनं चासनं च पाद्यमर्घ्यं तथाऽऽचमम् ॥९॥
दन्तधावनमेवाऽपि गण्डूषान् मुखशोधनम् ।
शौचं मृदा तथा शुद्धिं जलशौचं ततः परम् ॥१०॥
तैलसुगन्धिभिश्चांगाभ्यंगनं चांगमर्दनम् ।
दुग्धेन दध्ना चैवाऽपि सर्पिषा मधुना तथा ॥११॥
शर्करया तीर्थवार्भिश्चाभिषेकाऽऽप्लवं तथा ।
वस्त्रामार्जनमेवाऽपि चामूल्याम्बरधारणम् ॥१२॥
सुगन्धिसत्त्वदानं च शोभाद्रव्यार्पणं तथा ।
कज्जलं नेत्रयोश्चापि भाले तिलकमुत्तमम् ॥१३॥
चन्द्रकं शिरसि तैलं रञ्जनं करपत्तले ।
भूषणानि समस्तानि पादुके पुष्पमालिकाः ॥१४॥
कुंकुमं चाबीरकं च गुलालं चन्दनं शुभम् ।
अक्षतान् कुसुमान्येव धूपं दीपं निवेदनम् ॥१५॥
भोजनानि विचित्राणि ताम्बूलकं जलानि च ।
तुलसीमञ्जरीपत्रं स्वर्णहीरकमालिकाः ॥१६॥
आरार्त्रिकं दण्डवच्च स्तवनं च प्रदक्षिणम् ।
दक्षिणां च नमस्कारं चापराधक्षमापनम् ॥१७॥
पुष्पाञ्जलिं ततः पूजापरिहारं विधाय सः ।
साधुजनानतिथींश्च विप्रान् नमस्करोत्यपि ॥१८॥
गाः सतीर्बालकान् दीनाननाथान् भिक्षुकानपि ।
समागतान् प्रसम्मान्य पूजयत्येव नित्यशः ॥१९॥
भोजनादि कारयित्वा यथापेक्षं ददाति च ।
वर्षे वर्षे नवधान्यागमे सत्रं महत्तमम् ॥२०॥
वैष्णवं प्रकरोत्येव भुञ्जते सुरमानवाः ।
एवं तेन कृतो यज्ञो नवधान्यक्रतुः शुभः ॥२१॥
लक्षशः साधवो यत्र विप्राद्याश्चापि चागताः ।
सप्ताहे तत्र वै यज्ञे मम भक्तस्य नित्यशः ॥२२॥
अहमदृश्यरूपेणागत्यार्पितं निवेदनम् ।
गृहीत्वा शिवसत्तेश्रि! भुक्त्वा प्रयामि धाम मे ॥२३॥
एवं यज्ञे सम्प्रवृत्ते विप्राणां बहुशास्त्रिणाम् ।
भिन्नदेशाऽऽगतानां च भिन्नक्रियाप्रवेदिनाम् ॥२४॥
कर्मकाण्डेऽङ्गवैमत्ये विगुणे रुद्रकर्मणि ।
यज्ञांगकर्मवैगुण्ये जाते वह्नेः प्रकोपनात् ॥२५॥
अकस्मान्मण्डपस्योर्ध्वे विताने वह्निमण्डलम् ।
कुण्डादुत्प्लुत्य सहसा लग्नं दाहकरं तदा ॥२६॥
प्रसारणं च त्वरितं सज्वालं समभूद् द्रुतम् ।
मण्डपो ज्वलितस्तूर्णं वह्निश्चापि समन्ततः ॥२७॥
सज्वालः सम्प्रसरितो वायुना सुप्रवर्धितः ।
हव्येषु चापि सर्वत्र निवासेषु गृहेषु च ॥२८॥
वस्त्रेषु यज्ञशालासु मानवेष्वपि वै तदा ।
क्रूरश्च क्रूरकर्मा च वह्निर्व्यवर्धतोल्बणः ॥२९॥.
काली कराली विकराली च नीला च लोहिता ।
पिशंगी चार्जुना हरिद्वर्णा ज्वाला विचित्रिकाः ॥३०॥
ज्वालाभिस्तत्र पञ्चाशत्सहस्राणि तु मानवाः ।
भस्मीभूता अभवँश्च हाहाकारोऽभवत्ततः ॥३१॥
शोणभद्रो मम भक्तः परं शोकमवाप ह ।
मृतानां सर्वकार्याणि कृतवाँस्तत्र भक्तराट् ॥३२॥
अथ तेषां बहुहत्यापातकेषु निमित्तवान् ।
वैश्योऽयं यजमानः स महच्छोकेन पीडितः ॥३३॥
शान्तिं नाऽवाप निद्रां वा नाऽवाप चिरमेव ह ।
आराधनां मम चक्रे मृतोद्धारचिकीर्षया ॥३४॥
अन्नं जलं परित्यज्याऽनशनं व्रतमाचरत् ।
रात्रिन्दिवं भजनं मे चक्रे मद्गतमानसः ॥३५॥
भगवत्त्वं स्वयं पुत्रो भूत्वोद्धारं कुरु प्रभो ।
यज्ञध्वंसकलंकं च निवारय जनार्दन ॥३६॥
एवं मां चार्थयतश्च गतं वर्षं विनाऽदनम् ।
विना जलं गतं वर्षं मरणार्थकयोगिनः ॥३७॥
ततोऽहं दत्तवाँस्तस्मै वरं पुत्रो भवामि ते ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥३८॥
इत्युक्त्वा मानसः पुत्रस्तस्याऽग्रे समुपस्थितः ।
तत्पत्नी शीलव्रतिनी नाम्ना भद्रेश्वरी सती ॥३९॥
दृष्ट्वा मां बालकं रम्यं सर्वतेजोभिवर्धितम् ।
सर्वसिद्धिप्रदं सौम्यं सर्वाभरणभूषितम् ॥४०॥
दिव्यं दिव्यगुणोपेतं जग्राहोत्सवमानिनी ।
तदाऽम्बराद् बभूवापि दिव्यकुसुमवर्षणम् ॥४१॥
मुक्ता देवा ईश्वराश्च व्यवर्धयन्त मां सुमैः ।
जयध्वानैर्वाद्यघोषैश्चन्दनाक्षतपूजनैः ॥४२॥
जन्मोत्सवो जनकेन कृतो मे सर्वतोऽधिकः ।
अनशनं परित्यज्य भोजयामास कोटिशः ॥४३॥
साधून् भक्तान् दीनवर्गाननाथान् द्विजसत्तमान् ।
कन्यका बालकाँश्चापि शोणभद्रस्तदा दिने ॥४४॥
दानानि सर्ववस्तूनां श्रेष्ठानि प्रददौ पिता ।
गृहे गृहे तदा कृष्णजन्मना वै समुत्सवाः ॥४५॥
अभवन् शिवकन्येश्रि! तदा त्वं मां समर्थयः ।
मया जन्म ग्रहीतव्यं यद्याज्ञां देहि मे प्रभो ॥४६॥
मया तथाऽस्त्विति प्रोक्ता त्वं तदा वैश्यपुत्रिका ।
सरयूकासतीनाम्न्याः स्त्रियाः पुत्री शुभानना ॥४७॥
मानसी वै सरोभद्राश्रीनाम्नी त्वं व्यजायथाः ।
सर्वलक्षणसम्पन्ना हरिवत्सान्विता हृदि ॥४८॥
दीपज्योतिःसमं स्वर्णरेखाचिह्नं हृदन्तरे ।
तदूर्ध्वे च हरेश्चिह्नं चतुर्भुजं सुमूर्तिकम् ॥४९॥
स्वर्णवर्णं च ते तत्राऽऽसीद् विलोक्य च तत् प्रसूः ।
तव वै पितरं नाम्ना सारवत्सं जगाद ह ॥५०॥
पुत्रीयं सर्वशोभाढ्या वर्तते कमला ननु ।
हृदयेऽस्या हरिश्चास्ते स्वर्णरेखाढ्यमूर्तिमान् ॥५१॥
तस्माद् देया भगवते श्रीकृष्णपरमात्मने ।
नाऽन्यस्मै चेति वैश्योऽपि तत्सत्यं चाभ्यमन्यत ॥५२॥
जातमात्रा युवती च मात्रा पित्रा सुसद्गुणा ।
श्रुत्वा पुत्रं शोणभद्रवैश्यस्य परमेश्वरम् ॥५३॥
संकल्पेन प्रदत्ता त्वं मह्यं श्रीपतये तदा ।
मया कृतस्ततो यज्ञो मृतोद्धारकृते पुनः ॥५४॥
तत्रारंभे समागत्य पित्राभ्यां तव पद्मजे ।
अर्पिता विधिना मह्यं गृहीता मण्डपे मया ॥५५॥
आध्वरे एव 'विधिना ततोऽध्वरमकारयम् ।
त्वया साकं सरोभद्रे! मया यज्ञः प्रवर्तितः ॥५६॥
आहूताः प्रेतवर्गास्ते यथावद् विधिना ततः ।
श्राद्धैः पैत्र्यैः पिण्डदानैर्हवनैर्दैवकर्मभिः ॥५७॥
तारिताः सर्व एवैते हव्यप्रसादभोजनैः ।
सर्वे चतुर्भुजाः पञ्चाशत्सहस्राणि ते तदा ॥५८॥
प्रेता विवृत्य च तदा भूत्वा चतुर्भुजाः सुराः ।
पार्षदा मण्डपे तत्र विमानवरमास्थिताः ॥५९॥
प्रेषिताश्च मया सर्वे वैकुण्ठं धाम चोत्तमम् ।
मोचितास्ते ततः पित्रोः सेवायां सर्वदाऽभवम् ॥६०॥
अनादिश्रीभद्रनारायणः श्रीपुरुषोत्तमः ।
अन्येऽपि चावतारा मे बहवस्तत्र कल्पके ॥६१॥
कार्यवशात् प्रजाता वै वेद्मि तान् सर्वशः प्रिये ।
स्मर तां त्वां सरोभद्रां श्रीभद्रस्य तु मे प्रियाम् ॥६२॥
अथाऽन्यं मे प्रकटं च भावं शृणु शिवात्मजे! ।
वेधसो वत्सरे त्रयोदशे प्रध्यानसंज्ञके ॥६३॥
तृतीयकल्पके तुर्ये मनौ मेरोस्तु दक्षिणे ।
अघमर्षणखण्डे वै भूतले ब्रह्मचारिणी ॥६४॥
योगिनी योगसामर्थ्या तुंगभद्रासनाऽभिधा ।
बभूव बहुसामर्थ्या मम भक्तिपरायणा ॥६१॥
दिनार्धं मम पूजायां यापयत्येव निर्जने ।
मध्याह्ने फलमूलादि चाहृत्याऽऽरण्यवृक्षजम् ॥६६॥
निवेद्य मह्यं चाश्नाति पैत्र्यं करोति तत्परम् ।
सायं मां भजते नित्यं परमेशं जगद्गुरुम् ॥६७॥
रात्रौ ध्यात्वा स्वपित्येव प्रातर्ध्यानं करोत्यपि ।
स्नाने ध्याने जपे होमे तर्पणे भजने स्थले ॥६८॥
जलेऽम्बरे दिवा रात्रौ मां स्मरत्येव योगिनी ।
दीर्घाभ्यासवशादेषा सर्वसिद्धिनिधानिका ॥६९॥
अभवत् त्वं यथा लक्ष्मि तथैश्वर्यसमन्विता ।
आत्मज्ञानपरा वाणीसिद्धा संकल्पसिद्धिका ॥७०॥
देहसिद्धा द्वन्द्वस्पर्शरहिता सर्वतोऽधिका ।
व्यजायत महासाध्वी चर्तुमकर्तुमन्यथा ॥७१॥
समर्था व्योमगा चापि परकायप्रवेशिनी ।
ग्रहनक्षत्रताराणां गतिरोधबलान्विता ॥७२॥
हरिव्रता सदा कृष्णपतिव्रता हि भामिनी ।
भक्तरक्षाकरी दीनाऽनाथरक्षाकरी सदा ॥७३॥
सतां सेवाकरी चापि धर्मकर्मपरायणा ।
एवं सा वर्तमाना च महारण्ये सदा निशि ॥७४॥
अन्धकारे निर्गतानाहारार्थं राक्षसाँस्तथा ।
भूतप्रेतपिशाचादीन् व्यलोकयति हिंस्रकान् ॥७५॥
सुप्तपक्षिपशुव्रातभक्षकान् पापकारिणः ।
अन्धकारे पशवश्च भीता अपि च जाग्रताः ॥७६॥
अदृष्टिपातवशगाः शक्नुवन्ति न धावितुम् ।
धावमानाँश्च गृह्णन्ति प्रसह्य बलिराक्षसाः ॥७७॥
क्रन्दमानान् देहिनश्च प्रतिरात्रि च सा सती ।
परदुःखनिवारार्थं व्यचारयन्मुहुर्मुहुः ॥७८॥
सार्वदिकं महादुःखं यथा नश्येद्धि देहिनाम् ।
तथा दीर्घं विचार्यैव राक्षसानां विनाशिनीम्७९॥
महालक्ष्मीं प्रसस्मार त्वां क्रूरां दुःखहारिणीम् ।
मयाऽऽज्ञप्ता भवती च तस्याः प्रत्यक्षतां गता ॥८०॥
कन्यका षोडशभुजा सर्वशस्त्रप्रधारिणी।
सा च प्रसन्नवदना ययाचे त्वां स्वपुत्रिकाम् ॥८१॥
मानसी त्वं तदा पुत्री भूत्वा तदाश्रमे स्थिता ।
सर्वराक्षसभूतानां हन्त्री पश्वादिरक्षिणी ॥८२॥
नाम्ना कार्यवशात् सर्वभद्राश्रीरिति शोभना ।
यतिनीधर्मवशगा सर्वसामर्थ्यशालिनी ॥८३॥
कल्याणकारिणी साध्वी युवती योगिनी शुभा ।
अथैवं वर्तमानायास्तस्या आरण्यकं स्थलम् ॥८४॥
विहाय राक्षसाः सर्वे ययुश्चान्यदरण्यकम् ।
तत्रैवं हिंस्यमानाश्च प्राणिनो राक्षसादिभिः ॥८५॥
विवशास्त्वन्मातरं च रक्षयित्रीं हि देहिनाम् ।
आश्रुत्य चागताश्चाप्यार्थयँस्त्वामवनार्थिकाम् ॥८६॥
माता त्वां प्रददौ तेभ्यो रक्षार्थं त्वं गता ततः ।
त्वद्भयात्तदरण्याश्च राक्षसाश्चेरयद् गताः ॥८७॥
अरण्यं तत्र वै चापि हिंसनं तादृशं ह्यभूत् ।
राक्षसैस्ते पशवश्च प्रार्थयन् सर्वभद्रिकाम् ॥८८॥
इत्येवं सर्वतः सर्वभद्रिकाह्वानमेव ह ।
अजायत हि लोकेषु ख्याता रक्षाकरी यतः ॥८९॥
माता विचारयामास नैवं पारो भविष्यति ।
पुत्री मे न गृहे चास्ते चरतेऽरण्यके सती ॥९०॥
राक्षसानां विनाशार्थं सेवालाभो न मेऽस्त्यपि ।
ततोऽहं तादृशं कुर्वे पुत्री मे गृहमावसेत् ॥९१॥
राक्षसानां बलं चापि स्वभावान्नाशमाव्रजेत् ।
रात्रिर्यथा भवेन्नैव तथा कुर्वे समन्ततः ॥९२॥
रात्रौ बलं पिशाचानां भूतानां रक्षसां तथा ।
तस्माद् रात्रिर्मा भवतु चेत्येवं त्वत्प्रसूस्तदा ॥९३॥
हस्ते जलं गृहीत्वैव विचार्य्याऽञ्जलिवारि तत् ।
अभिमन्त्र्याऽम्बरे प्राक्षिपत् पुनः पुनरेव सा ॥९४॥
ज्योतिषां च ग्रहाणां च सूर्यादीनां गतिः स्थिरा ।
अगतिश्चास्तु वै येन दिवा वै सर्वदा भवेत् ॥९५॥
नोपेयाच्च निशा चास्तमनं सूर्यस्य मा भवेत् ।
इति प्रक्षिप्तसलिलबिन्दवः स्वर्गमारुहन् ॥९६॥
प्रतिबन्धकरा देवाः सर्वसामर्थ्यरश्मयः ।
सूर्यगतिस्तदा रुद्धा रुद्धं नक्षत्रमण्डलम् ॥९७॥
सर्वं वै ध्रुवतां प्राप्तं सर्वदा दिवसोऽभवत् ।
अस्तमनं गतं चास्तं पुनर्नायातमेव तत् ॥९८॥
सायं सन्ध्या ततो लुप्ता दिनं दीर्घतमं ह्यभूत् ।
सर्वे सायं प्रतीक्षन्ते कदा सायं भवेदिति ॥९९॥
आकुलं व्याकुलं सर्वं देवमानवमण्डलम् ।
तेन जातं तदाऽस्तौच्छ्रीपतिं मां पुरुषोत्तमम् ॥१००॥
प्रातर्मध्याह्नकार्याणि समस्तानि गतानि वै ।
बुभुक्षिताः सुराद्याश्च जनाश्च ऋतुवर्जिताः ॥१०१॥
सर्वम सातत्यसूर्यस्य रश्मिभिस्तापसेचितम् ।
दग्धभावोन्मुखं जातं चन्द्रकान्तिर्न लभ्यते ॥१०२॥
अमृतं प्राप्यते नैवौषधिभिश्चाप्यरण्यके ।
शुष्कायन्ते द्रुमाद्याश्च तापधर्मप्रसेचिताः ॥१०३॥
एकलाभे च महती हानिश्चैवं समापतत् ।
उष्मणा मानवाद्याश्चोन्मत्ततां तु तदाऽऽप्नुवन् ॥१०४॥
जलानि सरसां तत्र शुष्काणि लीनतां ततः ।
गतानि सर्वतश्चैवं दुःखमुग्रमवर्तत ॥१०५॥
राक्षसानां बलं नष्टं पातालं विविशुश्च ते ।
भूतप्रेतपिशाचाद्या विविशुर्गह्वराणि च ॥१०६॥
तेभ्यो दुःखम न चाऽस्त्येव किन्तु तापेन तापनम् ।
दुःखमसह्यमापन्नं तस्माद् रक्ष परेश्वर ॥१०७॥
रक्ष रक्ष कृपासिन्धो त्रिलोकी स्तब्धतां गता ।
अक्रिया ग्रहताराश्च दिनमानं लयं गतम् ॥१०८॥
रात्रिर्लयं गता कृष्णनारायण जगच्छया ।
चन्द्रोदयस्तथा नास्ति मासावधिर्लयं गतः ॥१०९॥
ऋतवो नैव जायन्ते फलन्ति नौषधिव्रजाः ।
शैत्यं लयं गतं सर्वम वह्निश्चोत्पद्यते वने ॥११०॥
रक्ष रक्ष कृपासिन्धो दिनबन्धो प्रतापनात् ।
अस्तुवन्निति त्रैलोक्यां देहिनो मां तदा प्रिये ॥१११॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसो द्वादशे वत्सरे शोणभद्रयज्ञे दग्धानां मोक्षार्थमनादिभद्रनारायणस्य,त्रयोदशे प्रध्यानवत्सरे तुमगभद्रासनायोगिन्या कृतसूर्यादिगतिनिरोधे परमेशप्रार्थनादीतिनिरूपणनामा नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : May 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP