संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १८६ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १८६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १८६ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं कथां भक्तस्य पावनीम् ।वैराढ्यग्रामवासस्य नाम्ना बाणांगणस्य तु ॥१॥बाणांगणोऽभवच्छूद्रो ह्यसच्छूद्रो ध्वजीश्वरः ।मद्यं करोति वृक्षाणां रसानां बहुधा स हि ॥२॥वंशपरम्पराप्राप्तं कुरुते कर्म नित्यदा ।विक्रयं च क्रयं कृत्वा कुटुम्बं निर्वहत्यपि ॥३॥अथैकदा ययौ सार्थसंघातं प्राप्य रैवतम् ।तीर्थं कर्तुं तथा कर्तुं विक्रयं च प्रदक्षिणम् ॥४॥सहस्रशो जना यान्ति कार्तिके रेवताचलम् ।सौराष्ट्रे वामने तीर्थे नारायणह्रदे तथा ॥५॥रेवतीकुण्डके चापि भवेश्वरे मृगीस्थले ।दामोदरे नारसिंहे स्वयंभूपरमेष्ठिनि ॥६॥राधालये स्वर्णरेखानद्यां श्रीहनुमत्स्थले ।गंगायां चापि चाऽम्बायां दत्तपादे वने वने ॥७॥सीतावने रामवने पूर्वजाम्बूवने तथा ।बोरियाद्रोणिकास्थल्यां काष्ठहारिवने तथा ॥८॥देवसरोवरे चाम्रवणे भवेश्वरे पुनः ।कुमुदाचलमावृत्य प्रदक्षिणं दधत्यपि ॥९॥बाणांगणोऽपि मद्यानि विक्रेतुं शकटान्वितः ।अयुताऽयुतसंख्याकैर्मानवैः सह याति ह ॥१०॥तामसा ये रुद्रभक्ताः शाक्ता वा भैरवाश्रिताः ।मद्यं पिबन्ति बहुधा तीर्थं कुर्वन्ति कार्तिके ॥११॥साध्व्यश्च साधवश्चापि गृहस्था यतिनोऽपि च ।वैष्णवा अपि तीर्थार्थं यान्ति प्रदक्षिणं तदा ॥१२॥ऋषयः साधवः सत्यः कथाश्च विविधाः शुभाः ।लक्ष्म्या नारायणस्यापि सत्याश्च शंकरस्य च ॥१३॥सरस्वत्या वेधसश्च गायत्र्या रैवतस्य च ।रेवत्या वामनस्यापि सतीनां च सतामपि ॥१४॥द्विजाश्च पण्डिताश्चापि कुर्वन्ति च स्थले स्थले ।पण्डिताश्चापि विद्वांसो वृद्धाश्च योगिनस्तथा ॥१५॥योगिन्यो मातरश्चापि गायन्ति कीर्तनानि च ।बाणांगणो दिव्यदृष्ट्या भक्त्या पानं ददाति च ॥१६॥ये त्वायान्ति निजाऽनसः समीपे भिक्षुका जनाः ।तेभ्यो ददाति पानानि पुण्यदृष्ट्या च सेवया ॥१७॥अथ रात्रौ तथा प्रातः शृणोति कीर्तनानि च ।भजनानि विविधानि दिव्यानि मोक्षदानि च ॥१८॥कथायां तत्र वैष्णव्यां शुश्राव विष्णुकीर्तिताम् ।वाणीं धर्मात्मिकां लक्ष्मि भक्त्यन्वितां हितावहाम् ॥१९॥तीर्थं सदा प्रकर्तव्यं संसारं तर्तुमिच्छुकैः ।तीर्थं द्वेधा भवत्येव पृथ्व्यां द्वयं हि लभ्यते ॥२०॥स्थावरं जङ्गमं चेति तीर्थद्वयं भुवि स्थितम् ।स्थावरं जलतीर्थादि पर्वतादि च मन्दिरम् ॥२१॥अर्चा वनान्यरण्यानि वृक्षाश्चैत्याश्च भूमिकाः ।जन्मस्थानानि देवानां सतां जन्मादिभूमयः ॥२२॥तपःस्थानानि विप्राणां रजांसि गोस्थलानि च ।तीर्थान्येतानि सर्वाणि स्थावराणि भवन्ति हि ॥२३॥तेषु गत्वा स्नानपानावगाहनविलोकनैः ।तरन्ति मानवाः शुद्धभावाः स्थावरसेविनः ॥२४॥स्थावरेभ्यः प्रथमं वै पापानि प्रज्वलन्ति हि ।ततः पुण्योदयश्चापि ततो भक्तिरुदेति च ॥२५॥भक्त्या च देवतातुष्टिस्तुष्ट्या देवादिदर्शनम् ।साक्षाद् दिव्यं जायते वै दिव्यता च ततो भवेत् ॥२६॥दिव्यभावनया भक्तो वैराग्यं लभतेऽभितः ।स्नेहं लभते चोत्कृष्टं परां भक्तिं प्रविन्दति ॥२७॥पराभक्त्या भवेन्मोक्षः शनैः कालान्तरेऽपि च ।तीव्रसंवेगिनो मोक्षः शीघ्रं स्थावरतोऽपि वै ॥२८॥भवेत् क्वचित् कस्यचित्तु सर्वेषां नतु मोक्षणम् ।तस्मात् स्थावरतीर्थानि न शीघ्रमोक्षदानि हि ॥२९॥मन्दमध्यादिवेगानां श्रद्धामान्द्ये तु मन्दता ।मोक्षेऽपि जायते लक्ष्मि चिरपावनलब्धितः ॥३०॥ततः स्थावरतीर्थेभ्यो जंगमान्युत्तमानि वै ।माताऽत्र जंगमं तीर्थं पिता तीर्थं च जंगमम् ॥३१॥पतिस्तीर्थं जंगमं च सतीतीर्थं च जंगमम् ।ऋषितीर्थं जंगमं च साध्वीतीर्थं च जंगमम् ॥३२॥साधुतीर्थं जंगमं च योगितीर्थं च जंगमम् ।संघतीर्थं जंगमं च यात्रातीर्थं च जंगमम् ॥३३॥भक्ततीर्थं जंगमं च तपस्वितीर्थमुत्तमम् ।आत्मनिवेदिभक्तस्तु तीर्थं श्रेष्ठं हि जंगमम् ॥३४॥हरेरंशा देवताश्च ब्रह्मविष्णुमहेश्वराः ।सतीलक्ष्मीसरस्वत्यस्तीर्थानि जंगमानि हि ॥३५॥योगिन्यः सांख्ययोगिन्यस्तीर्थानि जंगमानि च ।कामदुघा धेनवश्च मानवा व्रतशीलिनः ॥३६॥ब्रह्मचर्यपरा मांसमद्यदोषविवर्जिताः ।धर्माढ्याश्च जना भक्तास्तीर्थानि जंगमानि वै ॥३७॥पुनन्ति दर्शनादेते स्पर्शात्प्रसेवनात्तथा ।येषु मद्यं तथा मांसं पापरूपं न विद्यते ॥३८॥अहिंसाव्रतमास्थाय भजन्ते परमेश्वरम् ।सत्यं व्रतं समास्थाय कुर्वन्ति कीर्तनं कथाः ॥३९॥अस्तेयव्रतमास्थाय दानं कुर्वन्ति वस्तुनः ।ब्रह्मचर्यं प्रपाल्यैव सेवन्ते गुरुसत्तमान् ॥४०॥दयां व्रतं समास्थायाऽनाथसेवां दधत्यपि ।आचार्यसेवनं गुरोः सेवनं धर्मसंयुतम् ॥४१॥सर्वार्पणात्मकं पुण्यं कुर्वन्ति धार्मिका जनाः ।देहभावं विहायैव सेवन्ते ब्रह्मभावनाः ॥४२॥आत्मभावेन सेवन्ते प्रभुभावेन वै तथा ।मोक्षभावेन सेवन्ते मुक्तभावेन वै तथा ॥४३॥एवं प्रसेवितं लक्ष्मि जंगमं तीर्थमुत्तमम् ।आशु धुनोति पापानि मोक्षमाशु ददात्यपि ॥४४॥दृष्टाः स्पृष्टा नताश्चापि पूजिता भोजितास्तथा ।पायिता वाहिताश्चापि सम्मर्दिताश्च चर्चिताः ॥४५॥प्रसादिताश्चाम्बरिताः शृंगारिताश्च साधवः ।रमिताश्चानन्दिताश्च हासिताः कीर्तितास्तथा ॥४६॥आर्पिता आदिताश्चापि संवाहिताश्च शायिताः ।भूषिता वन्दिताश्चापि सेविता धारिता हृदि ॥४७॥सम्बन्धिताः संसर्गिता आश्लिष्टा निजवक्षसि ।नीराजिता हारिताश्च सुगन्धिता द्रवादिभिः ॥४८॥स्नापिताः स्नेहिताश्चापि पुनन्त्याशु हि साधवः ।वासिता क्षमिताश्चापि स्मृता आचामिता ह्यपि ॥४९॥धूपिता दीपिताश्चापि कुंकुमिताश्च चन्द्रिताः ।प्रदक्षिणीकृताश्चापि दण्डवत्प्रणतास्तथा ॥५०॥हृदये स्वे धृताश्चापि पुनन्त्याशु हि साधवः ।साधुतीर्थं परं तीर्थं साक्षान्नारायणात्मकम् ॥५१॥अग्नितीर्थं पावनं वै सूर्यतीर्थं तथाविधम् ।साधुतीर्थ पावनानां पावनं पंक्तिपावनम् ॥५२॥साधुप्रसादः पुण्याढ्यः सर्वपापविनाशकृत् ।साघुस्पर्शो महादीक्षा सर्वपापप्रणाशिनी ॥५३॥साधुदर्शनमेवापीन्द्रियपापप्रणाशकम् ।साधूपदेशस्तीर्थं तु चात्मकल्मषनाशकम् ॥५४॥साधुसंकल्प एवाऽऽस्ते हरेः संकल्प उत्तमः ।साधूनां हृदये चाऽहं लक्ष्मि वसामि सर्वथा ॥५५॥साधूनां चरणे सर्वतीर्थानि निवसन्ति वै ।साधूनां जंघयोः सर्वपुण्यानि निवसन्ति च ॥५६॥जान्वोस्तु वै सतां सर्वयज्ञा वसन्ति पुण्यदा ।साधुसक्थ्नोः सर्वदेवा वसन्ति देविकास्तथा ॥५७॥साधुगुप्ते चास्ति शीलं व्रतानि च तपांसि च ।साधुकट्यां सिद्धयश्च वसन्ति सर्वसम्पदः ॥५८॥साधूदरे सर्वर्षयो वसन्ति जठरेऽनलाः ।साधोर्नाभौ निवसन्ति योगैश्वर्याणि सर्वथा ॥५९॥साधोर्वक्षसि पितरो निवसन्ति सुधार्मिकाः ।पार्श्वयोश्च सतां सर्वदानानि निवसन्ति वै ॥६०॥कुक्ष्योः सतां निवसन्ति सागराः सर्व एव च ।साधोर्नितम्बयोः सर्वधिष्ण्यानि निवसन्ति ह ॥६१॥साधोः पृष्ठे मेरुशैलः सर्वाश्रयो वसत्यपि ।साधोस्तु स्कन्धयोः सर्वबलानि निवसन्त्यपि ॥६२॥साधोः कण्ठे ब्रह्मधाम वसत्यपि परात्परम् ।बाह्वोः सतां महेन्द्राद्या दिक्पाला निवसन्ति वै ॥६३॥साधोः कफोणिकयोस्तु व्यूहा वसन्ति नित्यशः ।साधोस्तु करयोर्लक्ष्मि श्रियः सर्वा वसन्ति च ॥६४॥साधोर्हस्ततलयोस्तु भुक्तिर्मुक्तिश्च वर्ततः ।साधोरङ्गुलिकासङ्घे चन्द्रसूर्यादयो ग्रहाः ॥६५॥साघोर्नाडीसु सर्वासु नद्यः सर्वा वसन्ति च ।साधोः रोमसु सर्वेषु वसन्ति कल्पपादपाः ॥६६॥साधोर्ग्रीवापृष्ठभागे महारुद्रो विराजते ।साधार्मले महामाया साधोर्वीर्ये हिरण्मयः ॥६७॥पुरुषो राजते लक्ष्मि मायापाशविवर्जितः ।साधोस्तु कर्मणोर्लक्ष्मि चिदाकाशो विराजते ॥६८॥साधोश्चिबुके कमला राजते स्मृद्धिदायिनी ।साधोरोष्ठे दिव्यविभूतयो वसन्ति सर्वदा ॥६९॥साधोर्मुखेऽहमस्म्येव सर्वकार्यप्रवर्तकः ।जिह्वायां तु सतां सर्वे वेदा वसन्ति मद्गिरः ॥७०॥नासिकायां सतां भूमा वैराजश्च विराजतः ।कपोलयोः सतां वैकुण्ठश्च गोलोक इत्युभौ ॥७१॥गण्डयोश्च सतां महापुरुषश्च सदाशिवः ।भ्रुकुटौ तु महाकालः संकर्षणो विराजते ॥७२॥नेत्रयोर्ब्रह्मविद्या च साक्षात्कारोऽपि वर्ततः ।ललाटे ब्रह्मतेजश्च सर्वधामानि सन्ति च ॥७३॥मस्तके त्वक्षरं ब्रह्म ब्रह्मरन्ध्रे परः पुमान् ।केशेषु सर्वमुक्ताश्च साधूनां निवसन्ति हि ॥७४॥इच्छायां शक्तयः सर्वा मानसे ईश्वराः सताम् ।बुद्धावुपासना चास्ते चित्ते ब्रह्मप्रियाः सताम् ॥७५॥साधौ श्रीभगवान्नास्ते निर्वाणः साधुसंगतौ ।साधोः प्रसन्नतायां वै सर्वस्वर्गाणि सन्ति हि ॥७६॥साधोः शयने प्रलयाः प्रबोधने तु सृष्टयः ।समाधयः सुषुप्तौ तु ध्याने ब्रह्मपदं सताम् ॥७७॥विवेके चोपनिषदो मालिकायां सुदर्शनम् ।ब्रह्मशस्त्रं तु विज्ञाने नारायणास्त्रमात्मनि ॥७८॥सर्वाऽस्थिष्वमृतह्रदा विराजन्ते सतां सदा ।साधोर्मूर्तौ दिव्यभावाः कल्पलतास्तु पत्तले ॥७९॥वक्षोर्मध्ये धर्मवंशः पन्थानौ स्तनयोरुभौ ।आसने तु सतां सर्वदेवतानां तु पीठिकाः ॥८०॥क्रियायां सर्वदेव्यश्च वसन्ति हि सतां सदा ।भजने च सतां तत्र हरेस्तोषो हि वर्तते ॥८१॥इत्येवं वै कथां रम्यां शुश्राव स ध्वजीश्वरः ।मद्यविक्रयपापं च ज्ञातवान् शास्त्रवाक्यतः ॥८२॥सोऽयं शुशोच हृदये मद्यविक्रयणं मया ।त्यक्तव्यं सर्वदा चान्योद्यमो ग्राह्यो विकल्मषः ॥८३॥कुलालस्य यथा मद्यं तथा मृत्पात्रघट्टना ।कार्यं संविद्यते तस्मात् त्याज्यं पापं तु मद्यकम् ॥८४॥विचार्येत्थं सन्तदासं साधुं भक्तिपरायणम् ।नारायणह्रदे स्नात्वा प्रार्थयामास मद्यपः ॥८५॥साधो कुलालकर्माऽस्मि मद्यपो मद्यकारकः ।अद्य श्रुत्वा कथां स्नात्वा नारायणह्रदे त्वहम् ॥८६॥भवच्छरणमापन्नः शुद्धं कुरु धुनोत्वघम् ।श्रुत्वैवं सन्तदासस्तु ददौ वै वैष्णवं जलम् ॥८७॥प्रसादं प्रददौ चापि ब्रह्मकूर्चव्रतं ददौ ।ददौ मन्त्रं वैष्णवं च मालां च तौलसीं ददौ ॥८८॥सकुटुम्बस्य तु बाणांगणाय शरणार्थिने ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥८९॥ 'हरे कृष्ण हरे विष्णो बालकृष्ण नमोऽस्तु ते' ।इतिकीर्तनमन्त्रं च ददौ चक्रे सुवैष्णवम् ॥९०॥आशीर्वादं ददावस्मै गुरुर्हरिर्मिलिष्यति ।आशीर्वादं परं प्राप्य बाणांगणो निजालयम् ॥९१॥प्रययौ चापि तत्याज मद्यस्य व्यवसायकम् ।मृत्तिकापात्रनिर्माणव्यवसायं चकार ह ॥९२॥भेजे मां परमात्मानं नित्यं करोति कीर्तनम् ।कुटुम्बसहितस्तस्य स्नेहिभक्तस्य वै मया ॥९३॥भक्तिर्दृष्टा परा शुद्धिसहिता नित्यमेव हि ।भजते मां मे निवेद्य भुंक्ते पाति युनक्ति च ॥९४॥चातुर्मास्यव्रतं चक्रे सकुटुम्बः फलादिभुक् ।कार्तिके पूजनं चोद्यापनं चक्रे यथाव्रतम् ॥९५॥एकादश्यां च वै रात्रौ चक्रे जागरणं ततः ।द्वादश्यां प्रातरेवाऽहं प्रसन्नोऽस्मै स्वदर्शनम् ॥९६॥ददौ लक्ष्मि श्रिया युक्तः शंखचक्रगदाधरः ।वीक्ष्य मां दण्डवच्चक्रे पुपूज परमादरात् ॥९७॥कुटुम्बसहितो मे च शरणं पतितो मुहुः ।प्रार्थयामास च तदा समुद्धर भवार्णवात् ॥९८॥हरे कृष्ण बालकृष्ण समुद्धर भवार्णवात् ।अथाऽहं मे चरणस्य वारि पाने ददौ तदा ॥९९॥पपौ कुटुम्बसहितः पुण्यात्मा ह्यभवत्तदा ।निवृत्तबन्धनस्तूर्णं मुक्त्यर्थं नद्धमानसः ॥१००॥त्वरितोऽभूत्तदा लक्ष्मि देहमत्याजयं त्वहम् ।विमानवरमेवैनमध्यारोहयमाश्रितम् ॥१०१॥अप्रेषयं मम धामाऽक्षरं तं पार्षदैः सह ।अथाऽस्याऽपि कुटुम्बं वै यथाऽऽयुष्यक्षयागते ॥१०२॥अनयं क्रमशो धामाऽक्षरं मे सद्वचःस्थितः ।एवं भक्तस्य तस्यैव सतां योगेन कल्मषम् ॥१०३॥प्रज्वाल्य सर्वमेवाऽस्मै ददौ धामाऽक्षरं मम ।बाणांगणो ययौ मोक्षं कुटुम्बं चोत्तरोत्तरम् ॥१०४॥मोक्षं ययौ वैष्णवं तद् भूत्वा पावनमक्षरम् ।पठनाच्छ्रवणाच्चास्य स्मरणान्मोक्षणं भवेत् ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने बाणांगणाख्यस्य मद्यविक्रेतुः साधुसमागमेन भगवता मोक्षः कृतः साधोः मूर्तेर्विभूतयश्चेत्यादिनिरूपणनामा षडशीत्यधिकशततमोऽध्यायः ॥१८६॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP