संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ७६

द्वापरयुगसन्तानः - अध्यायः ७६

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं माहात्म्यं मे ततोऽधिकम् ।
बालेषु चाऽघशून्येषु ह्यनाथेषु वसाम्यहम् ॥१॥
बालानां हृदयं शुद्धं मायाजिह्मत्ववर्जितम् ।
वासनादिरहितेऽस्मिन् साधुवन्निवसाम्यहम् ॥२॥
बालाः सर्वे मूर्तयो मे स्वच्छा आदर्शसदृशाः ।
ब्रह्मावस्थास्ततो बाला योगावस्था यथा जनाः ॥३॥
मूर्त्यवस्थाश्च मे बाला बालिकाश्चाऽष्टवर्षगाः ।
एते सर्वे साधवो वै सनकाद्या यथा पुरा ॥४॥
साधुधर्माः साधवस्ते गृहधर्मास्तु यौवने ।
युवभावविहीनास्तु साधवो ब्रह्मचारिणः ॥५॥
साधुत्वं शीलवर्तित्वं गृहित्वं कामयोगतः ।
कामजये हि साधुत्वं कामिनोऽपि प्रजायते ॥६॥
अकामिनोऽपि संभोगे कामे गार्हस्थ्यमेव तत् ।
न स्त्रीयोगो न पुंयोगो गार्हस्थ्ये कारणं भवेत् ॥७॥
रतिप्रयोगो गार्हस्थ्यं तद्धीनत्वं च साधुता ।
सा च नार्यां नरे चापि भवेन्निष्कामभावने ॥८॥
अकामः सत्यकामो वै सर्वकामः प्रजायते ।
स एव ब्रह्म विज्ञेयो ब्राह्मण्यं साधुतान्वितम् ॥९॥
ब्रह्मिष्ठत्वं दुर्लभं श्रि! साधुत्वं दुर्लभं तथा ।
मत्कृपातो भवत्येव ब्रह्मिष्ठता च साधुता ॥१०॥
साध्वीता मत्कृपातश्च जायते मोक्षदा शुभा ।
वंशोद्धारणकर्त्री च साध्वीता च यथा त्वयि ॥११॥
सत्यधर्मरता साध्व्यः सन्तो ब्रह्मपरास्तथा ।
यदृच्छालाभसन्तुष्टा हठाऽऽडम्बरवर्जिताः ॥१२॥
धर्मलब्धार्थभोक्तारः परमेशसमर्पकाः ।
निर्बन्धाः स्वच्छहृदयाः साधवः साधुभूषणाः ॥१३॥
गुणकर्मतपोभिः श्रि! नरो नारायणो भवेत् ।
मालिन्यं सम्परित्यज्य नीचोऽप्युच्चतरो भवेत् ॥१४॥
यथा जन्मान्तरे शूद्रः कर्मणा धर्मसंभृता ।
उत्तरे जन्मनि विप्रो जायते पुण्ययोगतः ॥१५॥
तथैकस्मिन् जनौ चापि ब्रह्माचारैस्तु ब्राह्मणः ।
जायेत ब्राह्मणेतरो विप्रोऽपि शूद्रतां व्रजेत् ॥१६॥
शुभाऽशुभक्रियासंगपापपुण्यबलं महत् ।
विवर्तयति धर्मान् वै सत्त्वाधिको हि भूसुरः ॥१७॥
रजोऽधिको भवेद् राजा तमोऽधिकस्तु शूद्रकः ।
सत्त्वरजोभ्यां संस्पृष्टो वैश्यो भवति शोभनः ॥१८॥
रजस्तमोभ्यां संस्पृष्टो वैश्यो भवत्यशोभनः ।
तमोमात्राबहुलस्तु घातकी श्वपचो भवेत् ॥१९॥
सत्त्वमात्राबहुलस्तु विप्रः साधुः सती भवेत् ।
ब्रह्मयोगबहुलस्तु मुक्तो भवति वै क्षितौ ॥२०॥
इत्येतत् कथितं लक्ष्मि चोत्कृष्टत्वं शुभावहम् ।
मम योगपरश्चात्र नारायणोऽपि जायते ॥२१॥
तद्योगेन तथा चान्ये नारायणा भवन्त्यपि ।
एवं परम्परा नारायणानां मम योगतः ॥२२॥
भवत्येव प्रभावेण ममैश्वर्यादिलाभतः ।
नारायणा नराः सर्वे नारायण्यः स्त्रियस्तथा ॥२३॥
उपासनया जायन्ते ममैव परमात्मनः ।
देवता वसवो रुद्रा जायन्ते विष्णवस्तथा ॥२४॥
उपासनया जायन्ते ब्रह्माणश्चेश्वरास्तथा ।
ईश्वराण्यश्च जायन्ते ममोपासनया रमे ॥२५॥
वीतरागा विमुच्यन्ते कर्मभिः कर्मबन्धनैः ।
यैश्च नारायणास्ते वै जायन्ते समनुष्ठितैः ॥२६॥
तानि सर्वाणि कर्माणि मदुपास्तिमयानि हि ।
ऋते चोपासनां मे वै बलि कर्म नास्ति वै ॥२७॥
उपासना सकामानां कामनापूरिका भवेत् ।
निष्कामानामहं स्मृद्धः स्मृद्धिदाता प्रसह्य वै ॥२८॥
कर्मणा मनसा वाचा मामुपास्ते हि भक्तिमान् ।
न सज्जने च कर्तव्ये बन्धनं नैव गच्छति ॥२९॥
प्राणयात्राऽतिपाताद्वै विरताः शीलयोगिनः ।
तुल्यद्वेषप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ॥३०॥
सर्वभूतदयावन्तो विश्वास्याः सर्वदेहिनाम् ।
कृतभक्तिसमाचारा लोकास्ते धामगामिनः ॥३१॥
स्वार्थशून्याः परकार्यसहायदा निराशया ।
धर्मलब्धप्रतुष्टाश्च लोकास्ते धामगामिनः ॥३२॥
नारीवर्गेषु पश्यन्ति मातृस्वसृदुहितृवत् ।
नरवर्गेषु पश्यन्ति पितृमातृसुपुत्रवत् ॥३३॥
यथोक्तसाधुसेवाढ्या मम भक्तिपरायणाः ।
अस्तेना भाग्यजीवाश्च लोकास्ते धामगामिनः ॥३४॥
नैजभोग्यरता ये च धर्मकालाभिसारिणः ।
अग्राम्यसुखलुब्धाश्च हृच्चक्षुस्तेजसाऽन्विताः ॥३५॥
इन्द्रमार्गानुसाराश्चेन्द्रियाऽवश्याऽऽत्मसंस्थिताः ।
मम भक्तौ कृतावासा लोकास्ते धामगामिनः ॥३६॥
अकषायकृतो मार्गो दानधर्मतपोमयः ।
शीलशौचदयाढ्यश्च भक्तिसेवाऽर्पणाऽन्वितः ॥३७॥
आशीःप्रसन्नतादश्च सत्संगफलवर्धनः ।
नैर्मल्यधीप्रकर्षाढ्यः सेवनीयः सदा बुधैः ॥३८॥
आत्महेतोः परार्थे वा नर्महास्याश्रयाच्च वा ।
मृषाभावविहीना ये यान्त्यकषायसत्पथे ॥३९॥
वृत्त्यर्थं धर्महेतोर्वा कामकाराच्च ये जनाः ।
भाषन्ते नाऽनृतं ते वै यान्त्यकषायसत्पथे ॥४०॥
मिष्टां वाणीं बाधशून्यां पापलेशविवर्जिताम् ।
हार्दस्नेहां ये भाषन्ते यान्त्यकषायसत्पथे ॥४१॥
अपैशून्यरताः सन्तो मित्राऽभेदप्रवर्तनाः ।
अद्रोहाः ऋतमैत्राश्च यान्त्यकषायसत्पथे ॥४२॥
शाठ्यशून्याः सौम्यवाचः कोपभावविवर्जिताः ।
हृद्विदारणशून्यास्ते यान्त्यकषायसत्पथे ॥४३॥
सान्त्वयुक्ता हितवाचः सत्यगुणा हरिश्रिताः ।
साधवः साध्विका लक्ष्मि यान्त्यकषायसत्पथे ॥४४॥
मनसाऽपि न वाञ्च्छन्ति निर्जनेऽपि धनं परम् ।
न्यस्तं वा मिलितं ये ते यान्त्यकषायसत्पथे ॥४५॥
ग्रामे गृहेऽपि पारक्यं नाभिवाञ्च्छन्ति वै क्वचित् ।
अजातशत्रवो ये ते यान्त्यकषायसत्पथे ॥४६॥
श्रुतवन्तो भक्तिमन्तः सत्यदयाप्रपालकाः ।
नित्यतुष्टा विरागास्ते यान्त्यकषायसत्पथे ॥४७॥
मैत्रीचित्तरताः श्रद्धास्नेहोपकारसम्मुखाः ।
फलविपाकविज्ञास्ते यन्त्यकषायसत्पथे ॥४८॥
न्याय्याऽऽग्रहाः स्वर्गशीलाः समुत्थानपरायणाः ।
आत्मनिष्ठा मत्परास्ते यान्त्यकषायसत्पथे ॥४९॥
महाप्राज्ञा ब्रह्मपरा ज्ञानविज्ञानभाविनः ।
तर्कशास्त्रपरा ये ते यान्त्यकषायसत्पथे ॥५०॥
पापत्रासान्विताश्चापि श्रेयःसाधनतत्पराः ।
आनृण्याऽभिलषुकास्ते यान्त्यकषायसत्पथे ॥५१॥
ये तु शुक्लाभिजातीयाश्चात्मद्रोहविवर्जिताः ।
जन्तुत्रासाकराश्चाप्यभयदानप्रदास्तया ॥५२॥
आत्मवत्स्नेहभावाश्च देववत्सुघटाः शुभाः ।
दैवाचाराः सौम्यभावा यान्त्यकल्मषसत्पथे ॥५३॥
सुवृत्ताः सत्कर्मिणश्च प्राणिद्रोहविवर्जिताः ।
दीर्घायुषो भवन्तीह यान्त्यकल्मषसत्पथे ॥५४॥
दाता सतां च सत्कर्ता दीनार्तकृपणादिषु ।
भक्ष्यभोज्यान्नपानानां दाताऽम्बरादिदायकः ॥५५॥
भक्तियोगकृतावासो ज्ञानदानप्रदायकः ।
शरणागतरक्षश्च यात्यकल्मषसत्पथे ॥५६॥
प्रतिश्रयान् सभाः कूपान् कुर्यात् पुष्करिणी प्रपाः ।
आसनं शयनं यानं गृहं रत्नं धनं मनः ॥५७॥
सस्यजातानि सर्वाणि गाः क्षेत्राणि च कन्यकाः ।
यश्च प्रीतमना दाने प्रयच्छति च पात्रके ॥५८॥
सर्वस्वार्पणकर्ता वै यात्यकल्मषसत्पथे ।
देवताद्विजसाधूनां सतीनां पूजकस्तथा ॥५९॥
नमस्कर्ता प्रश्रितश्च सर्वप्रियकरः शुचिः ।
सर्वहितः सुमुखश्च यथार्हसत्क्रियापरः ॥६०॥
सन्मार्गदर्शी गुर्वर्ची यात्यकल्मषसत्पथे ।
सम्मतः सर्वभूतानां सर्वलोकनमस्कृतः ॥६१॥
उदात्तकुलजातीय उदात्ताभिजनस्तथा ।
मैत्रदृष्टिः पितृसमो विश्वास्यः सर्वजन्तुषु ॥६२॥
भक्तिमान् मे महापुण्यो यात्यकषायसत्पथे ।
एवंविधः सदा लक्ष्मि निर्बाधं सुखमेधते ॥६३॥
एष श्रेष्ठः सतां पन्था बाधा यत्र न विद्यते ।
साधून् वै वेदविदुषः सिद्धान् भक्तियुतांस्तथा ॥६४॥
सेवन्ते ये भावयुता वर्जयन्त्यशुभं सदा ।
तेषां शाश्वतसौख्याढ्यः पन्था ब्रह्मगतिप्रदः ॥६५॥
एषां समागमैर्लक्ष्मि कल्याणानि भवन्ति वै ।
श्रेयांसि सर्वरूपाणि स्वर्गाण्यसंख्यकानि च ॥६६॥
प्रतिपद्यन्त एवाऽत्र सतां धर्मे स्थितस्य वै ।
नृणां हितार्थमेवाऽत्र मया ते समुदाहृतम् ॥६७॥
हितं चात्मा विवेकस्थो निजं जानाति चान्तरे ।
परं कर्तुं न शक्नोति विना सद्गुरुसंश्रयम् ॥६८॥
पुण्यं लब्धुं समिच्छन्ति मानवाः सर्वदा प्रिये ।
पुण्यहेतून्न कुर्वन्ति मूढाः सत्यपि वैभवे ॥६९॥
सतां संगान्ममसंगात् साध्वीसंगाच्छुभं परम् ।
श्रेयः परं भवत्येव जानन्त्येव च तत्तथा ॥७०॥
तथापि पापबाधाभिर्बाधितास्तर्कनिम्नगाः ।
अभिमानमहादुष्टग्रासाननगताः सदा ॥७१॥
न सेवन्ते सतः साध्वीर्नार्चयन्ति च मां तथा ।
विषयेष्वभिरागाश्च पतन्ति निरयादिषु ॥७२॥
न तरन्ति पापदुष्टा मायानदीं मनोहराम् ।
नास्तिका दानशून्याश्च भावशून्याः प्रदूषकाः ॥७३॥
भक्तिभावविहीनाश्च दिव्यभावविवर्जिताः ।
दुष्टभावयुता नित्यं देहदृष्टियुताः सदा ॥७४॥
निकृष्टकर्मसु रताः स्वार्थमात्रपरायणाः ।
उदरेन्द्रियसुतृप्ता बाह्यसौख्याभिदृष्टयः ॥७५॥
अनात्ममात्रनिरता यान्ति निरयमेव ते ।
आत्ममात्ररताः साधुधर्मरताश्च सेवकाः ॥७६॥
आज्ञापालनकर्तारो यान्त्यकल्मषमत्पथे ।
वर्णास्तथाऽऽश्रमा लक्ष्मि ये केऽपि स्युर्नराः स्त्रियः ॥७७॥
वृद्धाशीर्वादसौभाग्याः प्रयान्ति स्वर्गमेव ते ।
वध्वः कन्याः कुमार्यो वा स्वामिन्यो वा सपुत्रकाः ॥७८॥
अपुत्रा वाऽपि वृद्धाऽऽशीर्वादस्थाः स्वः प्रयान्ति ताः ।
प्रधाना वापि राजानो भृत्या वा दीनवर्तिनः ॥७९॥
ससत्ता वाऽप्यसत्ता वा नित्यं वृद्धोपसेविनः ।
ऋजवो नम्रतासाराः स्वः प्रयान्ति न संशयः ॥८०॥
येऽत्र लोके यशोभागाः सेवकाः स्वर्गभागिनः ।
ते गन्तारः पदं चोर्ध्वं ममाऽनुग्रहसंभवात् ॥८१॥
साधुशीलाः साधुवृत्ताः क्षमिणः सेविनस्तथा ।
सेवाभिः सुखदातारो द्युगता यान्ति मत्पदम् ॥८२॥
येषां मुखे हरेर्नाम हृदये श्रीहरिः स्वयम् ।
वृद्धाज्ञावचनाश्चापि मत्पदाश्रयिणो हि ते ॥८३॥
गोसुतासुतदातारो वाटिकाक्षेत्रसौधदाः ।
कटिसक्थ्यंकदातारो द्युगता यान्ति मत्पदम् ॥८४॥
गां विप्राय सुतां कुमाराय सुतं च साधवे ।
वाटीं देवाय मे क्षेत्रं सौधं कुटुम्बियोगिने ॥८५॥
कटिं बलं च भीताय शरणं सक्थि कष्टिने ।
अंकं द्रव्यं दरिद्राय दत्वा यान्ति दिवं जनाः ॥८६॥
ततो भक्तिं ममाऽऽसाद्य मह्यमर्पणकारिणः ।
त एव साधवो यान्ति मत्पदं कमलाश्रितम् ॥८७॥
केशौष्ठगण्डदातारो वक्षःपृष्ठकरप्रदाः ।
ग्रीवाजंघापाददाश्च यान्ति स्वर्गं च मत्पदम् ॥८८॥
केशान् ब्रह्मेशविष्णूँश्च दत्वा सन्न्यासमाश्रिताः ।
प्रयान्ति मम भक्तास्ते स्वर्गं ततोऽमृतं पदम् ॥८९॥
ओष्ठौ चादेशमन्त्रौ च दत्त्वाऽऽचार्यपदं श्रिताः ।
प्रयान्ति भक्तिमन्तो मे स्वर्गं धामाऽक्षरं ततः ॥९०॥
गण्डौ प्रेमस्नेहभावौ हार्दिकौ भक्तिपूर्वकौ ।
दत्वा मे मम भक्ताः श्रि! प्रयान्ति स्वस्ततोऽक्षरम् ॥९१॥
वक्षो विश्वासमेवाऽपि कृत्वा दत्वा च तं मयि ।
विश्वस्तो याति वै स्वर्गं ततो मत्पदमक्षरम् ॥९२॥
पृष्ठं साहाय्यमार्प्यैव परलोकप्रदं शुभम् ।
स्वर्गे पूर्वं ततो भक्त्या याति मद्धाम चोत्तमम् ॥९३॥
करौ सेवां च दास्यं च कृत्वा दत्वाऽर्पणं मयि ।
स्वर्गं याति ततो भक्त्या मम धाम प्रयाति सः ॥९४॥
ग्रीवां सर्वस्वमेवाऽपि जीवदानमथापि वा ।
प्राणदानं च मे दत्त्वा याति स्वर्गं ततोऽक्षरम् ॥९५॥
जंघे सम्पत् कुलं चोभे दत्वा मे स्वः प्रयाति हि ।
ततोऽर्पय्य समस्तं च मम धाम प्रयाति सः ॥९६॥
पादौ धनं जीविकां च यो ददाति महात्मने ।
स्वर्गत्वा मम भक्त्या च प्रयाति धाम चाऽक्षरम् ॥९७॥
एवं दानानि वै लक्ष्मि ज्ञात्वा नार्या नरेण च ।
यथार्थानि च गुप्तानि देयानि मोक्षकांक्षया ॥९८॥
योषादानं प्रदातव्यं बहुभावेन वै सदा ।
योषा माया समाख्याता या उषा रजनीमुखा ॥९९॥
बन्धयित्री हि जीवानां सा देया परमात्मने ।
स्वयं मायाविहीनः सन् प्रयाति परमं पदम् ॥१००॥
कन्यादानं प्रदातव्यं कुमाराय सुखप्रदम् ।
कन्या तृष्णा सुखाशा सा कुमाराय परात्मने ॥१०१॥
शार्ङ्गिणे मारशून्याय दत्वाऽऽत्मा धाम संव्रजेत् ।
गोदानं च प्रदातव्यं गोः ज्ञानं श्रीहरेः शुभम् ॥१०२॥
दत्वा दाता ग्रहीता च यातारौ धाम चाऽक्षरम् ।
इत्येवं लक्ष्मि विज्ञाय माहात्म्यं मम ये त्विह ॥१०३॥
कर्मभूमौ प्रकुर्वन्ति विचरन्ति विमुक्तये ।
शाश्वतानन्दभोक्तारो भवन्ति मत्पदाश्रये ॥१०४॥
इत्येवं कथितं तेऽत्र माहात्म्यं मम योगजम् ।
अधिकं पठनाच्चापि श्रवणाद् भुक्तिमुक्तिदम् ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने ब्राह्मण्यसाधुत्वप्रापकसाधनानि धामगमनसाधनानि चाऽकषायसत्पथसाधनानि दिव्यदानादीनि हरेर्योगश्चेत्यादि-
निरूपणनामा षटसप्ततितमोऽध्यायः ॥७६॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP