संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ५७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ५७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५७ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं सर्ववैदिकसारकम् ।सर्वसाधनसाध्यो वै भजनीयः परेश्वर ॥१॥दानैस्तीर्थैस्तपोभिश्चाऽध्वरैः परोपकार्यकैः ।रञ्जनीयः परमात्मा साधनीयो नरायणः ॥२॥षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च ।कृष्णनारायणभक्तचरणे संवसन्ति हि ॥३॥प्रायश्चित्तान्यशेषाणि तपांसि च व्रतानि च ।यानि तेषां समस्तानां कृष्णानुस्मरणं परम् ॥४॥पापदहनवाञ्च्छानां जनानां योषितां तथा ।प्रायश्चित्तं तु परमं श्रीहरेः स्मरणं मम ॥५॥मुहूर्तमपि यद्ध्यानं श्रीहरेः परमात्मानः ।स्वर्गदं तद् भवत्येव नित्यध्यानं तु मोक्षदम् ॥६॥जाग्रत्स्वप्नसुषुप्तेषु नारायणपरायणाः ।येषां यासां वृत्तयश्च तास्ते मुक्ता न संशयः ॥७॥उत्तिष्ठन् निपतन् गच्छन् प्रलपन् विविशंस्तथा ।भुञ्जन् पिबँश्च मां कृष्णं यः स्मरेन्मुक्त एव सः ॥८॥स्वे स्वे कर्मणि सर्वत्र वृत्तिः कार्याऽच्युताश्रया ।तेन कर्म हि तत्सर्वं निर्गुणं मोक्षदं भवेत् ॥९॥ध्यानं धर्मः परः प्रोक्तस्तपः परं व्रतं परम् ।शौचं परं हरेर्ध्यानं ध्यानमग्नस्ततो भवेत् ॥१०॥नास्ति विष्णोः परं ध्येयं गेयं प्राप्यं परं ततः ।तस्माद् विष्णोर्हरेः कार्यं ध्यानं प्रचिन्तनं हृदि ॥११॥यद् दुर्लभं परं चास्ते मनसो नापि गोचरम् ।तदप्यत्र हरिर्ध्यातः प्रसन्नः सन् ददाति वै ॥१२॥प्रमादादपि कृष्णस्य ध्यानं स्मृतिर्नमस्कृतिः ।कृता सती परब्रह्मपदं ददाति शाश्वतम् ॥१३॥ध्यानेन सदृशं चान्यन्नास्ति वै पापशोधकम् ।आगामिदेहबीजस्य दाहकं स्मरणं हरेः ॥१४॥विनिष्पन्ना ध्यानसिद्धिः समाधिं चादधाति वै ॥हरौ समाधिमापन्नो मोक्षमत्र समश्नुते ॥१५॥निजचित्ते स्थिते विष्णौ भक्तानां किल्बिषाणि वै ।दह्यन्ति मूलतश्चात्मा मुक्तब्रह्म प्रजायते ॥१६॥अग्नियोगात् कनकं वै निर्मलं सम्प्रजायते ।हरेर्योगाद्धि भक्तात्मा ब्रह्मधामा प्रजायते ॥१७॥गंगास्नानसहस्रेषु पुष्करस्नानकोटिषु ।यत्पापं लीनतां याति स्मृते नश्यति तद्धरौ ॥१८॥प्राणायामसहस्रैस्तु यत्पापं लीयते हि तत् ।ध्यानेन क्षणमात्रेण हरेर्ध्यातुर्विनश्यति ॥१९॥पापं कालस्तथा माया चान्तको यमसेवकाः ।मृत्युश्चापि न तस्यास्ति यस्यास्ति पुरुषोत्तमः ॥२०॥सा तिथिस्तदहोरात्रं स योगः स च चन्द्रमाः ।शकुनं लग्नमेतद्वै शुभं यत्र स्मृतो हरिः ॥२१॥सा हानिः स च रोगोऽस्ति सैव क्षतिर्दरिद्रता ।यत्र क्षणे गृहे कृष्णो हरिः स्मृतो न केशवः ॥२२॥यस्य गेहे हरिश्चास्ते तस्य सत्ययुगः सदा ।यस्य नास्ति हरिर्गेहे तस्य चान्ये युगा गृहे ॥२३॥हृदये यस्य नो कृष्णश्चिन्तने नो हरिस्तथा ।प्रतिमा न गृहे यस्य श्मशानं मानसं गृहम् ॥२४॥यस्याऽग्रतस्तथा पृष्ठे चान्तरे करणेषु च ।गोविन्दः सम्प्रभात्येवाऽक्षरं धामाऽभितोऽस्य वै ॥२५॥वासुदेवे मनो यस्य पानभोजनकर्मसु ।अक्षरं धाम तस्यास्ति दृढं गम्यं हि शाश्वतम् ॥२६॥गार्हस्थ्यकर्मकर्ताऽपि व्यवहारावृतोऽपि च ।छिनत्ति पौरुषीं मायां केशवार्पिततत्क्रियः ॥२७॥विघ्ना दूरं प्रयान्त्येव कालः शिखां त्यजत्यपि ।मृत्युर्दृष्टिं न चायाति श्रीहरौ हृदयस्थिते ॥२८॥ध्यायेन्नारायणं विष्णुं कृष्णं तं सर्वकर्मसु ।लाभस्तस्य जयस्तस्य यद्धृदिस्थो जनार्दनः ॥२९॥कीटपक्षिगणानां श्रीहरेः प्रसन्नतायुजाम् ।ब्रह्मलोकगतिश्चास्ति किं पुनः सेविनां हरेः ॥३०॥नारायणतरुच्छाया नातिशीता न तापदा ।याम्यद्वारप्रशमनी सेवनीया सुखार्थिभिः ॥३१॥वदतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः ।न विस्मरेद्धरिं यो वै सिद्धयोगी मतो हि सः ॥३२॥ध्येयः सदा गुरौ मूर्तौ साध्व्या कान्ते रवौ हरिः ।युवा भूषाम्बरधारी कोटिकामाऽतिसुन्दरः ॥३३॥नहि ध्यानेन सदृशं पवित्रं पापनाशकम् ।श्वपचोऽपि भवेच्छुद्धः श्वपचाऽन्नाद इत्यपि ॥३४॥विष्णुभक्तिर्यस्य जीवे विष्णुर्यदात्मनि स्थितः ।स तारयति संसाराच्छरणागतकोटिकान् ॥३५॥तज्ज्ञानं यत्र लक्ष्मीशः सा कथा यत्र माधवः ।तत्कर्म यत्केशवार्थे सा सेवा या श्रियः पतेः ॥३६॥सा जिह्वा या हरिं स्तौति तच्चित्तं चिन्तयेत्प्रभुम् ।तौ करौ यौ हरेः सेवापरायणौ सतां तथा ॥३७॥मस्तकस्य फलं कृष्णप्रणामो धीफलं स्मृतिः ।हरेः पूजा पाणिफलं मनःफलं मतिर्हरौ ॥१८॥वचःफलं हरे स्तोत्रं चक्षुःफलं दृशिर्हरेः ।त्वक्फलं स्पर्शनं विष्णोर्देहफलं प्रसेवनम् ॥३९॥सर्वार्पणं फलं स्मृद्धेर्मोक्षः फलं तु जीविनः ।लोकालोकसमो राशिः पापस्यापि विनश्यति ॥४०॥श्रीहरेः स्मरणादेव पुण्यात्मा जायते जनः ।यत्किञ्चित्कुरुते कर्म साध्वसाधु शुभाशुभम् ॥४१॥कामिकं चाकामिकं वा स्वार्थं परार्थमित्यपि ।सर्वं नारायणे न्यस्य कर्ता तस्य न लिप्यते ॥४२॥राष्ट्रस्य शरणं राजा पितरो बालकस्य च ।धर्मस्तु सर्वमर्त्यानां सर्वेषां शरणं हरिः ॥४३॥ये नमन्ति स्मरन्तीशं पूजयन्ति च मां सदा ।त एव तीर्थरूपा मेऽभिन्ना मोक्षप्रदायकाः ॥४४॥शूद्रं वा भगवद्भक्तं निषादं श्वपचं च वा ।गणिकां घातकं वापि श्रेष्ठं मन्ये हि पद्मजे ॥४५॥आदीप्तं पर्वतं दृष्ट्वा पलायन्ते मृगादयः ।मया दीप्तं जनं दृष्ट्वा पलायन्तेऽघराशयः ॥४६॥यस्य यावाँस्तु विश्वासस्तस्य सिद्धिर्हि तावती ।अनुग्रहो विशेषोऽत्राऽसीमफलप्रदो भवेत् ॥४७॥प्रसन्नताया नान्तोऽस्ति फलान्तोऽपि न विद्यते ।तत्र यावच्च यावाँश्च नियमो नास्ति वै हरौ ॥४८॥प्रसन्नो भगवान् सम्राट् जलमात्रेण तुष्यति ।ददात्यमृतसामुद्रं स्वामी कः स्वामिनोऽस्ति वै ॥४९॥राज्ञे तु चूम्बनं दत्वा लभतेऽर्धासनं सखी ।हरये वै तथा दत्वा लभते मेऽक्षरं पदम् ॥५०॥एवं नारायणीश्रि! त्वं सर्ववधूभिरीश्वरी ।समर्पिताऽसि सहिता सोऽहं सा त्वं हरिः स्वयम् ॥५१॥हरिकृष्णप्रसादेन यदि कश्चिद् भजत्यपि ।न निस्तरति संसारं देवानामपि दुस्तरम् ॥५२॥ध्यायेदाराधयेद् विष्णुं सदा निजात्मसंस्थितम् ।अनादिश्रीकृष्णप्रभुं तेन मुच्येत बन्धनात् ॥५३॥सर्वदेहिविधातारं सर्वज्ञानमनोरतिम् ।सर्वगं सद्गुरुं विष्णुं सदा ध्यायन् प्रमुच्यते ॥५४॥धामातीतं धामसंस्थं सर्वावतारकारणम् ।अवतारिस्वरूपं मां ध्यायन् शीघ्रं प्रमुच्यते ॥५५॥कृष्णमनादिकृष्णं च नारायणं नरायणम् ।वासुदेवाद्यात्मकं मां ध्यायन् शीघ्रं प्रमुच्यते ॥५६॥भूमानं प्रकृतेः पारं पूरुषं पुरुषोत्तमम् ।सर्वेश्वरेश्वरं कान्तं मां ध्यायन् संप्रमुच्यते ॥५७॥हिरण्मयं महाविष्णुं वैराजं विष्णुमित्यपि ।अन्तरात्मस्वरूपं मां ध्यायन् सद्यः प्रमुच्यते ॥५८॥मुक्तैर्मुक्तानिकाभिश्चेश्वरैरीश्वरिकादिभिः ।अवतारैः सुरैश्चापि ध्यातं ध्यात्वा प्रमुच्यते ॥५९॥संसारबन्धनान्मुक्तिमिच्छन् यः कोऽपि देहवान् ।स्तुत्वा ध्यात्वा पूजयित्वा मां हरिं सम्प्रमुच्यते ॥६०॥लक्ष्मि! नित्यं बलं प्राप्यं मम सर्वावतारिणः ।अक्षरेशं प्रपन्नाऽस्मि किं मां मृत्युः करिष्यति ॥६१॥शंखचक्रगदापद्मधारिणं परमेश्वरम् ।अन्तःस्थितं प्रपन्नाऽस्मि किं मां मृत्यु करिष्यति ॥६२॥मीनशूलध्वजधनुःस्वस्तिचक्रशरान्वितम् ।श्रीवत्सांकं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६३॥कम्भराश्रीसुतं कृष्णनारायणं प्रियं पतिम् ।गोपालजं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६४॥ब्रह्मप्रियापतिं हरिप्रियापतिं सतीपतिम् ।श्रीपतिं संप्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६५॥राधारमापतिं लक्ष्मीरमापद्मावतीपतिम् ।माणिकीशं प्रप्रन्नाऽस्मि किं मां मृत्युः करिष्यति ॥६६॥कमलादुःखहालक्ष्मीपतिं नारायणीपतिम् ।शिवजेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६७॥दिव्यादेवीपतिं कीरापतिं कामोदकापतिम् ।सुशीलेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६८॥लीलावतीखशीनाथं हुण्डिकागणिकापतिम् ।हंसिकेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६९॥अशोकसुन्दरीनाथं विकलेन्दुमतीपतिम् ।भिल्लीशं संप्रपन्नास्मि किं मां मृत्युः करिष्यति ॥७०॥रक्षाप्रज्ञाशमीश्रद्धानाथं मुक्तपतिं हरिम् ।मम कान्तं प्रपन्नाऽस्मि किं मां मृत्युः करिष्यति ॥७१॥कृष्णं रामं रामकृष्णं नारसिंहं जनार्दनम् ।राजराजं प्रपन्नाऽस्मि किं मां मृत्युः करिष्यति ॥७२॥वाराहं वामनं विष्णुं माधवं केशवं पतिम् ।कान्तकान्तं प्रपन्नाऽस्मि किं मां मृत्युः करिष्यति ॥७३॥कपिलं च हरिं वासुदेवं जनार्दनं शिवम् ।अक्षरेशं प्रपन्नाऽस्मि किं मां मृत्युः करिष्यति ॥७४॥अनन्तशिरसं कृष्णं सनातनं परं पतिम् ।ब्रह्मयोनिं प्रपन्नाऽस्मि किं मे मृत्युः करिष्यति ॥७५॥प्रेमरसं हरेर्नित्यं पिबामि पार्श्ववर्तिनी ।हरेः पादं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥७६॥हरेस्ताम्बूलजं मिष्टं रसं सुगन्धसंभृतम् ।पिबामि तं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥७७॥अमृताख्यं प्रसादं च नित्यमास्वादयामि च ।ओष्ठरसं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥७८॥श्रीहरेः शयनं प्राप्ता महानन्दं वहामि च ।आन्तरस्थं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥७९॥आक्षरं बलमाप्ताऽस्मि नित्यं सुखं गताऽस्मि च ।एकात्मानं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥८०॥तादात्म्यसुखमापन्ना रहस्यानन्दभोगिनी ।तद्भावं च प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥८१॥मृत्योः पिता महाकालो येन सृष्टोऽस्मि यद्वशः ।तं प्रभुं सम्प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥८२॥इत्येवं श्रीहरेर्मे वै मदमाप्ता प्रिया मम ।निर्भया सेवते मां चाश्नुते सर्वं सुखं मम ॥८३॥सा धन्या सा सफलार्था सा च सर्वसुखस्थिता ।सफलं जीवितं तस्याः स्तौति या पुरुषोत्तमम् ॥८४॥ओं नमोऽक्षरवासाय मुक्तसेव्याय ते नमः ।ओं नमश्चेश्वरेशायाऽवतारेशाय ते नमः ॥८५॥ओं नमो मुक्तपतये सतां च पतये नमः ।ओं नमोऽक्षरपतये मुक्तानीपतये नमः ॥८६॥नमस्ते परमानन्द नमस्ते परमाऽक्षर ।नमस्ते नित्यसर्वज्ञ नमस्ते ज्ञानमुक्तिद ॥८७॥नमस्ते चात्मवासाय नमस्ते पुरुषोत्तम ।सर्वान्तरात्मरूपाय नारायणाय ते नमः ॥८८॥नमस्ते कम्भरापुत्र गोपालजाय ते नमः ।नमस्ते श्रीपते कृष्णनारायण च ते नमः ॥८९॥नमस्ते कुंकुमवापीनिवासायाऽब्धिशायिने ।ब्रह्मप्रियाधिपतये हरिप्रियाप्रियाय च ॥९०॥जय सत्यजगत्साक्षिन् जय सर्वपुमर्थद् ।जय वेदान्तवेद्यस्त्वं जय कान्त मनोहर ॥९१॥जय सूक्ष्मचिदानन्द जय चित्तनिरञ्जन ।जय नाथ जय सर्व जय शान्तसनातन ॥९२॥त्वं गुरुस्त्वं हरे कान्तत्वं स्वामी त्वं ममाधिपः ।धर्मज्ञानादयस्त्वं मे त्वं मे विष्णुः प्रमोक्षदः ॥९३॥त्वं प्रभुस्त्वं समुद्धर्ता त्वं पाता त्वं प्रलुम्पकः ।त्वं श्रीः पुष्टिस्त्वं च लक्ष्मीस्त्वं प्रभा त्वं च माणिकी ॥९४॥त्वं क्षेत्रज्ञः परेशश्च त्वं यज्ञस्त्वं हुताशनः ।तव रूपमिदं सर्वं परब्रह्म त्वमीश्वरः ॥९५॥अवतारात्मकमूर्तिं ते भजन्ति दिवौकसः ।भजने पूजने पाने भोजने पुरुषोत्तम ॥९६॥क्षन्तुमर्हसि देवेश यत्कृतं न कृतं मया ।न शक्नोमि सदा कर्तुं पूजां सम्यक् क्षमस्व माम् ॥९७॥यत् कृतं जपहोमादि ह्यसाध्यं पुरुषोत्तम ।न्यूनं पूर्णं मम मत्वा निजां मां स्वीकुरु प्रभो ॥९८॥दिवारात्रौ च सन्ध्यायां सर्वावस्थासु मे प्रभो ।अचला वै त्वयि भक्तिस्तवांघ्रियुगले स्थितिः ॥९९॥इति स्तोत्रेण मां नाथं भक्त्येडिष्व नरायणि ।यदिच्छसि ममानन्दं भज भक्त्या जगद्गुरुम् ॥१००॥प्रातर्जपेदिदं स्तोत्रं स्मरन्तं पुरुषोत्तमम् ।स्वर्गं मोक्षं सम्पदं च सर्वान् कामानवाप्नुयात् ॥१०१॥पुत्रार्थी लभते पुत्रान् बद्धो मुच्येत बन्धनात् ।कन्यार्थिनी लभेत् कन्यां कन्या शुभं पतिं लभेत् ॥१०२॥रोगाद् विमुच्यते रोगी निर्धनो लभते धनम् ।जातिस्मरत्वं मेधावी विद्यार्थी ज्ञानमर्जयेत् ॥१०३॥जघन्यश्चापि मूर्धन्यस्त्वसाधुः साधुसत्तमः ।शठोऽपि सत्यवाक् स्याच्च यः स्तौति पुरुषोत्तमम् ॥१०४॥सर्वधर्मबहिष्कृता अपि ते साधवो मताः ।येषां प्रवर्तनं सर्वं हरिमुद्दिश्य जायते ॥१०५॥नाऽऽशौचं विद्यते तस्या यस्या भक्तिः परेश्वरे ।मनो वाग् वर्ष्म सर्वस्वं मया क्षिप्तौ हरौ त्विह ॥१०६॥आराध्य सर्वदा कृष्णनारायणं सुखप्रदम् ।नरो नारी च वा षण्ढः प्राप्नोतीह सुवाञ्छितम् ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां ध्येयस्य श्रीहरेः सर्वार्पणस्तोत्रादिप्रदर्शननामा सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP