द्वापरयुगसन्तानः - अध्यायः २०४
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं काष्ठहारस्य वै कथाम् ।
नाम्ना जांगलदेवस्य मम भक्तस्य शोभनाम् ॥१॥
निशारग्रामवास्तव्योऽभवद्भक्तः कुटुम्बवान् ।
शूद्रो जांगलदेवाख्यः काष्ठहारोऽतिभक्तिमान् ॥२॥
नित्यमुत्थाय कल्येऽयं मुहूर्ते ब्राह्मसंज्ञके ।
कूपे स्नात्वा हरिं ध्यात्वा निवेद्य रोटकं च मे ॥३॥
आरनालेन साकं च जलं ततः प्रणम्य माम् ।
सुगन्धिकाष्ठगुन्द्रादिधूपं कृत्वा मदग्रतः ॥४॥
वन्यं फलं च पुष्पं च पत्रं च तूलसीजनिम् ।
समर्प्य मह्यं भक्तोऽयं पत्नीमापृच्छ्य बालकान् ॥५॥
रज्जुं नीत्वा कुठारं च यात्यरण्य प्रगेऽन्वहम् ।
विविधानि च शुष्काणि काष्ठन्याच्छिद्य यत्नतः ॥६॥
भारं बद्ध्वा च मध्याह्ने वृक्षच्छायामये स्थले ।
सहनीतं रोटकं च स्मृत्वा मामत्ति मन्मना ॥७॥
विश्रामं प्राप्य वै पश्चात् तापमान्द्ये गृहं निजम् ।
प्रयात्येव हि काष्ठानां भारं धृत्वा स मस्तके ॥८॥
यदा वृक्षे शुष्ककाष्ठं शुष्कशाखां छिनत्ति सः ।
तदा तदा हरिं स्मृत्वा नत्वा वृक्षं छिनत्ति सः ॥९॥
पत्रं पुष्पं फलं चेत् प्राप्यते मह्यं ददाति सः ।
वृक्ष नारायणयोगं याहि चेति वदत्यपि ॥१०॥
हरेकृष्ण हरेविष्णो बालकृष्ण परेश्वर ।
अन्तर्यामिँस्तरोरस्य कल्याणं कुरु वक्ति च ॥११॥
एतादृशो हि मे भक्तो वृक्षश्रेयोविचारवान् ।
भजतेऽरण्यमध्येऽपि श्रीपतिं मां पुमुत्तमम् ॥१२॥
अन्ये च बहवः काष्ठहाराः स्वयोगमागताः ।
कृता भक्ता वैष्णवाश्च नामकीर्तनतत्पराः ॥१३॥
अरण्ये पिप्पलतरोरधस्ताद् वेदिकोपरि ।
मिलित्वा काष्ठहारैश्च मूर्तिर्मे तु शिलामयी ॥१४॥
दर्शनार्थं स्थापिता च तत्र पुण्ये क्षणे दिने ।
मिलन्ति चापि मध्यान्हे भजन्ते कीर्तयन्ति माम् ॥१५॥
पूजयन्ति हरिं मां च फलैर्जलैर्दलादिभिः ।
वन्यकन्दैस्ततः सर्वे भुञ्जते यान्ति विश्रमम् ॥१६॥
शुभे दिने प्रकुर्वन्ति महोत्सवं नवं नवम् ।
पत्रमण्डपशोभाभिस्तोरणैः पुष्पहारकैः ॥१७॥
प्रनृत्यन्ति कीर्तयन्ति मृदंगादिभिरादरात् ।
एवं कीर्तनभक्तानां नृत्यं च कीर्तनं मम ॥१८॥
प्रियं जातं ततो लक्ष्मि पूजाकाले च नर्तने ।
कीर्तने चाऽदृश्यरूपो भवाम्याकर्णयँस्तदा ॥१९॥
अथाऽहं साधुरूपो वै वनी भूत्वा ययौ तदा ।
मण्डले काष्ठहाराणां पिप्पले वेदिकास्थले ॥२०॥
सत्कृतस्तैः साधुरूपः स्वागतैः पूजितस्तथा ।
भोजितः फलकन्दाद्यैः पादोर्वाहितस्तथा ॥२१॥
देहे सम्मर्दितश्चापि वन्दितोऽहं तदा जनैः ।
स्थितस्तैश्चापि संपृष्टः कथं वै भगवान् प्रभुः ॥२२॥
निराकारो नेत्रलभ्यो भवेदत्र जनार्दनः ।
कथं मोक्षो भवेत् काष्ठहाराणां वनिनां त्विहि ॥२३॥
तदाऽहं कमले ज्ञानं प्रददौ तत्र चोत्तमम् ।
कृपया च प्रकाशं वै हृत्स्वकरवं वैष्णवम् ॥२४॥
काष्ठानां सञ्चये नारायणः स्मर्तव्य एव च ।
काष्ठानां हरणे चापि स्मर्तव्यः श्रीहरिं सदा ॥२५॥
भारस्य बन्धने चापि स्मर्तव्यः परमेश्वरः ।
विक्रयेऽपि प्रवक्तव्यं विक्रीणन्तु हरिं जनाः ॥२६॥
रामसमिधः केशवसमिधः कृष्णशाखिनः ।
विक्रीणन्तु जनाः कृष्णसमिधः कृष्णकाष्ठकम् ॥२७॥
इत्येवं रटनीयोऽयं नारायणः पदे पदे ।
अनादिश्रीकृष्णनारायणो मोक्षप्रदः प्रभुः ॥२८॥
स्मरणीयः सदा श्रीमद्बालकृष्णः श्रियाः पतिः ।
मोक्षदाता स एवाऽऽस्ते चान्तरात्मा दयानिधिः ॥२९॥
स्वर्गदः सुखदश्चापि सम्पदां च प्रदः प्रभुः ।
शाश्वतानन्ददश्चापि सृष्टिसागरतारकः ॥३०॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।
प्रजपन्तु सदा मन्त्रं पावनं पारमेश्वरम् ॥३१॥
सर्वार्पणं प्रकुर्वन्तु काष्ठहारा मयीश्वरे ।
नैष्कर्म्यं पुण्यदं सर्वं भक्त्याख्यं संभविष्यति ॥३२॥
श्रीकृष्णो भगवानस्ति सर्वकारणकारणम् ।
प्रकाशकानां सर्वेषां प्रकाशसम्प्रदो हरिः ॥३३॥
यस्य भासा सर्वमिदं भासते च विभाति च ।
सृष्ट्यादौ चाऽक्षरे धाम्नि वर्तते परमेश्वरः ॥३४॥
राधालक्ष्मीपतिर्मुक्तपतिर्ब्रह्मप्रियापतिः ।
प्रकृतिः स्वेच्छया तेन व्यक्तिं नीता तथा पुमान् ॥३५॥
ताभ्यां सृष्टिः पुरा जाता नारायणप्रवेशिता ।
प्रधानपुरुषौ ताभ्यां ताभ्यां हिरण्यपूरुषः ॥३६॥
ततो विराट् ततो ब्रह्मा ततो महर्षयः सुराः ।
मानवाश्च ततो जाताः पशवः पक्षिणो द्रुमाः ॥३७॥
एवं सर्वमिदं जातं कृतं श्रीपरमात्मना ।
भूतेन्द्रियार्थदेवाद्या वासिता परमात्मना ॥३८॥
यथापात्रं हरिस्तेषु वसते चान्तरेऽस्ति सः ।
प्रेरकः स हरिः कार्ये प्रकाशकश्च माधवः ॥३९॥
नित्यसखा हरिः कृष्णो जीवस्य पारलौकिकः ।
इह लोकेऽपि लोकानां सखा द्रष्टा हरिः स्वयम् ॥४०॥
जीवानां तु कृतं कर्म वीक्ष्य फलप्रदः प्रभुः ।
फलं ददाति जीवेभ्यो देहगेहादिसम्पदः ॥४१॥
स्वर्गं वा नरकं चापि यथाकर्म ददाति सः ।
एवं साक्षी सदा कृष्णो भवतीति निबोधत ॥४२॥
साकारो भगवानेवं सर्वान्तर्यामितां गतः ।
व्यापको वर्तते चापि वर्तते नेत्रगोचरः ॥४३॥
साधुरूपो वर्तते च साधुर्हरिः स्वयं प्रभुः ।
साधोः प्रपूजने कृष्णपूजा भवति शाश्वती ॥४४॥
साधुरूपो मिलत्येव हरिर्दयानिधिः परः ।
भक्तानां पावनः कृष्णः कृपया सत्सु वर्तते ॥४५॥
साधुसेवापरा भक्तास्तरन्ति सृष्टिवारिधिम् ।
साधवो ब्रह्मपरमा मोक्षका देहिनां सदा ॥४६॥
येषां सर्वमिदं ब्रह्मरूपं दृष्टौ प्रदीव्यति ।
निर्विकल्पकचित्तास्ते तारका पापिनामपि ॥४७॥
ये तु जीवेशमायादीन्नेक्षन्ते ब्रह्मदर्शिनः ।
सुखिनस्ते कृष्णसुखैः सुखयन्ति श्रितान् जनान् ॥४८॥
कामक्रोधादिरहिताः श्रीहरौ लग्नमानसाः ।
देव्यदेहा अपि सन्तो विचरन्ति जना इव ॥४९॥
कारयन्ति हरेर्भक्तिं जनानुपदिशन्ति च ।
तारयन्ति जनान् सर्वान् नरान्नारीर्नपुंसकान् ॥५०॥
भावयन्ति कथां रम्यां पालयन्ति वृषोत्तमान् ।
मोक्षयन्ति बन्धनात्ते साधवः कृष्णरूपिणः ॥५१॥
जीवानां बहुयोनीनां स्वस्वकर्मफलानि वै ।
भुञ्जानानां प्रमोक्तारः साधवो भवसागरात् ॥५२॥
यत्र वसन्ति सन्तश्च तेषु नारायणः स्वयम् ।
मानुष्यविग्रहं धृत्वा वसत्येवाऽप्रकाशवान् ॥५३॥
सर्वप्रकाशयुक्तोऽपि नरनाट्यं समीहते ।
क्वचित् कृपावशाद्धत्ते ह्यतिमानवसत्क्रियाः ॥५४॥
मानवं भगवन्तं तं सन्तो जानन्ति नेतरे ।
इतरे तु सतां योगाज्जानन्ति माधवं ततः ॥५५॥
आश्रयन्ति प्रस्निह्यन्ति रमन्ते परमात्मनि ।
ये ते वै संसृतेर्मुक्ता यान्त्यन्ते ब्रह्मधाम ह ॥५६॥
तस्मिन् कृष्णेऽनुरज्यन्ते दीव्यन्ति तत्र मोदिनः ।
आनन्दयन्ति तत्रैवाऽश्नुवते सुखसम्पदः ॥५७॥
जानन्नजानन्नपि यः कृष्णे स्निह्येन्नराकृतौ ।
स भूत्वैव गुणातीतो यात्यन्ते ह्यक्षरं पदम् ॥५८॥
कृष्णस्य दिव्यरूपत्वात् तत्सम्बन्धात्तदाश्रिताः ।
दिव्या दिव्यस्वरूपाश्च भवन्ति ब्रह्मगामिनः ॥५९॥
मायेशस्य हरेर्मायारहितत्वाच्छ्रिता अपि ।
हरेर्बलेन मायां वै तरन्ति प्राकृता अपि ॥६०॥
कामभावेन या नार्यो व्रजाङ्गना हरौ सदा ।
स्निग्धास्ता अपि मुक्तिं वै गता निर्गुणविग्रहाः ॥६१॥
ब्रह्मप्रियाः समस्ताश्च बालकृष्णनरायणे ।
स्निग्धास्ता निर्गुणे कृष्णे निर्गुणत्वं प्रपेदिरे ॥६२॥
कामात् स्नेहाद् गुणात् स्वार्थाल्लग्नायाः परमात्मनि ।
जहुर्गुणमयान् देहान् सद्यस्ताः क्षीणबन्धनाः ॥६३॥
माधवो निर्गुणः कृष्णः सच्चिदानन्दविग्रहः ।
तस्य योगं ययुर्ये या निर्गुणा दिव्यतां गताः ॥६४॥
एवं हरौ सत्यरूपे स्नेहान्मोक्षो भवेद्ध्रुवः ।
साधौ स्नेहात्तथा मोक्षः सन्तः कृष्णस्य मूर्तयः ॥६५॥
सतां योगात् प्रयान्त्येव धामाऽक्षरं परं हरेः ।
हरेरेकान्तिका भक्ता वाञ्छन्ति सेवनं हरेः ॥६६॥
न स्वर्गं नाऽपवर्गं वा न लोकं परमात्मनः ।
नैश्वर्याण्यभिवाञ्च्छन्ति न वाञ्च्छन्ति सरूपताम् ॥६७॥
सामीप्यं नाभिवाञ्च्छन्ति नैकत्वं तु कदाचन ।
वाञ्च्छावन्तः सकामाः स्युर्निम्नकोटय एव ते ॥६८॥
सर्वार्पणात्मभक्तौ सा त्रूटीरेव निगद्यते ।
आत्मनिवेदितायां वै संकल्पस्यापि चार्पणम् ॥६९॥
कृतं यतः पुनर्नैव संकल्पयन्ति स्वार्थकम् ।
अत एव हि निष्कामाः सर्वथा ह्युत्तमोत्तमाः ॥७०॥
हरेः समाज्ञया सेवां वाञ्च्छन्ति स्वेच्छया तु न ।
सेवाफलं परं प्रोक्तं सर्वं तत्र समाप्यते ॥७१॥
प्रसन्नता फलं कृष्णसेवया समवाप्यते ।
नाऽस्मात् फलं परं त्वन्यन्निष्कामानां हृदि स्थितम् ॥७२॥
सेवया लभ्यते श्रेष्ठं किं सालोक्यादिभिस्ततः ।
एकत्वं तु सदा नैव वाञ्छन्ति दास्यहन्तृ यत् ॥७३॥
एकीभावे कथं सेवा कथं प्रसन्नता सुखम् ।
ततो निष्कामभक्ता वै प्रिया हरेर्भवन्ति हि ॥७४॥
भक्तान्निष्कामिनः कृष्णः स्वान्तिके संप्ररक्षति ।
प्रेम्णा कृतां च तत्सेवां प्रेम्णा चाङ्गीकरोति सः ॥७५॥
अनिच्छद्भ्योऽपि भक्तेभ्यः प्रसन्नो भगवान् हरिः ।
महैश्वर्याणि नैजानि ददाति त्वक्षरे प्रभुः ॥७६॥
एवं सन्तोषिणो भक्ताः कृष्णाभाः संभवन्ति ते ।
तत्कृपया सदा सर्वैः साकं रमते मापतिः ॥७७॥
आत्मवत् तत्प्रियास्ते च सन्तुष्टा ज्ञानिनः सुखाः ।
निष्कामा उत्तमास्ते वै भक्ता भवन्ति तत्प्रियाः ॥७८॥
भोजने शयने स्नाने गमने रमणे कृतौ ।
खेलने हेलने वाण्यां विनोदे हसने धृतौ ॥७९॥
निष्कामान् सहवासाँस्तान् रक्षत्येव जनार्दनः ।
असंशयाः सदा भक्ताः प्रिया भवन्ति शार्ङ्गिणः ॥८०॥
इत्येवं चोपदिष्टास्ते लक्ष्मि साधुसुवेषिणा ।
काष्ठहारा मया सर्वेऽभवँस्ते ज्ञानयोगिनः ॥८१॥
अथ मां परमं साधुं ज्ञात्वा नारायणात्मकम् ।
शिश्रियुस्ते मुमुदुश्चाऽर्थयामासुरतः परम् ॥८२॥
साधोर्गुरोर्योगतश्चेद् दर्शनं परमात्मनः ।
योग्या वयं ते शिष्याः स्मस्तदा कारय मुक्तिदम् ॥८३॥
अथाऽहं तानुवाचेदं ध्यानं कुर्वन्तु वै हृदि ।
द्रक्ष्यथोऽत्रैव श्रीनाथं परेशं माधवं हरिम् ॥८४॥
इत्युक्तास्ते नेत्रवृत्तीश्चित्ते निधाय केशवम् ।
दध्युस्तावत् साधुवेषं कृष्णं मां विलुलोकिरे ॥८५॥
साधोर्वेषाद् दिव्यरूपं चतुर्भुजं परेश्वरम् ।
श्रीकान्तं राधिकाकान्तं परेशं विलुलोकिरे ॥८६॥
काष्ठहाराः समस्तास्तेऽक्षरं धाम महोज्ज्वलम् ।
प्रपश्यन् श्रीहरेर्मुक्तैः कोट्यसंख्यैर्विराजितम् ॥८७॥
तत्र सिंहासनं रम्यं गजासनं महोत्तमम् ।
तत्र स्थितं हरिं मां श्रीबालकृष्णं श्रियाऽन्वितम् ॥८८॥
वीक्षयामासुरीशेशेश्वरं राधापतिं प्रभुम् ।
ब्रह्मप्रियापतिं कृष्णनारायणं पुमुत्तमम् ॥८९॥
सेवमानमनन्तैश्च मुक्तैरैकान्तिकैः सुखैः ।
एवं विलोक्य सहसा हृदये साधुरूपिणम् ॥९०॥
पुनस्ते ददृशुः सर्वे ततो बहिःस्थितं यतिम् ।
साधुं विलोकयामासुः सहसा स्नेहसंभृताः ॥९१॥
उत्थाय मां परात्मानं ज्ञात्वाऽरण्ये समागतम् ।
पुपूजुराश्लिषँश्चापि पपुः पादजलं ततः ॥९२॥
प्रसादं च मया दत्तं चखदुस्तेऽतिमोदिताः ।
दिव्यभावं गताः सर्वे दण्डवत् संप्रचक्रिरे ॥९३॥
उत्थायोत्थाय धन्यं च मन्यमानाः प्रमोदिनः ।
ननृतुस्तालिकातानैः कीर्तनं चक्रिरे तथा ॥९४॥
मम पादतले जिह्वाभिश्च चक्रुः सुलोहनम् ।
पादयोरन्तिके सर्वे लुलुटुर्धूलिकास्तरे ॥९५॥
अथ शान्तिं ययुश्चापि ववन्दुर्मां सनातनम् ।
सेवनं चाऽर्थयामासुर्धाम्नि दृष्टं यथा तथा ॥९६॥
तथाऽस्त्वेवं समुच्चार्य तिरोऽभवं द्रुत त्वहम् ।
अथ ते निर्विकल्पा वै ममोपासनवेदिनः ॥९७॥
दिव्या भक्ता अभवँश्च कालेनापि तनुत्यजः ।
ययुर्मे धाम परमं यत्र साध्या वसन्ति वै ॥९८॥
एवं मया काष्ठहारा उद्धृता भक्तितत्पराः ।
लक्ष्मि जांगलदेवाद्याः सहस्रशोऽपि तत्पराः ॥९९॥
सकामास्तत्र ये त्वासन् प्रापितास्ते दिवं प्रति ।
निष्कामाः प्रापिता लक्ष्मि वैकुण्ठं चाक्षरं तथा ॥१००॥
केचित्तु प्रापिता धाम गोलोकं सुमहोज्ज्वलम् ।
केचिच्च प्रापिता लक्ष्मि श्रीपुरं ललितागृहम् ॥१०१॥
अन्ये श्रीबदरीधाम श्वेतद्वीपं तथाऽपरे ।
केचिदव्याकृतं धाम प्रापिताश्चामृतं परे ॥१०२॥
एवमेते मया लक्ष्मि चोद्धृताः काष्ठहारिणः ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेद्ध्रुवम् ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने जांगलदेवादिकाष्ठहाराणां भक्त्या साधुरूपेण श्रीहरेर्दर्शनं चान्ते मोक्षणं चेत्यादिनिरूपणनामा चतुरधिकद्विशततमोऽध्यायः ॥२०४॥
N/A
References : N/A
Last Updated : May 05, 2021
TOP