द्वापरयुगसन्तानः - अध्यायः ९८
लक्ष्मीनारायणसंहिता
श्रीनारायणीश्रीरुवाच-
महत्यापद्गतस्यापि यथोद्धारो द्रुतं भवेत् ।
तथा मे दर्शय कृष्णकान्त लोकहिताय वै ॥१॥
श्रीपुरुषोत्तम उवाच-
प्रणमामि सदा सद्भ्यो येषां ब्रह्मपरं धनम् ।
येषां करतले स्वर्गो मोक्षोऽपि वचने स्थितः ॥२॥
ये बाला वा युवानो वा वृद्धा वा साधवोऽमलाः ।
उद्वहन्ति हरेर्भक्तेर्धुरं नमामि तानहम् ॥३॥
ब्रह्मविद्यासु निष्णाता विनीता वशमानसाः ।
ब्रह्मभाषाः श्रुतवन्तो व्रतिनः साधुभूषणाः ॥४॥
अक्षरब्रह्मरूपाणां संसत्सु ब्रहावादिनः ।
मांगल्यरूपा रुचिरा ये तान्नमामि सज्जनान् ॥५॥
ये तेषामपि संसेव्या ब्रह्मसदसि चाग्रगाः ।
विज्ञानध्यानसम्पन्नास्तेभ्योऽधिस्पृहयाम्यहम् ॥६॥
सत्सु शुश्रूषमाणेषु प्रेत्य चेह सुखं महत् ।
सर्वापदां विनाशश्च त उद्धारकराः शुभाः ॥७॥
सुसंस्कृतानि चान्नानि शीतानि सलिलानि च ।
रम्याणि चाम्बराण्येभ्यो दातव्यानि सदा रमे! ॥८॥
धन्यः स्याद् यः साधुकुले जन्म लभेत पुण्यवान् ।
भवेद् यश्चोत्तरे काले कोटिदेहिप्रमोक्षदः ॥९॥
न मे त्वत्तः प्रियतरा लक्ष्मि काऽपि भुवस्तले ।
ब्रह्मप्रियाः प्रियाः सर्वाः सन्त प्रियतमा मम ॥१०॥
न मे पितरौ कमले तथा प्रियतरौ त्विह ।
यथा मे साधवः शान्ताः प्रियोत्तमोत्तमाः सदा ॥११॥
महत्यापद्गतस्याऽपि साधवोऽत्र शुभावहाः ।
भजनीयाः पूजनीयाः सुराणामपि देवताः ॥१२॥
सात्त्वतश्चेति मां लोकाः प्राहुस्तुष्यामि तेन च ।
सतां योगेन साध्वीशं मामाहुर्भक्तिकारिणः ॥१३॥
यथा भर्त्राश्रयो धर्मो नारीणां विद्यते तथा ।
सर्वेषां तु सदाचारः साध्वाश्रयो वृषो मतः ॥१४॥
विप्रक्षत्रविशां चापि साधवो गुरवो मताः ।
देववत् कृष्णवत् पूज्याः सेवनीया हि साधवः ॥१५॥
अग्निवत् सेवनीयास्ते ब्राह्मणैः साधवोऽमलाः ।
साधूनां सेवनैस्तिष्ठेद् ब्राह्मण्यं सर्वपावनम् ॥१६॥
पत्यभावे यथा नारी देवरं कुरुते पतिम् ।
प्रजास्तथा साध्वभावे प्रतिमां कुरुते प्रभुम् ॥१७॥
ऋजून् सतः सत्यशीलान् सर्वप्राणिहिते रतान् ।
सुहृदः सर्वजीवानां साधून् परिचरेत् सदा ॥१८॥
राजा स्वजनकं यद्वद् रक्षेत् साघुजनं तथा ।
आश्रमे चान्ववेक्षेत किंस्विदस्तीति जीवनम् ॥१९॥
ब्रह्मिष्ठान् ब्रह्म च तथा सर्वथा पालयेद् धनी ।
भिक्षातृप्तसतामाशीर्वादानासादयेद्धनी ॥२०॥
प्रतिश्रुत्य न दातव्यं तदेव नरकं महत् ।
आशाहन्तुर्हि यत्पापं सर्वसुकृतनाशकम् ॥२१॥
हुतं दत्तं तपस्तप्तं चाशाहन्तुर्विहन्यते ।
आशादानं त्वश्वमेधयज्ञपुण्यं करोति वै। ॥२२॥
आशापूर्तिर्विष्णुयागसहस्रफलदा भवेत् ।
तस्मादाशां प्रदायैतां पूरयेच्च यथाबलम् ॥२३॥
एकदा श्वपचगृध्रौ श्मशाने मिलितौ तदा ।
गृध्रं परासुं खादन्तं पप्रच्छ श्वपचः शनैः ॥२४॥
किं त्वया वै कृतं पापं यदश्नासि प्रपूतिकम् ।
कुत्सितं मृतकं चातिदुर्गन्धं क्लेदितं त्विह ॥२५॥
गृध्रः प्राह पुरा चाऽहमभूवं लोभवान् धनी ।
प्रतिश्रुत्याऽपि च ददौ नैव वाऽपूर्णमेव वा ।
तेन पापेन संजातो गृध्रश्चात्र श्मशानगः ॥२६॥
तस्मादेवं चातिदुष्टं भक्षयामि बुभुक्षितः ।
परं ते श्वापचं जन्म कथं जातं नु मे वद ॥२७॥
श्वपच प्राह पूर्वेऽहं धनधान्ययुतोऽपि सन् ।
साधूनां निन्दकश्चाऽऽसं ब्राह्मणोऽपि घृणी सति! ॥२८॥
दृष्ट्वा साधून् धिक्करोमि तिरस्करोमि नर्म च ।
न ददामि क्वचिद् भिक्षां वारयामि परं ह्यपि ॥२९॥
तेन पापेन सर्वस्वं गृहदारसुतादिकम् ।
नष्टं वह्निप्रकोपेन दग्धं दग्धोऽहमित्यतः ॥३०॥
यमलोकं गतस्तत्र याम्यैरन्धतमिस्रके ।
निक्षिप्तौ बहुवर्षाणि निष्कास्य नेत्रजिह्विके ॥३१॥
अथाऽहमभवं वागुरिका विष्टामुखी ततः ।
सर्पोऽहमभवं पश्चाद् घूकस्ततोऽथ गोधिका ॥३२॥
ततोऽस्मि जातश्चाण्डालः साधूनां निन्दनात् खलु ।
तस्मान्न साधवः क्वापि तिरस्कार्या हरेः प्रियाः ॥३३॥
भिक्षा नैषां वारणीया दानं वार्यं न वै क्वचित् ।
तेषां वस्तु न हर्तव्यं देयं तेषां तु तुष्टये ॥३४॥
ब्रह्मिष्ठैः साधुभिः साकं साध्वीभिश्च तथा जनैः ।
समं विवादो मोक्तव्यो दातव्यं च प्रतिश्रुतम् ॥३५॥
न कार्यं निन्दनं तेषां श्रवणीयं न कर्हिचित् ।
विप्रत्वस्य न वै गर्वः कर्तव्यः सन्निधौ सताम् ॥३६॥
विप्रा ये गृहिणस्ते तु स्त्रीश्मशानप्रसेविनः ।
साधुभ्यो निम्नमार्गस्था विप्रैः पूज्या हि साधवः ॥३७॥
ये मूत्रक्लिन्नसंसक्तास्ते वै निरयगामिनः ।
तानुद्धर्तुं समर्थास्ते साधवः शीलयोगिनः ॥३८॥
न स्तेनस्तारयेत् स्तेनमस्तेनो यः स तारयेत् ।
न कामी तारयेत् कामादकामस्तारयेद् रतम् ॥३९॥
न हर्तव्यं साधुवस्तु क्षन्तव्यं तेषु नित्यशः ।
बालाश्च नाऽवमन्तव्याः कृपणा वाऽप्यशक्तयः ॥४०॥
आशा कार्या न सततं साधुभ्यः स्वार्थसाधिका ।
नैव साधून् नियुञ्जीत भृत्यवद् भोजनाप्तये ॥४१॥
जलाप्तये तथा खष्ट्वागेन्दुकाद्युपलब्धये ।
आसनार्थं च वासार्थं चाश्रयार्थं च मन्दिरे ॥४२॥
नाऽऽयासे योजयेत् साधुं यतः पुण्यं विनश्यति ।
साधुवासे गृहस्थैर्वै वस्तव्यं नहि कर्हिचित् ॥४३॥
सत्संगार्थं प्रगन्तव्यं क्लेशार्थं नहि कर्हिचित् ।
निद्रार्थं मलमूत्रादित्यागार्थं वा सदाश्रमे ॥४४॥
गन्तव्यं नैव नैजीयांऽगिककार्यनिवर्त्तये ।
साधूनां शान्तिकाले वा विक्षेपश्चलता तथा ॥४५॥
अयोग्याचार एवापि कर्तव्यो न कदाचन ।
साधूनां सन्निधावुच्चासने स्थेयं न कर्हिचित् ॥४६॥
विवादो नैव कर्तव्यो वाचा धनेन कर्मणा ।
ज्ञानेन स्वस्य निर्वाहार्थं वा बलेन लोभिना ॥४७॥
दुष्टमानुषसंगेन वादः कार्यो न सज्जनैः ।
तद्धनाशा न कर्तव्या वशे कार्या न साधवः ॥४८॥
निरीक्षणं हि साधूनां कार्यं न दैहिकं क्वचित् ।
रागद्वेषस्वभावाः स्वाः प्रयोक्तव्या न साधुषु ॥४९॥
साध्वाश्रमे ग्राम्यकथाः क्लेशकथा मृषाकथाः ।
भोगकथा न कर्तव्या नोच्चार्यं चाऽपमानकृत् ॥५०॥
योजनीयो न गर्वश्च बलं सत्ता न साधुषु ।
निम्नीकार्या न वै सन्तो यतः पुण्यं विनश्यति ।५१॥
अहं जानामि साधुः किं जानतीत्येव गर्विता ।
कर्तव्या नैव वै क्वापि गर्वः पतनकारणम् ॥५२॥
साधुं दृष्ट्वा प्रणमेच्चाऽनमनं पुण्यघातकम् ।
स्वस्य कामादिकान् दोषान् नारीदोषान् निजात्मकान् ॥५३॥
स्वस्वभावस्य कालुष्यं न प्रयुञ्जीत साधुषु ।
साध्वाश्रमे प्रगन्तव्यं गुणलाभार्थमेव ह ॥५४॥
बहवः सन्ति लोकेऽत्र खलेश्वरा जना अपि ।
स्वस्य विषयतृप्त्यर्थं स्पर्शतृप्त्यर्थमित्यपि ॥५५॥
दृष्टितृप्त्यर्थमेवाऽपि यान्ति स्त्रीसंघभूस्थलीम् ।
मन्दिरे चोत्सवे तीर्थे यत्र स्त्रीजनमर्दनम् ॥५६॥
सम्मर्दे सम्प्रयान्त्येव लीलाख्यानकथादिषु ।
दोषान् गृह्णन्ति तत्रैव साधूनां योषितां तथा ॥५७॥
तेन पापेन जात्यन्धाः कुष्ठिनश्च नपुंसकाः ।
जायन्ते दीर्घरोगाश्च दरिद्राः कृपणास्तथा ॥५८॥
नार्योऽपि च तथाचेष्टा जायन्ते रोगसंभृताः ।
अपत्यादिविहीनाश्च धनधान्यादिवर्जिताः ॥५९॥
तस्माद् दोषान्न गृह्णीयात् साध्वीनां च सतामपि ।
गुणानेव हि गृह्णीयात् सुखदान् पुण्यदान् शुभान् ॥६०॥
यथेक्षुदण्डतः सूक्ष्मकण्टकाँश्चमरान् दलान् ।
त्वक्कूर्चान् संविहायैव रसं गृह्णन्ति मानवाः ॥६१॥
यथा भोज्यगतान् शाके क्षिप्तान् दग्धमरीचकान् ।
पत्रादिकान् परित्यज्य शाकमात्रं प्रभुञ्जते ॥६२॥
यथा फलगतान् बीजत्वगादीन् संविहाय वै ।
भुञ्जते गर्भमात्रं वै रसान् चूषन्ति देहिनः ॥६३॥
यथा वृक्षगतान् दोषाँस्त्यक्त्वा गृह्णन्ति तत्फलम् ।
यथा वल्लीगतान् दोषाँस्त्यक्त्वा गृह्णन्ति पुष्पकम् ॥६४॥
तथा साधुगताँस्त्याज्याँस्त्यक्त्वाऽर्जयेत तद्गुणान् ।
एवं वै वर्तमानस्य पुण्यप्राप्तिः पदे पदे ॥६५॥
आयुर्विद्यायशोवृद्धिर्धनधान्यर्द्धिसम्पदाम् ।
अनन्तत्वं प्रजायेत साधुसद्गुणसंजुषाम् ॥६६॥
साधवो हि यदा तुष्टाः प्रतिनन्दन्ति सेवकम् ।
तद्गृहं संभवत्येव सर्वरत्नोपबृंहितम् ॥६७॥
पुत्रान् पौत्रान् पशूँश्चापि बान्धवाँश्च कुटुम्बिनः ।
ग्रामं जनपदं चापि साधुतुष्टिः प्रपोषयेत् ॥६८॥
साधुजनस्य दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः ।
मोक्षश्चाऽर्जयितुं शक्यः साधुसेवा परा क्रिया ॥६९॥
सद्भ्यो दत्तेन जीवन्ति देवताः पितरोऽपि च ।
मुक्तास्तुष्यन्ति भगवान् भुंक्ते साधुजनेषु वै ॥७०॥
तस्माद् दानानि देयानि साधुभ्यः प्रविजानता ।
तीर्थं सुदिव्यमेवाऽऽस्ते साधुमूर्तिः सुचेतना ॥७१॥
अधमोद्धारकाः सन्ति साधवो मम मूर्तयः ।
अनाथानां सनाथास्ते दुःखिनां दुःखहारकाः ॥७२॥
पापानां क्षालकाश्चापराधिनां दोषनाशकाः ।
तिरस्कृतानां शरणप्रदातारो हि साधवः ॥७३॥
शृणु पूर्वकथां वच्मि साधुभिस्तारितो द्विजः ।
हिमालयेऽभवद् रम्यमाश्रममृषिसेवितम् ॥७४॥
ऋषिधामाश्रमं नाम सिद्धर्षिविप्रशोभितम् ।
व्रतिभिस्तापसैश्चापि नियमिभिश्च दीक्षितैः ॥७५॥
कृतात्मभिस्तथा साधुयतिभिः सन्निवेशितम् ।
ऋषेस्तु दीर्घतपसो द्विजश्रेष्ठस्य योगिनः ॥ ॥७६॥
तत्र कश्चित् समायातः शबरो वनजीवनः ।
ददर्शर्षिगणान् देवकल्पाँस्तपोरतान् शुभान् ॥७७॥
निश्चिकाय तपस्तप्तुं पप्रच्छ दीर्घतापसम् ।
धर्मं मे भगवन् वक्तुं प्रव्राजयितुमर्हसि ॥७८॥
शूद्रोऽहृं कर्तुमिच्छामि शुश्रूषां ते प्रसीद मे ।
दीर्घतपास्तदोवाच शूद्रस्त्वं वर्तसे यतः ॥७९॥
प्रव्राजयितुं शक्यं न ह्यधिकारविवर्जनात् ।
आस्यतां चैवमेवाऽत्र शुश्रूषां कुरु रोचते ॥८०॥
शुश्रूषया पराँल्लोकानवाप्स्यसि वनेचर ।
इत्युक्तः स शबरोऽपि मुमुदे चाश्रमान्तिके ॥८१॥
वृक्षाऽधोभागके नैजां स्थलीं कृत्वा ह्युवास ह ।
भोजनं फलपुष्पादि चक्रे शुश्रूषणमृषेः ॥८२॥
एकदा स्वस्वभावेन वन्यं शशं दधार सः ।
मारयित्वाऽदनं चक्रे ऋषेराश्रमसन्निधौ ॥८३॥
अथैनं हिंसकं शूद्रं तत्यजुः ऋषयश्च ते ।
शेपुश्च राक्षसो भूत्वा भव दुःखी वनान्तरे ॥८४॥
तूर्णं स राक्षसो भूत्वा विकृतो व्यचरद्वने ।
क्षुधातृषातिदुःखाढ्यो ययौ गंगातटे ततः ॥८५॥
तत्राऽनेन तपोमग्नः साधुर्भक्तिपरायणः ।
नाम्ना नारायणमुनिर्दृष्टो वैष्णवसत्तमः ॥८६॥
साधुं भक्षयितुं तूर्णं राक्षसः प्रययौ तटम् ।
साधुर्दृष्ट्वा राक्षसं तं दृष्ट्या व्यलोकयत्तथा ॥८७॥
जलं चिक्षेप शिरसि राक्षसस्य च वर्ष्मणि ।
पवित्रो भव धर्मात्मा दुःखाद् विरहितो भव ॥८८॥
शापमुक्तो भवाऽत्रैव साधोर्मे सन्निधौ ह्यघिन् ।
इत्येवमुक्तः शबरो जलस्पर्शेन सत्वरम् ॥८९॥
विहाय राक्षसं भावं दिव्यो बभूव मानवः ।
अथ चोद्धारकं साधुं नारायणमुनिं ततः ॥९०॥
सिषेवे परया प्रीत्या पावनी लोकपावनः ।
शूद्रोऽपि साधुयोगेन भक्तिमानभवत्ततः ॥९१॥
साधोराज्ञां गृहीत्वैव ययौ वनान्तरं प्रति ।
भेजे नारायणं नित्यं तपश्चचार दारुणम् ॥९२॥
शबरः स तु देहान्ते राज्यं श्रेष्ठमवाप्तवान् ।
उज्जयिनीनृपो वीरविक्रमो ह्यभवद्धि सः ॥९३॥
भुक्त्वा भोगान् हरेश्चापि कृत्वा भक्तिं तथोत्तमाम् ।
ययौ धामाऽक्षरं मुक्तो बभूव सत्प्रसंगतः ॥९४॥
तत्कुटुम्बं साघुसेवां कृत्वा ययौ परं पदम् ।
तस्माद् गृध्र सदा सेव्याः साधवः साधुभूषणाः ॥९५॥
आगच्छाऽत्रसमीपेऽस्ति साधुः कृष्णस्तवाऽभिधः ।
तमाश्रित्य भविष्यावो धूतपापौ हि पावनौ ॥९६॥
इत्युक्त्वा लक्ष्मि ययतुः कृष्णस्तवाभिधं प्रति ।
नेमतुस्तुष्टुवतुश्चाऽर्थयामासतुरेव च ॥९७॥
मोक्षणं चाथ साधुस्तौ पाययामास वारि च ।
प्रसादं भोजयामास कृतवान् पावनो द्रुतम् ॥९८॥
पापं प्रज्वालयामास श्रावयामास कीर्तनम् ।
नाम नारायणं चापि ददौ तूर्णं हि तावुभौ ॥९९॥
भौतिकौ तु तदा देहौ त्यक्त्वा साधुप्रतापतः ।
ययतुस्तौ पापहीनौ स्वर्गं देवौ बभूवतुः ॥१००॥
साध्वाश्रयेण वै स्वर्गं भुक्त्वा प्रसादसत्फलम् ।
कालेन तौ ययतुश्च वैकुण्ठं परमात्मनः ॥१०१॥
लक्ष्मीत्येवं साधुसंगो लवमात्रं कृतोऽपि वै ।
पावयत्येव पुण्यानां पुञ्जं ददाति सत्वरम् ॥१०२॥
राज्यं स्वर्गं ददात्येव मोक्षणं च ददात्यपि।
प्रयच्छति महानन्दं सत्संगः कृष्णयोगिनाम् ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने आपद्गतस्याऽपि साधुसंगतिः कल्याणदेत्यर्थे गृध्रश्वपचयोः शबरस्य च स्वर्गाद्युत्तरं मोक्षणं चेत्यादि-
निरूपणनामाऽष्टनवतितमोऽध्यायः ॥९८॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP