संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १६१ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १६१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६१ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणुत ब्रह्मकान्ता यद् पृष्टं रत्नसमुद्भवम् ।पूर्वाख्यानं वदाम्यत्र बलप्रबलभक्तजम् ॥१॥वैकुण्ठे पार्षदाः सर्वे ये वसन्ति मम प्रियाः ।बलश्च प्रबलश्चापि द्वौ तेषु समतिष्ठतः ॥२॥श्रीमल्ललितालक्ष्म्यास्तौ धाम्नि श्रीपुरसंज्ञके ।मया तौ प्रेषितौ दिव्यौ पार्षदौ द्वारपालकौ ॥३॥श्रीललितामहालक्ष्म्या चार्थितौ मां प्रति ध्रुवौ ।मयाऽऽज्ञप्तौ ययतुस्तौ श्रीपुराख्यं श्रियः पुरम् ॥४॥सत्कृतौ तौ ललितया द्वाःपालत्वे नियोजितौ ।सशस्त्रौ चाऽनलसौ च स्वामिभक्तिपरायणौ ॥५॥समुकुटौ शुभवेषौ मणिरत्नादिभूषितौ ।तेजःपरिधिवृत्ताऽऽस्यौ सौम्यौ पंकजलोचनौ ॥६॥अथ नित्यं ललितायाः सख्यो दास्योऽप्यसंख्यकाः ।प्रातश्चार्घ्यादि चादाय समायान्ति श्रिया गृहम् ॥७॥दिव्ये श्रीनिर्झरे स्नात्वा कृष्णोद्यानसुमानि च ।नूतनानि सुगन्धीनि समादाय प्रयान्ति च ॥८॥काश्चित् कदम्बपुष्पाणि काश्चिद् बाकुलकानि च ।काश्चिदशोकपुष्पाणि काश्चित् कुन्दकलीः शुभाः ॥९॥काश्चित् श्रीकुसुमान्येव पारिजातसुमानि च ।काश्चिच्छृङ्गारपुष्पाणि काश्चित्तु कमलानि वै ॥१०॥काश्चित्तु चाम्पकान्येव काश्चित् स्थलाब्जकानि च ।नीत्वा काश्चिद्यूथिकानां गुच्छानां कुसुमानि च ॥११॥काश्चित् सहस्रपत्राणि तथा कादम्बकानि च ।एवं सहस्ररूपाणि प्रसंगृह्य प्रयान्ति च ॥१२॥काश्चिच्चन्दनकुंकुमकर्दमान् गृह्य यान्त्यपि ।संगृह्य सर्वशृंगारोचितवस्तूनि चापराः ॥१३॥इतराः कज्जलादीनि सुगन्धितैलकानि च ।गन्धसाराँश्च काश्चित् संगृह्य यान्त्यर्हणाय ताः ॥१४॥अपरास्तुलसीपत्राणि संगृह्य प्रयान्ति च ।फलान्यन्या भोजनानि चापराः स्वर्णमुद्रिकाः ॥१५॥पराश्च रत्नहाराँश्च छत्रचामरकाणि च ।धूपदीपानुपदाश्च नीत्वा यान्ति श्रियं प्रति ॥१६॥असंख्याताः प्रयान्त्येव सम्मर्दो गोपुरेऽभवत् ।सखीनां पूजिकानां वै कोलाहलोऽपि चोत्कटः ॥१७॥अशब्दश्रवणो जातो गोपुरे ललिताश्रियाः ।युवतीनां तदाऽऽवेशेनिर्गमादिप्रवाहजः ॥१८॥सम्मर्दोऽभून्महाँस्तत्र गोपुरे स्तब्धताकरः ।प्रबलस्याऽऽसनं चापि बलस्याऽप्यासनं तथा ॥१९॥सम्मर्दितं युवतीभिः पतन्तीभिर्हि पार्श्वयोः ।वेदिकोपरि काश्चिच्चारोहयामासुरेव च ॥२०॥सम्मर्दाऽलब्धमार्गास्ताः सम्मर्दभयवेपिताः ।प्रबलश्चानुजो हस्तौ चांजलिध्रौ विधाय च ॥२१॥प्रार्थयत्येव शनकैर्गमनार्थं सखीजनान् ।असम्मर्दार्थमेवापि साम्ना नत्वा वदत्यपि ॥२२॥बलस्तु बलसम्पन्नः प्रार्थनया वदत्यपि ।शनैर्यान्तु शनैर्यान्तु सम्मर्दे माऽऽचरन्त्विह ॥२३॥आवयोरासने चापि चूर्णिते मर्दिते यतः ।एवं शान्त्या कथ्यमानास्वपि स्त्रीषु तदा रमे ॥२४॥सम्मर्दितासु चान्योन्यं पतन्तीषु च गोपुरे ।बलस्य पार्षदस्यापि पतनं समजायत ॥२५॥तस्योपरि सखीनां च पादन्यासास्तदाऽभवन् ।मुकुटो नाशमापन्नो वेषो धूलिप्रकर्दमी ॥२६॥समजायत शस्त्रादि न्यपतद्धस्ततस्तथा ।एवं वै पतने जाते बलः क्रोधमवाप ह ॥२७॥जयाप्रज्ञापाशवतीमाणिक्यादिसखीजनात् ।कफोणिकाभ्यां हस्ताभ्यां पार्श्वाभ्यां वक्षसा तथा ॥२८॥उत्थायोत्सारयामास धक्कां दत्वाऽतिवेगतः ।धिक्काराँश्चापि दत्वा स पतिताँश्च सखीजनान् ॥२९॥धृत्वा हस्ते समुत्तोल्योत्थाप्य दूरेऽकरोत्तदा ।सख्योऽप्यकाले पतने पारवश्येऽतिमर्दके ॥३०॥सम्मर्दाधीनपतना वीक्ष्य क्रुद्धं बलं तथा ।धिक्कुर्वन्तं ददानं च धक्कामुत्सारणस्थितम् ॥३१॥मारयन्तं कफोणिभ्यां प्रमत्तमिव वै रुषा ।पतस्वेति पतत्वेति प्राहुर्जयादयश्च तम् ॥३२॥नात्र योग्यो भवानास्ते स्त्रीगोपुरे रुषान्वितः ।प्रबलोऽत्र सदा योग्यः सौम्यः सर्वसहो मुहुः ॥३३॥मिष्टाकृतिर्मधुरा च वाणी यस्य शुभश्रवा ।विनयश्च सहिष्णुत्वं तैक्ष्ण्यं यत्र न विद्यते ॥३४॥नारीतुल्याऽबलश्चायं प्रबलोऽपि सुदास्यभृत्॥न धिक्कारं न वै धक्कां करोति मर्दितोऽपि सन् ॥३५॥प्रत्युत स्तवनं चायं करोति चाभिवन्दति ।प्रबलोऽयं सदा योग्यः स्थातुमत्र बलो न तु ॥३६॥पतत्वेवाऽचिरात् सृष्टौ ब्रह्माण्डे वेधसः खलु ।भुंक्ष्व फलं कफोणीनां फलं दुर्विनयस्य च ॥३७॥इत्युक्तः सहसा जातो विवर्णः पतनोन्मुखः ।रुषा युक्तो मानवाँश्च नारायणबलेधितः ॥३८॥स्वं श्रेष्ठं मन्यमानश्च प्रत्याह वचनं सरुट् ।जयाप्रज्ञापाशवतीमाणिक्याश्चापराः स्त्रियः ॥३९॥या मां पतस्व प्राहुर्वै ताः पतन्त्वपि वेधसः ।ब्रह्माण्डे यत्र कुत्रापि भुवं फलं वियोगजम् ॥४०॥हरेर्वियोगजं दुःखं धामवियोगजं तथा ।इत्येवं च मिथो वाक्ये शापात्मके तु निःसृते ॥४१॥तच्छ्रुत्वा श्रीललिताख्या लक्ष्मीस्तत्र द्रुतं ययौ ।वृत्तान्तं सकलं ज्ञात्वा क्षणं शुशोच भामिनी ॥४२॥बलश्चापि जयाद्यास्तां पतनेऽपि विमुक्तये ।प्रार्थयामासुरत्यन्तं शापनिवृत्तिमित्यथ ॥४३॥ललिताश्रीः समुवाच मदिच्छया ह्यजायत ।सम्मर्दः पतनाद्यं च शोकस्तत्र न विद्यते ॥४४॥मयाऽपि तत्र गन्तव्यं यत्र यूयं सखीस्त्रियः ।अनादिश्रीकृष्णनारायणः पुरुषोत्तमः ॥४५॥तत्र देशे स्वयं चाप्यागमिष्यति न संशयः ।लोकोद्धारणकार्यार्थे सखीमानसपूर्तये ॥४६॥प्रज्ञेयं च जयेयं च पाशवतीयमित्यपि ।माणिक्येयं कृष्णपत्न्यो भविष्यथ मया सह ॥४७॥पतनस्य वियोगस्य दुःख न स्याद्धि भूतले ।कृष्णयोगेन सततं सुखवत्यो भविष्यथ ॥४८॥अपरं च बलश्चायं पार्षदो हरिणोदितः ।मद्गोपुरे नियुक्तश्च रुषा शापमवाप्तवान् ॥४९॥सोऽपि कृष्णेच्छया ह्याल्पो मदिच्छयाऽपि वै तथा ।बलोऽयं रोषयुक्तो वै ब्रह्माण्डे वेधसः खलु ॥५०॥आसुरेण तु भावेन रोषेण सहितो जनु ।ग्रहीष्यतीति देवाद्यैर्मृतो मोक्षमवाप्स्यति ॥५१॥तच्छरीरोत्थधातूनां परिणामात्मका भुवि ।स्वर्गे चापि सुमणयो रत्नानि भौतिकानि च ॥५२॥भविष्यन्तीति सर्वत्र पूजार्हाणि समन्ततः ।इत्येव सुमहत्कार्यकरणार्थं मयाऽपि च ॥५३॥नारायणेनाऽपि देव्याः पतनं चाऽभिवाञ्च्छितम् ।बलस्य पतनं चाभिवाञ्च्छितं मणिहेतवे ॥५४॥यथाऽभिलषितं मेऽपि तत्तथैव भविष्यति ।बलोऽयं पार्षदो दिव्यो नारायणस्य भक्तराट् ॥५५॥महाभागवतश्रेष्ठः पावनो लोकपावनः ।तस्य पावनदेहोत्था मणयोऽपि च पावनाः ॥५६॥धृताश्च पावना लोकान् पावयिष्यन्ति पापतः ।रक्षयिष्यन्ति दुःखेभ्यश्चोपद्रवेभ्य इत्यपि ॥५७॥विभूषाश्च भविष्यन्ति रत्नानि देहजानि वै ।मणिमूर्तिहरिश्चापि निवत्स्यति तु भूतले ॥५८॥एवं मोक्षो बलस्यापि देवैर्नारायणेन वै ।पुनः शीघ्रं ततः सख्यो भविष्यति द्रुतं भुवि ॥५९॥अहं ललितारूपेण भविष्याम्यपि भूतले ।अनादिश्रीकृष्णनारायणदासी नृपात्मजा ॥६०॥दक्षिणे ललितालक्ष्मीर्भविष्यामि तु काञ्चिके ।अनेकोद्धारकार्यार्थं सर्वं योग्यं भविष्यति ॥६१॥इत्युक्त्वा ललितालक्ष्मीः श्रीपुरे धाम्नि गोपुरे ।उक्त्वा ययौ स्वासनं च जयाद्या न्यपतन् द्रुतम् ॥६२॥ब्रह्माण्डे भूतले चात्र यथेष्टं जन्म चाप्नुवन् ।बलोऽपि चात्र लोके चाऽसुरभावो व्यजायत ॥६३॥दितेः पुत्रः कश्यपाद्वै बलको नामतोऽभवत् ।महासुरो हि दैतेयः सुकेश्याद्यग्रजो महान् ॥६४॥तपस्तेपे समुत्पन्नो जातिस्मरोऽतिहर्षितः ।शतवर्षे मेरुपृष्ठे विष्णुं समभिध्याय च ॥६५॥पृथ्व्यां तु मस्तकं कृत्वा पादौ कृत्वा तथाऽम्बरे ।समाधिमिव चापन्नो वल्लिकाजालसंवृतः ॥६६॥पादयोर्वल्लिकापृष्ठे पक्षिनीडो व्यजायत ।वल्लीबद्धः शतवर्षं निश्चलोऽतिष्ठिपत्तथा ॥६७॥शुष्कमांसोऽभवच्चापि नारायणं हदि स्मरन् ।तदाऽहं पुरतो यातस्तस्य शापविमुक्तये ॥६८॥मया ता वल्लिकाः सर्वाः स्वहस्तेन विदूरिताः ।हस्ताभ्यां च मया सृष्टः किञ्चिज्ज्ञानमवाप सः ॥६९॥विवेद मम हस्तौ स कोमलौ स्पर्शमात्रतः ।मया चाप्लावितस्तूर्णमूर्ध्वाननो बभूव ह ॥७०॥चकार दण्डवच्चापि रुरोदाश्रूणि संत्यजन् ।प्रेमविह्वलगात्रश्चाऽर्थयन्मोक्षं वियोनितः ॥७१॥विष्णुः प्राह सदा मे त्वं भक्तोऽसि पावनस्तथा ।दत्वा स्वदर्शनं भक्त पावितोऽसि ततोऽधिकः ॥९२॥शृणु शीघ्रं हि दानव्या योनेर्विमोक्ष्यसे त्वितः ।तपस्त्यक्त्वा चेन्द्रलोकं याहि बलं च दर्शय ॥७३॥दैत्यं भक्तं विजेतुं वै न शक्ता देवकोटयः ।भविष्यन्ति यदा सेवां करिष्यन्ति च ते तदा ॥७४॥प्रसन्नस्त्वं वरदानं तेभ्यो दास्यसि चोत्तमम् ।यज्ञे समित् स्वरूपस्त्वं याचितो वै भविष्यसि ॥७५॥तद्वा ते हननं सर्वे करिष्यन्ति च संहताः ।तव देहसमुत्थाश्च भविष्यन्ति तु हीरकाः ॥७६॥मणयो विविधाश्चापि रत्नानि विविधानि च ।मोक्षस्ते च तदा तूर्णं भविष्यति न संशयः ॥७७॥इत्युक्त्वा मम चक्रं तु दत्वाऽदृश्योऽभवं स तु ।तपस्त्यक्त्वा ययौ स्वर्गे युद्धं चेन्द्रादयाचत ॥७८॥समरे दत्तवान् युद्धं महेन्द्रो निर्जितोऽमुना ।सूर्यश्चन्द्रोऽपि विजितौ दिक्पाला विजिता अपि ॥७८१॥लोकपाला जिताश्चापि विष्णुसुदर्शनेन वै ।इन्द्राद्या निर्जितास्तेन तैर्निर्जेतुं न शक्यते ॥८०॥देवाः परवशा भूत्वा बलसेवां प्रचक्रिरे ।सेवया स बलोऽत्यन्तं प्रसादितो वराय तान् ॥८१॥सुरान् स प्रैरयत्तेऽपि सुरा विचार्य वै तदा ।विष्णुवाक्यं प्रसंस्मृत्याऽयाचन्त लाभकृन्निजम् ॥८२॥यदि देयो वरो नोऽस्ति यदि सत्यवचो भवान् ।यदि सेवाप्रतुष्टोऽसि भक्तिमाँश्च नरायणे ॥८३॥तदा देहि वरे सर्वसुरेष्टमेकमुत्तमम् ।यज्ञो नारायणः साक्षात्तत्र समित् स्वयं भव ॥८४॥अस्माभिर्देवदैत्यैश्च नागैः सर्पैश्च दानवैः ।मिलित्वा होममापन्नो मोक्षस्त्वं वै गमिष्यसि ॥८५॥इत्युक्तो बलको दैत्यः प्रसन्नश्चात्यजायत ।विष्णोरर्थे समित् प्राह भाग्यं यत् परमं मम ॥८६॥देवार्थे मरणं सर्वार्पणं श्रेष्ठं भवेदिह ।मृत्युशीलो हि संसारो मरणं देवतार्थकम् ॥८७॥यदि लभ्येत् गोऽर्थं च गुर्वर्थं माधवार्थकम् ।धर्मार्थं धर्मकार्यार्थं ततो लाभः परस्तु कः ॥८८॥अहो भाग्यमहो भाग्यं मम चाऽद्य परं स्थितम् ।यदहं विष्णुदेवस्य मुखगः कल्पितः सुरैः ॥८९॥आत्मनिवेदिता मेऽद्य सम्पत्स्यते सुशोभना ।विचार्येत्थं तथास्त्वेवं वरदानं ददौ तदा ॥९०॥सुराश्च वरदानं तत् प्राप्य मेरोस्तु पश्चिमे ।नितम्बे मखभूमिं च कारयामासुरुत्सुकाः ॥९१॥आकारितास्तत्र देवा दैत्याश्च दानवाः खगाः ।महर्षयश्च पितरो मानवा वृक्षवल्लयः ॥९२॥यक्षाश्च राक्षसाश्चापि पिशाचा भूतयोनयः ।कुष्माण्डाः किन्नरा नागा गन्धर्वा भोगिनस्तथा ॥९३॥सर्पा आसुरमूर्धन्या अप्सरसस्तथाऽऽपगाः ।समुद्राश्च तथाऽरण्यान्यपि भूभृत उच्छ्रयाः ॥९४॥मेघाश्च विद्युतश्चापि खनयश्चौषधिव्रजाः ।तत्त्वान्यामन्त्रितान्येवाऽऽययुस्तत्र महाऽध्वरे ॥९५॥यज्ञकार्यं ब्रह्मविष्णुमहेशाद्यैः प्रवर्तितम् ।बलो ददौ समिध्रूपं निजं तत्र तदा क्षणे ॥९६॥निषसादाऽध्वरेयावत् प्रोक्षितो वर्धिनीजलैः ।तावत् समित्स्वरूपः स महानद्रिसमोऽभवत् ॥९७॥महापुंजो यथावृक्षवल्लीसस्योद्भवोऽभवत् ।व्रीहिपुष्पफलाढ्यश्च घृतमिष्टरसोऽभवत् ॥९८॥न ज्ञायते प्राणिरूपो हव्यरूपोऽभवत्तदा ।सर्वहव्यानि चाद्रौ वै दृश्यन्ते तत्र वै तदा ॥९९॥हव्यस्य पर्वताकारं बलं मत्वा विवर्तितम् ।कृत्वा तु पावनं प्रोक्ष्य देवा होमं व्यधुस्तदा ॥१००॥वह्नावाहुतयस्तस्य लक्षशो वै तदाऽभवन् ।बीजकणाज्यफलसद्रसात्मिका सुगन्धयः ॥१०१॥तस्य विशुद्धसत्त्वस्य बलस्याऽवयवाः शुभाः ।वह्नौ समिधः क्षिप्तास्ता रत्नबीजानि चाऽभवन् ॥१०२॥सूर्यचन्द्रसमाभानि बीजानि कुण्डके तदा ।दृष्ट्वा सुरादयस्ताँश्च जगृहुर्मूल्यवेदिनः ॥१०३॥देवानामथ यक्षाणां सिद्धानां पवनाशिनाम् ।मानवानां महर्षीणामध्वरिणां समन्ततः ॥१०४॥रत्नबीजमयो ग्राहः सुमहानभवत्तदा ।कुण्डाद् गृह्णन्ति देवाद्या उत्प्लुत्याऽम्बरमार्गतः ॥१०५॥संप्रगृह्य दूरं यान्ति विमानैर्वै निजान् गृहान् ।परस्परावकर्षैश्च सम्मर्दोऽभूत्तदा महान् ॥१०६॥अम्बरे रत्नबीजार्थमास्कन्दनं महत्वभूत् ।आस्कन्दिते व्योममार्गात् पेतुर्बीजानि यानि च ॥१०७॥वेगात्पततां विमानैर्हस्ताभ्यां पतितानि च ।पर्वतेषु समुद्रेषु सरित्सु काननेष्वपि ॥१०८॥वृक्षेषु मेघमार्गेषु भूमौ सरोवरेष्वपि ।तत्तद्गुणैश्च बीजानि रत्नानि चाभवँस्तदा ॥१०९॥आधेयगुणयुक्तानि विविधानि तदाभवन् ।इत्येवं रत्नजातानामुद्भवो वः प्रकीर्तितः ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वलाऽऽख्यपार्षदस्य श्रीपुरधाम्नो जयादिभिः परस्परशापेन पतनं बलदैत्यस्य यज्ञे समित्स्वरूपिणः काय- तत्त्वेभ्यो रत्नानामुत्पत्तिरित्यादिनिरूपणनामा एकषष्ट्यधिकशततमोऽध्यायः ॥१६१॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP