संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ९६

द्वापरयुगसन्तानः - अध्यायः ९६

लक्ष्मीनारायणसंहिता


श्रीनारायणीश्रीरुवाच-
सन्तो हरिर्भवान् धर्मः सती मोक्षश्च साधनम् ।
भक्तिश्चेत्यादिषु कान्त प्रमाणानि तु कानि वै ॥१॥
नह्यप्रमाणसंघुष्टं हृदये चाध्यवस्यति ।
तस्मात् प्रामाणिकं कर्तुं प्रमाणं तेषु किं मतम् ॥२॥
वद मे लोकनाथ त्वं सर्वविद्यादिशेवधिः ।
यत्र मे संशयो न स्याल्लोकानां तु हिताय वै ॥३॥
श्रीपुरुषोत्तम उवाच-
शृणु त्वं शिवराज्ञीश्रि प्रमाणं ज्येष्ठमेव तु ।
प्रत्यक्षं स्वेन यद्वस्तु त्वालोचितं मुहुर्मुहुः ॥४॥
परिचयेनेन्द्रियैश्च साक्षान्निर्णायकं हि तत् ।
सन्तः शीलव्रता भक्तिमन्तो निर्वासनास्तथा ॥५॥
परीक्षणीयाः सुप्त्वाऽपि शय्यायां शीलधर्मणि ।
सहवासेन भक्तौ च भोगदानेन वासने ॥६॥
परीक्षणीयाः सन्तो वै साक्षान्न त्वन्यथा क्वचित् ।
आलिंगने प्रयासे वा विकृतिर्यस्य नैव ह ॥७॥
शीलिनस्ते महासन्तो नारायणाः स्वयं त्विह ।
सततं बहुधायां तु भक्तौ यस्य श्रमो न वै ॥८॥
नर्तने गायने सेवादौ च लज्जा न रुद्ध्यति ।
भक्तिमन्तश्च ते साक्षाद् बोद्धव्याः साधवः शुभाः ॥९॥
भोगा बहुविधा देया घटिताऽन्यास्तु साधवे ।
न भुंक्ते निर्मनाश्च स्यात् साक्षात् साधुत्वनिर्णयः ॥१०॥
वासना रसना लिङ्गं परीक्षाविषयादि वै ।
प्रत्यक्षं तु भवेत्तत्र निर्णायकं हितावहम् ॥११॥
गतानुगतिका वाणी न वक्तव्या कदाचन ।
नाऽनुमानं हि निर्दोषं सदा सद्धेनुमन्तरा ॥१२॥
असद्धेतुसमापन्नं निश्चायकं न तद्भवेत् ।
हरौ कृष्णे मयि साक्षाच्चिह्नानां दर्शनं मम ॥१३॥
हस्तयोः पादयोश्चापि मूर्तौ चिह्नादिदर्शनम् ।
प्रत्यक्षं तु भगवत्त्वे प्रमाणं चात्र कीर्तितम् ॥१४॥
चिह्नानां तु प्रमाणं वै शास्त्रं परम्परागतम् ।
आप्तवाक्यात्मकं चापि तन्मूलं वैदिकं तथा ॥१५॥
वेदाश्चापि प्रमाणं वै यन्मूर्तेश्चायुधं च यत् ।
लिखितं दिव्यचक्षुष्कैर्दृष्ट्वा मत्पार्श्ववर्तिभिः ॥१६॥
तदायुधस्य रेखा स्यात् करे यस्य च वा पदे ।
स एव भगवान् स स्यान्मानवादिस्वरूपधृक् ॥१७॥
यथाऽहं मत्स्यशूलाद्यैरस्मि करे प्रचिह्नितः ।
साक्षाद् दिव्यस्वरूपश्च कोट्यब्जश्रीरमापतिः ॥१८॥
षोडशचिह्नवान् वर्ते पादयोश्चापि वर्ष्मणि ।
असंख्यचिह्नवानस्मि साक्षाच्चक्रगदादिमान् ॥१९॥
एवं प्रमाणैर्बोद्धव्यो भगवान् पुरुषोत्तमः ।
धर्मो लोकव्यवहारसौख्यार्थं पूज्यमानवैः ॥२०॥
एषा रीतिः सरणीया चेत्येवं निश्चितः स वै ।
दानं परोपकरणं विवाहः पररक्षणम् ॥२१॥
शुद्धिर्न्यायार्जनं चापि पूजनं चोद्यमस्तथा ।
इत्येवमाद्या मार्गाश्च देशकालानुसारतः ॥२२॥
सौख्यार्थं चाप्यविघ्नार्थं निश्चितो धर्म एव सः ।
आप्तवाक्यं चाप्तकर्म धर्मरूपं प्रकाशते ॥२३॥
सती साध्वी सदा बोध्या पातिव्रप्यादिसद्वृषैः ।
सहवासेन सा सहवासिन्या बुद्ध्यते सदा ॥२४॥
सत्यैश्वर्याणि शास्त्रेषु लिखितानि भवन्ति वै ।
चमत्कारास्तथा यासु दृश्यन्ते ताः सतीस्त्रियः ॥२५॥
मोक्षश्चात्मनि रिक्तत्वं क्लेशाद्यैश्चात्र बुद्ध्यते ।
सदा शान्तिः सुखं नैजं शाश्वतश्च तथा भवेत् ॥२६॥
इत्येवं सुखलोकानां शाश्वतानन्ददायिनाम् ।
अनादिश्रीकृष्णनारायणस्यापि मयापि च ॥२७॥
अक्षरादिस्थलानां च निवासत्वेन चाऽर्जनम् ।
मोक्षश्चैव शास्त्ररीत्या प्रत्यक्षेणाऽपि वै मनाक् ॥२८॥
निश्चेतव्यः सदा लक्ष्मि भक्त्या प्राप्यः स वै मतः ।
ज्ञानमार्गेण वा भ्रान्तिनाशे विज्ञमयी स्थितिः ॥२९॥
विज्ञेया मोक्षरूपा सा शास्त्रं तत्र प्रमाणकम् ।
चमत्कारसमं मानं विद्यते नापरं प्रिये ॥३०॥
चमत्कारे नमस्कारस्तत्र सर्वं विलुम्पति ।
प्रत्यक्षमनुमानं वोपमानं शब्द इत्यपि ॥३१॥
अर्थापत्तिश्चोपलब्धिः संभवश्चेतिहासनम् ।
चेष्टा मौनं चाभिवित्तिः स्वप्नं दैवं च मानसम् ॥३२॥
चतुर्दशाऽपि मानानि चमत्कारे लयन्ति वै ।
तस्मात् सिद्धिस्वरूपं वै प्रमाणं बलवत्तथा ॥३३॥
प्रत्यक्षं सिद्धमेवापि सिद्ध्याऽन्यथयते पुनः ।
का वार्ता तत्र चान्यानां प्रमाणानां तु पद्मजे ॥३४॥
साधुजनान् प्रसेवस्व लक्ष्मि! सत्कृत्य मानतः ।
सत्सु भुक्तिस्तथा मुक्तिः सद्गतिः सत्सु सर्वथा ॥३५॥
हरिर्धर्मश्च भक्तिश्च मोक्षः सत्सु प्रवर्तते ।
साधुता च सतीता च सर्वं सत्सु प्रवर्तते ॥३६॥
ज्ञानं सेवा मम भक्तिर्दानं सर्वविधं तथा ।
धर्मा ह्येते सर्वमूर्द्धन्याश्च सन्तोषणान्विताः ॥३७॥
सुखं तेषु प्रमोदश्च तेष्वानन्दः परो मतः ।
मोक्षस्तेषु हरेर्योगः साधुष्वेव भवेत् प्रिये! ॥३८॥
रजसा तमसा व्याप्ता नास्तिकाः साधुनिन्दकाः ।
निरयं प्रतिपद्यन्ते साधुधर्माद्यसूयकाः ॥३९॥
ये तु साधून् साधुधर्मे सेवां साधोरुपासते ।
सत्याऽर्जवपराः सन्तस्ते भूत्वा यान्ति मत्पदम् ॥४०॥
धर्मभक्तिर्गतिस्तेषां मत्सेवोपासनाद् भवेत् ।
भक्तिमन्तो मम धाम प्रयान्ति साधवो हि ते ॥४१॥
पुण्यमात्राः स्वर्गलोकं प्रयान्ति गृहमेधिनः ।
साधवः शीलसम्पन्नाः शिष्टाचारा उपासकाः ॥४२॥
पञ्चानामशनं दत्वा शेषमश्नन्ति साधवः ।
गां देवं भास्करं साधुं सतीं गुरुं तपस्विनम् ॥४३॥
विप्रं वृद्धं धार्मिकं च ये कुर्वन्ति प्रदक्षिणम् ।
अतिथीनां च भृत्यानां कुटुम्बिनां च योषिताम् ॥४४॥
आश्रितानां शरणे चागतानां रक्षकाश्च ये ।
गुरोः सेवारताश्चापि वृद्धानां सेवकाश्च ये ॥४५॥
सदा ह्येकान्तशीलाश्च तीर्थवासा हरिप्रियाः ।
ज्ञानवन्तश्च सन्तुष्टाः सदा चातः सुखभृताः ॥४६॥
वृद्धवचःप्रकर्तारः स्वाध्यायनिरतास्तथा ।
निवृत्तेन्द्रियविषया विना श्रीपुरुषोत्तमम् ॥४७॥
व्याधितानां च सर्वेषामायुष्याद्यभिनन्दिनः ।
त्वंकारवाचा रहिताः साधवः साधुभूषणाः ॥४८॥
यथा लवणमम्भोभिराप्लुतं प्रविलीयते ।
तथा सद्भ्योऽर्पितं पापं सर्वं सद्यो विनश्यति ॥४९॥
बुद्धः पापं न गूहेत गूहमानं विवर्धते ।
कृत्वा साधुषु चाख्येयं ते तत्प्रशमयन्ति हि ॥५०॥
भक्तियुक्तं चरेद्धर्मं न धर्मध्वजिको भवेत् ।
धर्मवाणिजकाः स्वर्गं भुक्त्वा पुनः पतन्ति यत् ॥५१॥
अर्चेद् देवानदम्भेन सेवेताऽमायया सतः ।
गुरूननुसरेद् भक्त्या मोक्षार्थं दानमाचरेत् ॥५२॥
भाग्यं समर्जयेद् भक्त्या सेवया तपसा व्रतैः ।
भागधेयं ततो विन्देताऽयत्नोऽपि विना श्रमम् ॥५३॥
नाऽलाभकाले लभते प्रयत्नेऽपि कृते सति ।
लाभकाले सतः प्रसेव्याऽर्जयेत् तत्परं पदम् ॥५४॥
कृतं काले ह्यनाकृष्टं स्वयमागत्य तिष्ठति ।
निष्फला न भवेत् सेवाऽऽशीर्वादैः सह कर्हिचित् ॥५५॥
अधीत्य नीतिशास्त्राणि नीतियुक्तो न चेद् यदि ।
अधीतं विफलं तस्य निरयाणां प्रदायकम् ॥५६॥
सम्प्राप्य मानुषं जन्म कर्तव्याऽऽराधना मम ।
यदि नेह क्रियात्तां चेत् कृतमन्यत्तु निष्फलम् ॥५७॥
विद्यायुक्तो न चेद्विद्यामात्मार्थॆ योजयेत्यपि ।
अशान्तः कृततृष्णश्च विद्या तस्य हि निष्फला ॥५८॥
विद्वान् शान्तिॆ परित्यज्य विहायाऽऽत्मप्रमोक्षणम् ।
लोकदृष्ट्या चेद्वहति निष्फलं तस्य जीवनम् ॥५९॥
इदं कृतं करिष्येऽपि कुर्वन्ति राजसादयः ।
सात्त्विकाश्चेत्तथामार्गा निष्फलं तत्प्रजीवनम् ॥६०॥
परोपकारं लोकेभ्यो दर्शयत्येव मानितम् ।
स्वसमेभ्यः शिक्षयित्वा वाचयत्येव सद्यशः ॥६१॥
भक्तिमार्गं न कुर्वन्ति देहिख्यातिं गताः खलाः ।
त एव धर्महन्तारो बहिर्दृशा न चान्तरे ॥६२॥
यदि विद्यामुपाश्रित्य जनः शान्तिं समश्नुते ।
सर्वोत्कृष्टं फलं तस्य सम्पन्नं नाऽधिकं ततः ॥६३॥
न विद्वान् विद्यया हीनं वृत्त्यर्थमुपसंश्रयेत् ।
न विद्वान् धनिनो मूढान् स्तुवीत क्षुद्रकाम्यया ॥६४॥
विदुषः क्षुद्रकामा न विद्या क्षुद्रमतेर्न च ।
नित्यसन्तोषवान् विद्वान् साधुर्ब्रह्मप्रमोदवान् ॥६५॥
साधुविदुषोः समता सन्तोषे चात्मदर्शने ।
सत्ये च वचने भक्तौ ब्रह्मिष्ठत्वे परेश्वरे ॥६६॥
अथेच्छति समारंभान् साहाय्यं चेन्न विन्दति ।
उग्रं तपः समारोहेद्ध्यनुप्तं न प्ररोहति ॥६७॥
दत्तमासाद्यते पश्चात् सेवा स्मृद्धिं ददाति च ।
अद्रोहेण च दीर्घायुर्भक्त्या सतां परं पदम् ॥६८॥
सद्भ्यो दद्यात्तु विपुलं सेवेत सततं सतः ।
प्रियं कुर्याद् देहिनां च जयं लब्ध्वाऽक्षरं व्रजेत् ॥६९॥
कंजुषो नैव याचेत दरिद्रेषु वसेन्न च ।
खलमैत्रीं न वै कुर्यात् साधून् सेवेत मुक्तये ॥७०॥
सुखं चात्मस्थितं भुञ्ज्याद् दायादः स्यात् सदा हरेः ।
पुत्रो भवेत् सतां वश्यो मोक्षमिच्छेत् परेऽक्षरे ॥७१॥
सतीः साध्वीर्नमस्कुर्याद् भजेत मां हरिं प्रभुम् ।
अर्पयेत् स्वसमस्तं वै मय्येव मत्परायणः ॥७२॥
अनर्पितं विनश्येच्च विफलं चार्जितं श्रमात् ।
समर्प्य तद्विधायैव शाश्वतं मोक्षणे लभेत् ॥७३॥
दानं धर्मस्य शान्तेश्च प्रमोदस्योत्सवस्य च ।
आनन्दस्य च कर्तव्यं चामृतस्याऽपि लब्धये ॥७४॥
सेवादानं प्रकर्तव्यं सम्पदामपि सर्वथा ।
गृहकुटुम्बदानं च कर्तव्यं तत्तदाप्तये ॥७५॥
सत्कार्ये चाश्वसीतैव नाऽसत्कार्ये कदाचन ।
धर्मबुद्धावाश्वसीत प्रवर्तेत द्रुतं तदा ॥७६॥
धर्मः शीघ्रं त्वाचरितो भक्तौ मनः प्रवर्तयेत् ।
भक्तिं कुर्वन्नवाप्नोति पुत्रं मां परमेश्वरम् ॥७७॥
एवमेवाऽऽत्मनाऽऽत्मानं प्रापयन्ति हि धार्मिकाः ।
परमात्माऽर्जनं स्याद्वै धर्मो वै विजयप्रदः ॥७८॥
पञ्चभूतशरीराणां सर्वेषां सदृशात्मनाम् ।
यत्र धर्मो ध्रुवो नैजस्तत्राऽहं नियतो हरिः ॥७९॥
सर्वेषां तुल्यभावानां देहिनां धर्मवर्त्मनाम्।
भक्तिः सेवा मोक्षदात्र्यौ गुरोः सतः पितुर्हरेः ॥८०॥
साधुवंशस्य सेवा वै श्रेयः परममुच्यते ।
विपाप्मा च भवेत्तद्वत् सुखमेति प्रसेवनात् ॥८१॥
कल्मषाणां नाशकं वै साधूनां सेवनं शुभम् ।
अहोत्पन्नं वर्ष्मणा वेन्द्रियैः पापं तथाऽऽन्तरैः ॥८२॥
ज्ञात्वाऽज्ञात्वाऽपि सर्वं तल्लीयते साधुसेवया ।
रात्रौ सन्ध्यादिकाले वा जातं जपतो नश्यति ॥८३॥
साधुसेवा जपो मे च कुर्वाते स्वस्तियोगिनम् ।
तिर्यग्योनिर्विनश्येद्वै नरकं संकरादिकम् ॥८४॥
न भयं न मरणं चाऽऽकस्मिकं सत्प्रसेवया ।
सर्वगुरुस्त्वनादिश्रीकृष्णनारायणोऽस्म्यहम् ॥८५॥
सर्वप्राणश्चान्तरात्माऽऽत्मनां पतिः परेश्वरः ।
स्मरणीयः सदा लक्ष्मि तथाऽवतारकोटयः ॥८६॥
महाविष्णुर्वासुदेवो नारायणोऽपि विश्वसृट् ।
विष्णुः शिवः सती लक्ष्मीः राधा सूर्यश्च चन्द्रमाः ॥८७॥
स्मरणीया नरनारायणौ तत्पार्षदा अपि ।
यमो धूमोर्णया साकं गौर्या साकं जलेश्वरः ॥८८॥
ऋद्ध्या धनेश्वरश्चापि गौः सुरभिर्मरुद्गणः ।
वालखिल्याः ऋषयश्च नारदाद्या महर्षयः ॥८९॥
उर्वशी श्रीहरेः पुत्री स्मरणीया प्रगे सदा ।
आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च ॥९०॥
धर्मः श्रुतं तपो दीक्षा भक्तिर्बृहस्पतिस्तथा ।
अश्वपट्टसरश्चापि प्रभासं गोमती तथा ॥९१॥
गंगा रेवा गण्डकी च यमी सरयूर्गौत्तमी ।
नारायणी चेन्द्रतोया ब्रह्मपुत्री हिरण्वती ॥९२॥
पुष्करं बालकृष्णं च सरश्चापि सरस्वती ।
मेरुर्हिमालयो विन्ध्य उरलो रैवतस्तथा ॥९३॥
महेन्द्रो मलयः सह्यो गन्धनमादन इत्यपि ।
समुद्राश्चापि तत्त्वानि स्मरणीयानि सर्वदा ॥९४॥
पान्तु सर्वे दिव्यदेवाः कीर्तिताऽकीर्तिता अपि ।
पान्तु सर्वे साधवश्च साध्व्यः पान्तु सदा तु माम् ॥९५॥
कम्भराश्रीः सदा पातु पातु गोपालकृष्णकः ।
पातु मां पार्वती देवी प्रज्ञा पातु च राधिका ॥९६॥
ब्रह्मप्रियाः सदा पान्तु हरिप्रियाः प्रपान्तु च ।
भगवाँश्च शुकश्चापि वल्लभश्च प्रपान्तु माम् ॥९७॥
पत्नीव्रतो ब्राह्मणर्षिः स्वतःप्रकाश ईश्वरः ।
लोमशश्च गुरुर्वृद्धः सर्वे पान्तु सदा तु माम् ॥९८॥
कुंकुमवापिका देवी क्षेत्रं चाऽक्षरसंज्ञकम् ।
साधुलालायनाद्याश्च पान्तु मां परमेश्वराः ॥९९॥
इत्येवं कीर्तयानश्च मुच्यते सर्वकिल्बिषैः ।
स्तुवँश्च प्रतिनन्दँश्च मुच्यते सर्वतोभयात् ॥१००॥
ममाश्रितानां साधूनां संहितागदितात्मनाम् ।
लीलाः स्मृत्वा लभन्ते वै परं पदं ममाऽक्षरम् ॥१०१॥
मदाश्रितानां नारीणां साध्वीनां ब्रह्मयोषिताम् ।
स्मृत्वा दिव्यचमत्कारान् लभन्ते परमं पदम् ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने श्रीहरिसत्पुरुषधर्मसतीजनमोक्षसाधनभक्त्यादिषु प्रमाणानां गतिः साधूनां समागमो बलवत्प्रमाणं चमत्कारो बलवत्तमं चेत्यादिनिरूपणनामा षण्णवतितमोऽध्यायः ॥९६॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP