संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १५४

द्वापरयुगसन्तानः - अध्यायः १५४

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं सरोजिनीकथां शुभाम् ।
पुरा कन्याऽभवत् कुंभकारस्य कर्दमार्थिनी ॥१॥
घटादिसर्वभाण्डानां रचनाय तु मृत्तिकाम् ।
समानयति योग्यां च गर्दभाद्यैस्तु वाहनैः ॥२॥
मात्रा पित्रा समं भ्रात्रा क्वचित् स्वस्रा कुमारिका ।
वरयोग्याऽपि सा नैवेयेष वै वरितुं ततः ॥३॥
पितृगृहेऽवसत् साध्वी ब्रह्मचर्यपरायणा ।
वृद्धसेवापरा चापि शीलधर्मपरायणा ॥४॥
व्यवसाये निजे रक्ता तुष्टा स्वल्पैश्च वस्तुभिः ।
निर्धनस्य गृहे भूता ततो वाञ्च्छा न वर्धते ॥५॥
स्वभावतोषयुक्ता वै वर्तते साध्विका यथा ।
अथ काले गता माता नाम्ना घोणावती ज्वरम् ॥६॥
समासाद्य ययौ स्वर्गं सरोजिनी शुशोच ह ।
मातृसमं सुखं नास्ति नास्त्याधारः प्रसूप्रखः ॥७॥
कन्यानां सर्वदा माता स्वर्गं गृहे विराजते ।
अपि निर्धनबालानां धनं माता परं मतम् ॥८॥
अदत्वा निजबालायै भुंक्ते पिबति नो प्रसूः ।
अस्मृत्वा न दिनं याति मातुर्निजोद्भवात्मजान् ॥९॥
विस्मृतौ वापि निद्रायां समाह्वयति बालकान् ।
देववत् पोषणं माता करोति सेवते निजान् ॥१०॥
मातुरुत्संग एवाऽऽस्तेऽमृतं वै पक्षिणामपि ।
अण्डान्यपि प्रपुष्यन्ति सदा मात्रुदरोष्मणा ॥११॥
वियोगे क्षणमात्रं वा माता सुखं न विन्दति ।
सा माता स्वर्गगा चाऽद्य पिता वृद्धो भवत्यपि ॥१२॥
सोऽपि पुत्राधीनवृत्तिर्गमिष्यत्यप्यतो दिवम् ।
ततो मया सदा स्थेयं भ्रातृजायाकरे भवेत् ॥१३।
अस्नेहेन निवासोऽपि निरयोऽत्र हि गोचरः ।
किं कार्यं वै मया त्वद्य कर्तव्यं किं तथोत्तरे ॥१४॥
इत्येवं नित्यमेवेयं शोचत्येव विरागिणी ।
अथ द्वादशके श्राद्धे महीमानाः समाययुः ॥१३५॥
सम्बन्धिनां च सम्बन्धवन्तोऽपि ज्ञातियोगिनः ।
तत्रैकेन कृता वाञ्च्छा सरोजिन्यर्थमेव ह ॥१६॥
पिता निवेदितस्तस्या सोऽपि प्रस्वीचकार तत् ।
वाग्दानेन प्रदत्ता सा कन्यका कुंभकारिणे ॥१७॥
नाम्ना नालधरायेति पित्रा चक्रैधसंज्ञिना ।
अथ योग्ये क्षणे कन्या विवाहिता सुमंगलैः ॥१८॥
कन्याऽपि सा प्रसन्नाभूच्छोकं तत्याज सर्वथा ।
ययौ गृहं स्वामिनो वै भोगान् भुंक्ते सुखस्थिता ॥१९॥
किन्तु शारीरचिह्नानि कन्यायाः कान्तहानि वै ।
श्मश्रुश्चौष्ठस्य दैर्घ्यं च तथा चिपिटनासिका ॥२०॥
केकराक्षी पदांगुष्ठानामिके स्पृशतो न क्ष्माम् ।
एतादृशी गृहायाता यदा पत्युस्तदा क्षणात् ॥२१॥
पतिर्ज्वरं समापेदे कृशतां प्राप्य वै मृतः ।
विधवा सा च सञ्जाता शारीरचिह्नदोषतः ॥२२॥
अथ पितृगृहं प्राप्ता भ्रातृभिश्चाभिरक्षिता ।
अनपत्या निराधारा शोचति स्म निजां मुहुः ॥२३॥
वर्षोत्तरे पुनश्चान्यकुंभकारेण चार्थिता ।
पित्रा विवाहिता सापि पुनः पत्युर्गृहं ययौ ॥२४॥
सुखं भुंक्तेऽधिकं सा तु पूर्वतोऽपि सुखिगृहे ।
किन्तु चिह्नप्रतापेन ग्रहदोषैस्तथा पुनः ॥५॥
पतिस्तस्या द्वितीयोऽपि मृतो नाम्ना हि रत्नकः ।
अनपत्यैव सा तं च शुशोच सत्पतिं मुहुः ॥२६॥
भाग्यं निजं शुशोचापि पुनः पितृगृहं ययौ ।
पिताऽपि पूर्णकालः सन् मृत्युवशं ततो गतः ॥२७॥
भ्रात्रधीनाऽभवत् साऽपि सरोजिनी ततः परम् ।
वर्षोत्तरं तृतीयेन कुंभकारेण वाञ्छिता ॥२८॥
भ्रात्राऽर्पिता ययौ तस्याः पत्युर्गृहं सरोजिनी ।
सुखं प्राप्ता पूर्वतोऽपि विशेषं तत्र वत्सरम् ॥२९॥
तृतीयोऽपि मृतो लालदासाख्यः स्वपतिस्ततः ।
शुशोचाऽतीव मनसा भाग्यं धिक्कुर्वती हि सा ॥३०॥
अथ भ्रातृगृहं प्राप्ता दुःखेन वर्तते सदा ।
पुनर्वर्षान्तरे चाऽन्यकुंभकारेण चाऽर्थिता ॥३१॥
विधिना स्वाग्रजदत्ता ययौ पत्युर्गृहं हि सा ।
वर्षमात्रं सुखं प्राप्ता चतुर्थोऽपि पतिर्मृतः ॥३२॥
पुनर्भ्रातृगृहं प्राप्ता निरपत्याऽतिदुःखिता ।
पराधीना च दिवसान् दुःखान् निर्गमयत्यपि ॥३३॥
अथैकदा भ्रातृजाया दिदेश कच्चरार्थिनी ।
आमपात्राणि पक्तुं वै कच्चरेन्धनहेतवे ॥३४॥
याहि सीम्नि चेन्धनानि समिधः पत्रकच्चरम् ।
काण्डकाष्ठानि नालानि भ्रष्ट्र्यर्थं त्वं समानय ॥३५॥
सरोजिनी ज्वरार्ताऽभूत्तदैव शीतदूषिता ।
निषिषेध प्रगन्तुं च सुप्ताऽभवद् भुवस्तले ॥३६॥
अथ क्रुद्धा भ्रातृजाया गालीदानं चकार ह ।
सा श्रुत्वा न प्रत्युवाच यतो ज्वराभिदुःखिनी ॥३७॥
आहूताऽपि न चायाति यदा सरोजिनी तदा ।
भ्रातृजाया कुटीं गत्वा धृत्वा हस्ते सरोजिनीम् ॥३८॥
विचकर्ष बलाच्चापि दिदेशाऽऽहर्तुमिन्धनम् ।
न यास्यामीति चुक्रोश सरोजिनी ज्वरान्विता ॥३९॥
तताड भ्रातृजायां च साऽपि तताड तां मिथः ।
केशाकेशि तयोर्युद्धं साक्रोशं समभूत्तदा ॥४०॥
पार्श्ववासाः प्रश्रुत्वाऽपि मिलितास्तद्गृहेऽभवन् ।
कुटुम्बिनः समायाता ग्रामीणाः सुहृदोऽपि च ॥४१॥
सर्वे साम्ना विविधेन क्लेशं शान्तं प्रचक्रिरे ।
अथ वैरं तयोर्जातं नित्यं नेत्ररुषाऽधिकम् ॥४२॥
नेत्रयोश्चापि युद्धं वै जायते नित्यशस्ततः ।
वाचां युद्धं गालिकाभिः कलहश्चापि जायते ॥४३॥
एवं दिनेषु यातेषु भ्राता कालवशं गतः ।
रक्षिताऽस्या नैव चास्ति भ्रातृजाया सुपुत्रिणी ॥४४॥
प्रसह्य तां गृहान्निष्कासयामास निजात्ततः ।
सापि प्रौढस्थितिस्त्यक्त्वा ग्रामं नदीतटेऽस्वपत् ॥४५॥
स्वप्नं ददर्श तत्रैव दुःखहेतुं पुराकृतम् ।
स्वां ददर्श घातकर्त्रीं निषादिनीं पुराभवे ॥४६॥
स्वगृहे विक्रयार्थं सा हन्ति वै बर्करं त्वजम् ।
बहून् सा बर्करान् हत्वा करोति चोदरभृतिम् ॥४७॥
एवंविधां घातकिनीं स्वां विलोक्य मृताऽभवत् ।
यमपूर्यां ततो याता भुक्त्वा दुःखानि तत्र च ॥४८॥
पिशाचिनी ततो भूत्वा सहस्रवर्षमेव ह ।
कुंभकारगृहे जाता सरोजिनी भवाम्यहम् ॥४९॥
इत्येवं स्वप्नमेवेयं दृष्टवती नदीतटे ।
समुत्तस्थौ ततश्चेयं कर्मफलं बुबोध ह ॥५०॥
पूर्वकृतं हि पश्चाद्वै प्राप्यते सर्वदेहिभिः ।
मया पूर्वे हताश्चाऽजास्तेन नश्यन्ति मे वराः ॥५१॥
पतयो मे सर्व एव म्रियन्ते मम कर्मभिः ।
अतो मया भिक्षुकिन्या भूत्वा गन्तव्यमेव ह ॥५२॥
विचार्येत्थं कर्मपीडां ग्रहपीडां स्वभावजाम् ।
पीडां पूर्वफलं मत्वा साध्व्याश्रमं वने ययौ ॥५३॥
यत्र सन्न्यासिनी दिव्या राजते श्रीसतीश्वरी ।
सहस्रशिष्यासंयुक्ता वैष्णवी ब्रह्मचारिणी ॥५४॥
दिव्यतेजोमयी मूर्तिर्दर्शनात्पापनाशिनी ।
अनादिश्रीकृष्णनारायणभक्तिपरायणा ॥५५॥
दूरश्रवणदृष्ट्यादिचमत्कारयुता शुभा ।
परदुःखहरा योगाभ्यासपरा जितेन्द्रिया ॥५६॥
यदाश्रमे न पुरुषाः प्रविशन्ति कदाचन ।
काश्चिद्धोमपरा यज्ञोपवीतिन्यश्च कन्यकाः ॥५७॥
काश्चिद्ध्यानपराः सन्ति मालाजपपरायणाः ।
काश्चित्तपःपरा साध्व्यो जटासमस्तशोभनाः ॥५८॥
निरम्बरा वृक्षशालपराश्चर्मपरास्तथा ।
पत्रवंशकटवस्त्राः कम्बलादिपरास्तथा ॥५९॥
सर्वाब्रह्मपराः सत्यः साध्व्यः कृष्णव्रतान्विताः ।
साक्षात् कृष्णे कृतस्नेहा मुक्तिमार्गपरायणाः ॥६०॥
वायुसूर्यशशिदेवा वह्नयोऽपि स्पृशन्ति न ।
सकन्यास्ते प्रवर्तन्ते तासां वासेषु सेवकाः ॥६१॥
वैरं मृगे मृगराजे स्वाभाविकं न यत्र वै ।
कामक्रोधादयो यत्र निजभावं त्यजन्ति वै ॥६२॥
युवत्वं यत्र नास्त्येव विद्यमानं तु सात्त्विकम् ।
निर्गुणत्वं भजतेऽत्र सतीनामाश्रमे शुभे ॥६३॥
राजस्वल्यं सतीनां वै तपसा लीनतां गतम् ।
दिव्यदेहा विराजन्ते देव्यो यथा चिदम्बरे ॥६४॥
जलवह्निबाष्पकुण्डा यत्र शीतोष्णयोगिनः ।
सिद्धयो यत्र वर्तन्ते वचःसंकल्पमानसे ॥६५॥
काश्चिद् देव्यो गह्वरस्थाः काश्चित् कुटीगता अपि ।
काश्चिद् व्योमकृतावासा विहरन्त्यपि चाम्बरे ॥६६॥
काश्चिद् वेदस्य वेत्र्यश्च काश्चित् कर्मठिका अपि ।
काश्चित् सामपराः सत्यः काश्चिदृचां प्रबोधिकाः ॥६७॥
काश्चिद् ज्ञानपरा नित्यं बहुरूपधरास्तथा ।
समाधिस्था अपराश्च राजन्ते साध्विका इति ॥६८॥
तत्र गत्वा विरूपाक्षी कुमुखी दीर्घकाधरा ।
रोमजंघा चिपिटिकानासा चिपिटपादिका ॥६९॥
स्थूलघोणा रक्तकेशा सूक्षमुखी कृशस्तनी ।
सरोजिनी कुंभकारपुत्री निराश्रया सती ॥७०॥
आश्रमस्यैव गोद्वारे भ्रमन्ति यत्र वै मृगाः ।
तत्र रजोमयीभूमौ लुलोठ महिमान्विता ॥७१॥
पावनी सा धूलिका वै शरीरे मर्दिता तया ।
तां वीक्ष्य पावनीं भक्तां किन्तु चांगैरमंगलाम् ॥७२॥
युवतीं दुःखिनीं लक्ष्मि कन्यकाश्चाभिसंययुः ।
सर्वाभ्यो युवती नत्वा सहाश्रमान्तरं ययौ ॥७३॥
यत्र सा राजते साध्वी श्रीसतीश्वरिणी गुरुः ।
नमस्कृत्य रुरोदाऽपि पपात गुरुपादयोः ॥७४॥
दृष्ट्वा दुःखपरां दीनां दयां कृत्वा सतीश्वरी ।
मा भैष्टेति जगादेनां वल्कलानि ददौ तथा ॥७५॥
पृष्टा ह्युऽदन्तविषये ज्ञात्वा विरागमाश्रिता ।
रक्षिता च सतीमध्ये देहशुद्धिं प्रकारिता ॥७६॥
व्रतं दत्तवती तस्यै सतीश्वरी तु मासिकम् ।
पञ्चाग्नितपनं चापि भोजनं फलमूलकम् ॥७७॥
जपनं मम मन्त्रस्य नित्यं सहस्रसंख्यया ।
'अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ॥७८॥
इत्येवं सा जजापैव चैकाग्रमनसा सदा ।
त्रिंशत्सहस्रजापैश्च मासान्ते श्रीसतीश्वरी ॥७९॥
तुष्टा चाहूय तामाह पिब वारि प्रसादजम् ।
सरोजिनी पपौ वारि श्रीकृष्णपूजनामृतम् ॥८०॥
तावत् सा दिव्यरूपा वै सूर्यतुल्या व्यजायत ।
यथा लक्ष्मीर्यथा दुर्गा यथा सावित्रिका शची ॥८१॥
दिव्यशक्तिमहैश्वर्यचमत्कारयुताऽभवत् ।
दिव्यचक्षुर्दिव्यकर्णदिव्यमानसम्पदा ॥८२॥
व्यद्योतत सतीमध्ये यथा मुक्तानिका परा ।
शरीरं सर्वमेवाऽभूद् दिव्यपद्मिनिका यथा ॥८३॥
सद्रेखासर्वश्रेष्ठांगचिह्नशोभं शुभं परम् ।
व्योमगामि कृपालब्धं शरीरं संव्यजायत ॥८४॥
कुंभकर्त्री कृपया वै ब्रह्मधर्त्री बभूव ह ।
अथ सा सेवते नित्यं सतीश्वरीं तु गौरवीम् ॥८५॥
तपोयोगेन दिव्येन चाज्ञया पुण्यपुञ्जकैः ।
सेवाभिश्चापि बह्वीभिस्तोषयामास गौरवीम् ॥८६॥
सतीश्वरी ततश्चैनां पप्रच्छ वद मानसम् ।
किमिष्टं ते ब्रह्मधर्त्रि ददामि तव मानसम् ॥८७॥
सरोजिनी तदा प्राह कृष्णनारायणः पतिः ।
अनादिश्रीकृष्णनारायणो मेऽस्तु परेश्वरः ॥८८॥
लक्ष्म्याः पादतले स्थित्वा सेविष्ये परमेश्वरम् ।
यत्र लक्ष्मीस्तत्र चाहं वसामि सहयोगिनी ॥८९१॥
विना लक्ष्मीपतिं कान्तं नान्यन्मे रोचते हृदि ।
मुक्तिं तामेव वाञ्च्छामि सेवारूपां हि दासिकाम् ॥९०॥
साऽहं प्राप्त्या भविष्यामि कृतकृत्या तथा कुरु ।
तथाऽस्त्विति तदा प्राह सतीश्वरी सरोजिनीम् ॥९१॥
ददौ तस्यै महामन्त्रद्वयं जपार्थमेव ह ।
'ओं महालक्ष्म्यै विद्महे विष्णुपत्न्यै च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥९२॥
 'ओं नारायणाय विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात्' ॥९३॥
प्राप्य मन्त्रावुभौ नित्यं जजाप सा पुपूज तौ ।
लक्ष्मीनारायणौ नित्यं ध्यानसेवापरायणा ॥९४॥
वर्षान्ते सुप्रसन्नौ तौ प्रत्यक्षगोचरौ पुरः ।
लक्ष्मीनारायणौ जातावूचतुश्च सरोजिनीम् ॥९५॥
वद किं ते मनस्यत्र वर्तते द्वन्द्व एव तत् ।
श्रुत्वा ननाम भावेन वरयामास तं वरम् ॥९६॥
लक्ष्मीपादतले स्थित्वा सेवयामि सदा हरिम् ।
तथाऽस्त्विति प्राहतुश्च जगृहतुः सरोजिनीम् ॥९७॥
रूपद्वयं सरोजिन्याश्चक्रतुः श्रीरमेश्वरौ ।
कमलं नालपुष्पाढ्यं दिव्यं सुगन्धि चैककम् ॥९८॥
द्वितीयं कन्यकारूपं पद्मिनीत्येव भाषितम् ।
पद्मिनीं तां हरिस्तत्र जग्राह स्वकरेण वै ॥९९॥
पत्नीं लक्ष्मीसमां दिव्यां लक्ष्मीस्वसृस्वरूपिणीम् ।
सरोजिनी वल्लिका च जलमध्ये ततोऽभवत् ॥१००॥
नालकमलपत्राढ्या लक्ष्मीस्तत्राऽवसत् सदा ।
लक्ष्म्याश्चरणसेवाढ्या सरोजिनी सदाऽभवत् ॥१०१॥
तदारभ्य सदा लक्ष्मीः राजते कमले रमे! ।
लक्ष्मीपादरजःपूता सेवते श्रीनरायणम् ॥१०२॥
एवं लक्ष्मि सदा भक्त्या सरोजिनी पुराऽभवत् ।
कुंभकर्त्री गुरोर्भक्त्या ब्रह्मधर्त्री ततोऽभवत् ॥१०३॥
सतीश्वरीगुरोर्भक्त्या ग्रहाद्याश्च निराभवन् ।
देहचिह्नानि सर्वाणि यानि दुर्भाग्यदान्यपि ॥१०४॥
तानि व्यावृत्तिमासाद्य दिव्यरूपाण्यथोऽभवन् ।
इत्येवं सर्वदा भक्त्या सतां सेवाभिरन्वहम् ॥१०५॥
साध्वीनां ब्रह्मवेत्रीणां कृपया दिव्यतां व्रजेत् ।
पापानि दर्शनादेव नश्यन्ति साधुयोगिना ॥१०६॥
लभ्यन्ते सेवया दिव्यगुणाः परममोक्षदाः ।
कालकर्मादयश्चापि विघ्ना ये दुःखकारिणः ॥१०७॥
सर्वे ते विलयं यान्ति गुरोः सेवाफलेन वै ।
दुष्टा ग्रहाः सुखाश्चैव काला दुष्टाः सुखास्तथा ॥१०८॥
कुभाग्यं सुभगं स्याच्च देहो भौमोऽपि दीव्यति ।
अनायुष्यं चिरायुष्यं दारिद्र्यं धनितां व्रजेत् ॥१०९॥
पापानि पुण्यभावं च प्रयान्त्येव हि सेवया ।
पठनाच्छ्रवणाच्चाऽस्य स्मरणादपि तत्फलम् ॥११०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सरोजिन्याः कुंभकारपुत्र्याः पूर्वजन्मपापेन चतुष्पतिमरणोत्तरं वैराग्येण श्रीसतीश्वरीसाध्व्याश्रमे गमनं, तत्र श्रीलक्ष्मीनारायणभक्त्या गुरुसेवया च ग्रहदोषशारीरदोषनाशोत्तरं श्रीलक्ष्म्याश्रयायाः कमलिनीवल्लिकायास्तथा पद्मिन्याख्यरमायाः स्वरूपप्राप्तिरित्यादिनिरूपणनामा चतुःपञ्चाशदधिकशततमोऽध्यायः ॥१५४॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP