संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १०९ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १०९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०९ Translation - भाषांतर श्रीनारयिणीश्रीरुवोच-भगवन् प्राप्तमुत्कृष्टं स्तोत्रं ते भवपारदम् ।बाधानाशकरं श्रेष्ठं भुक्तिमुक्तिप्रदं परम् ॥१॥कर्मठाः स्तोत्रपाठेन कृतकर्मफलं प्रभो ।भुक्त्वा यान्त्यथवा चाऽप्यभुक्त्वा मोक्षं प्रयान्ति ते ॥२॥यदि भुक्त्वा प्रयान्त्येव क्व कीदृग् भुञ्जते फलम् ।कस्य वा कर्मणः कीदृग् भुक्त्वा फलं प्रयान्ति ते ॥३॥सत्कर्मिणां तु ये लोकास्ताँश्चेद् भुक्त्वा प्रयन्ति वै ।ब्रूहि ते कीदृशा यत्र मोहः पुनर्न जायते ॥४॥श्रीपुरुषोत्तम उवाच-शृणु त्वं शिवराज्ञीश्रि! वक्ष्यामि सत्फलान्यपि ।ज्ञातानि च पुनर्मोहं गन्तुर्नादधते परम् ॥५॥तपः कर्म हि मूर्धन्यं कर्मणां भवते सदा ।स्वर्गः श्रेष्ठो हि तपसा लभ्यते कीर्तिसंभृतः ॥६॥दीर्घायुष्यं श्रेष्ठभोगा लभ्यन्ते च तपोबलात् ।सम्पदो रूपमारोग्यं विद्या विज्ञानमुत्तमम् ॥७॥आधिपत्यं परं द्रव्यं सौभाग्यं वंशविस्तरः ।लभ्यन्ते तपसा श्रेष्ठदेवत्वं तपसाऽऽप्यते ॥८॥तापसः सर्वमेतद्वै भुक्त्वा चिरं तपःफलम् ।पश्चात् स्तोत्रफलं भुंक्ते ब्रह्मलोके हि शाश्वते ॥९॥मौनव्रतं तपः प्रोक्तं पालितं येन तस्य तु ।वाक्सिद्धिर्जायते चाज्ञाप्रदत्वं जायते तथा ॥१०॥बहूनामुपदेष्टा स्याद् गुरुराचार्य इत्यपि ।राजगुरुर्भवेच्चापि सेनापतिस्तथा भवेत् ॥११॥धर्मशास्ता भवेच्चापि नियामकस्तथा भवेत् ।अत्र लोके स्वर्गलोके फलं भुक्त्वा स्तवस्य च ॥१२॥फलं भोक्तुं प्रयात्येव धामाक्षरं परं हरेः ।दानकर्ता भवेत् स्वर्गे देवेशो भूतले धनी ॥१३॥राजा भवेदुपभोगान् भुक्त्वा स्तोत्रफलं लभेत् ।परमेऽक्षरसंज्ञे वै राजते सर्वसौख्यभाग् ॥१४॥ब्रह्मचर्यव्रतं श्रेष्ठं तप आनन्दवर्जनम् ।चिरायुः स भवेल्लोके बली पुष्टो दृढो युवा ॥१५॥अप्रधृष्योऽपराभाव्यो भवेद् ब्रह्मसमेश्वरः ।फलं बहुसमा भुक्त्वा ततः स्तोत्रफलं लभेत् ॥१६॥ब्रह्मलोकं प्रयात्येव मोदते ब्रह्मवेदिभिः ।अहिंसाऽपि तपः श्रेष्ठं नियमाऽऽख्यं निगद्यते ॥१७॥अदुःखं सुखमात्रं च लभते स्वरहिंसकः ।सुखं तत्र परं भुक्त्वा ततः स्तोत्रफलं लभेत् ॥१८॥याति धामाऽक्षरं श्रेष्ठं मोदते ब्रह्मवादिभिः ।दीक्षा धर्मयुता तपोयुक्ता तपः परं मतम् ॥१९॥दीक्षितो भक्तियुक्तश्च पारमेष्ठ्यपदं लभेत् ।बार्हस्पत्यपदं चापि महाचार्यपदं लभेत् ॥२०॥पूजनीयकुले जन्म सतां कुलेऽच्युतगृहे ।लभते दीक्षितस्तत्र भुक्त्वा भोगान् ततः परम् ॥२१॥स्तोत्रफलं सुखं भुंक्तेऽक्षरे मे धामसत्तमे ।फलमूलाशनं चापि तपः श्रेष्ठं निगद्यते ॥२२॥तत्फलं राज्यमासाद्य स्वर्गं श्रेष्ठं प्रविन्दति ।पर्णाशनः पयोभक्षा यान्ति स्वर्गं समृद्धिदम् ॥२३॥फलं भुक्त्वा ततो यान्ति स्तोत्रफलं मदक्षरम् ।स्वर्णदानेन साम्राज्यं चक्रवर्तित्वमित्यपि ॥१४॥यत्र क्वापि लभेल्लोके ततोऽक्षरं प्रयाति सः ।स्तोत्रफलं तत्र भुंक्ते शाश्वतानन्दशेवधिम् ॥२५॥गुरोः शुश्रूषणं सेवा तपः परं निगद्यते ।सेवया लभ्यते विद्या प्रसन्नताऽऽशिषः शुभाः ॥२६॥पुण्यं सर्वोत्तमं स्वर्गं यदिष्टं तद्धि लभ्यते ।मातापित्रोश्च वृद्धानां पत्युः पत्न्याः कुटुम्बिनाम् ॥२७॥गवां सतां सुराणां चातिथीनां परवासिनाम् ।रुग्णानां चाप्यनाथानां दीनानां सेवनं शुभम् ॥२८॥तपो वै परमं प्रोक्तं फलं सर्वोत्तमं सुखम् ।यद्यदिष्टतमं लोके सर्वं विन्दति सेवया ॥२९॥सार्वज्ञ्यं सेवया प्राप्य स्वर्गलोके महीयते ।स्वर्गे सत्ये फलं भुक्त्वा स्तोत्रफलं प्रविदन्ति ॥३०॥शाश्वतानन्दसम्पूर्णसुखानां सेविता भवेत् ।अक्षरे परमे धाम्नि महामुक्तो भवेत् सदा ॥३१॥श्राद्धं कुर्यात्तु यश्चात्र दद्यात् पितृभ्य उत्तमम् ।कव्यं हव्यं द्विजातिभ्यो भोजनं दक्षिणादिकम् ॥३२॥फलं स्वर्गं चिरं भुक्त्वा पितृलोकं प्रगच्छति ।तत्र चिरं फलं भुक्त्वा स्तोत्रफलं ततो लभेत् ॥३३॥सत्यलोकं विहायैवाऽक्षरं लोकं प्रयाति सः ।अत्र सन्ततिबाहुल्यं श्राद्धकर्तुर्भवत्यपि ॥३४॥वैष्णवं तत्कुटुम्बं स्याद् भजित्वा परमेश्वरम् ।नैवेद्यं ये समर्प्याऽपि नित्यं प्रपूज्य भावतः ॥३५॥स्तोत्रस्याऽस्य प्रतापेनाक्षरं धाम प्रयाति च ।एवं वंशप्रवंशा वै श्राद्धदातुः प्रजा रमे! ॥३६॥प्रयान्ति चाक्षरं धाम स्तोत्रवक्ता प्रमोदते ।प्रमोदन्ते वंशजाश्च सहवासाः सदाऽक्षरे ॥३७॥गवां प्रसेवया याति स्वर्गं सत्यं ततः परम् ।गोलोकं परमं याति स्तोत्रपुण्येन चाक्षरम् ॥३८॥स्त्रियस्त्रिषवणं स्नात्वा लभन्ते चोत्तमान् वरान् ।विप्राणीत्वं च देवीत्वं यान्ति स्तोत्रेण चाऽक्षरम् ॥३९॥वाय्वाहारस्तपःकर्ता लभेद् यज्ञफलं दिवम् ।स्तोत्रेण च ततो याति परमाक्षरमुत्तमम् ॥४०॥नित्यस्नायी बुद्धिमान् स्यान्मेधावी स्फुर्तिमान् जनः ।प्राणायामपरो याति स्वर्गं स्तोत्रेण चाक्षरम् ॥४१॥स्थण्डिले शयनाढ्यस्तु लभते मन्दिराणि वै ।राजयोग्यानि वै स्वर्गे स्तोत्रेण याति चाक्षरम् ॥४२॥चीरवल्कलवस्त्राढ्यः प्रैति भूषाम्बराणि च ।शय्यासनानि रम्याणि लभते च ततः परम् ॥४३॥स्तोत्रेण याति मे धामाऽक्षरं मोदं प्रविन्दति ।अग्निस्नातः प्रयात्येव सूर्यलोकं ततः परम् ॥४४॥वह्निलोकं ततः स्तोत्रबलाद् यात्यक्षरं पदम् ।रसानां नियमे याति सौभाग्यं स्वर्गमुत्तमम् ॥४५॥अनामिषादः स्वर्याति चिरायुर्जायते दिवि ।ततः स्तोत्रेण वै धामाऽक्षरं याति सुखास्पदम् ॥४६॥उदवासी नृपः स्याच्च समुद्राधिपतिर्भवेत् ।भूत्वा च वरुणः स्तोत्रबलाद् धामाऽक्षरं ततः ॥४७॥सत्यव्रती प्रयात्येव स्वर्गं स्तोत्रेण चाऽक्षरम् ।पानीयदानमात्रेण स्वर्गेऽमृतादनो भवेत् ॥४८॥अन्नदोऽपि प्रयात्येव स्वर्गं भोगाढ्यमुत्तमम् ।कामभोगान् प्रभुक्त्वा स्तोत्रेण यात्यक्षरं पदम् ॥४९॥सान्त्वदः सर्वभूतानां याति सत्यं पदं शुभम् ।देवशुश्रूषया याति सिद्धलोकं तु वैधसम् ॥५०॥स्तोत्रेण च ततो यात्यक्षरं मत्परमं पदम् ।दीपदाता दिव्यदृष्टिर्भवत्येव सुसिद्धिमान् ॥५१॥सत्यलोके चिरं स्थित्वा स्तवेन याति चाक्षरम् ।आदर्शादिप्रदाता च वैराज्यमेति सत्पदम् ॥५२॥गन्धमाल्यादिदानेन गान्धर्वं चैति राजसम् ।पञ्चकेशाऽक्षौरकर्मा वंशविस्तारवान् भवेत् ॥५३॥कन्यादानविधाता तु स्वर्गं वैराजसत्पदम् ।लभते चैश्वरं भावं दासीदाससहस्रकम् ॥५४॥अलंकारान् महाभोगान् दिव्यान् प्रासादसत्तमान् ।यज्ञैश्चानशनाद्यैश्च स्वर्गं पितृपदं तथा ॥५५॥फलपुष्पादिदानेन तूद्यानादिपतिर्भवेत् ।तिलधेनुप्रदाता तु वसुलोकं प्रयाति वै ॥५६॥भूमिदाताऽव्याकृतं च धाम याति सुखास्पदम् ।धुर्यदानेन च वसुलोकं याति सुखाश्रयम् ॥५७॥छत्रदानेन चैशत्वं कैलासे लभते जनः ।उपानहो प्रदानेन यानविमानवान् भवेत् ॥५८॥गन्धदानेन सुरभिर्भवेदीश्वरकोटिकः ।सपुष्पफलवृक्षस्य दाताऽमृतपदं व्रजेत् ॥५९॥रसदाताऽमृतं धाम गच्छेदीश्वरकोटिकः ।स्रग्धूपलेपदानेन वैकुण्ठं लभते परम् ॥६०॥शय्यादानविधाता वै गोलोकं याति भक्तराट् ।तत्र तत्र महानन्दान् भुक्त्वा स्तोत्रेण चाऽक्षरम् ॥६१॥प्रयात्येव प्रतापान्मे लक्ष्मि धामोत्तमोत्तमम् ।तडागस्य प्रदाता वै प्रयात्यमृतधाम सः ॥६२॥तत्र भोगान्परान् भुक्त्वा स्तोत्रेण याति चाऽक्षरम् ।धर्मार्थकाममोक्षाणां दातृ सरोवरार्पणम् ॥६३॥तडागेन प्रदेशस्य श्रियो यान्ति विकासताम् ।चतुर्दशस्तरवासाः संश्रयन्ति जलाशयम् ॥६४॥अग्निहोत्रफलं स्वर्गगोदानस्य फलं तथा ।अग्निष्टोमफलं चातिरात्रयज्ञफलं तथा ॥६५॥वाजिमेधफलं चापि लभते सरसः प्रदः ।गावः सन्तो जनाः पक्षिवराः प्राणप्रधारिणः ॥६६॥पशवः पादपा वारि पिबन्ति जन्तवोऽपि च ।विभ्रमन्ति तटे तत्र स्नान्ति च क्षालयन्ति च ॥६७॥एवं तडागदातुर्वै फलं त्वनन्तकं भवेत् ।सर्वदानेषु वै ज्येष्ठं पानीयं शान्तिदं परम् ॥६८॥जलदाताऽमृतभोक्ता जायते चैश्वरे पदे ।विरजायास्तटे स्थित्वा चिरं गोलोकमेति च ॥६९॥भुक्त्वा भोगान् सुबहुधा ततः स्तोत्रेण चाऽक्षरम् ।प्रयात्येव प्रभक्तो मे स्तोत्रफलं पराऽक्षरम् ॥७०॥अथ वृक्षप्रदाता च दिव्यवृन्दावनं शुभम् ।गोलोकस्थं समेत्येव गुल्मदाता लतार्पकः ॥७१॥वल्लीप्रदो वंशदाता तृणदो याति तत्पदम् ।देवलोकं शुभं भुक्त्वा पितृलोकं प्रयाति च ॥७२॥वृक्षाः पुष्पैः सुरगणान् पितॄन् फलैः रसादिभिः ।अतिथीन् छायया पत्रैः प्राणिनः पूजयन्ति वै ॥७३॥ददत्याश्रयमुत्कृष्टं देहिभ्यो वृक्षजातयः ।बृक्षदं पुत्रवद् वृक्षास्तारयन्ति परत्र तु ॥७४॥वृक्षरोपी चेष्टयज्ञः सत्यवादी जितेन्द्रियः ।स्वर्गे सत्ये च वैराजेऽमृतेऽव्याकृतधामनि ॥७५॥वैकुण्ठे चापि गोलोके महीयन्तेऽतिमोदिनः ।तेऽपि लक्ष्मि स्तवेनैव प्रयान्त्यक्षरमुत्तमम् ॥७६॥अभयं सर्वभूतेभ्यो दत्वाऽभयं परेऽक्षरे ।प्राप्नोत्येव स्तवेनाऽपि शाश्वतानन्दभाग् भवेत् ॥७७॥व्यसनेष्वपि लोकानामनुग्रहः परो वृषः ।दुःखहा व्यसनक्षेप्ता स्वर्गं याति सुखास्पदम् ॥७८॥यच्चाऽभिलषितं दद्यात् तृषितायाऽभियाचते ।दत्तं तूर्णमुपयुक्तं ग्रहीता तोषणं व्रजेत् ॥७९॥श्रेष्ठं तद्दानमेवाऽत्र दातारमुपगच्छति ।स्वर्णदानं धेनुदानं पृथिवीदानमुत्तमम् ॥८०॥प्रासाददानं कन्याया दानं विद्याप्रदानकम् ।अन्नवारिप्रदानं च भूषाम्बरप्रदानकम् ॥८१॥गृहोपकरणानां च दानं शृंगारदानकम् ।यानवाहनदानं चाऽभयदानं विशेषतः ॥८२॥विश्वासदानं द्रव्याणां दानं कुमारदानकम् ।वृषभाणां गजानां च वाजिनां दानमुत्तमम् ॥८३॥छत्रासनादिदानं च वेत्रदानं परं मतम् ।सिंहासनप्रदानं च गजासनप्रदानकम् ॥८४॥ज्ञानदानं भक्तिदानं पुरुषार्थप्रदानकम् ।कामदानानि चैतानि पवित्राण्युत्तमानि च ॥८५॥साधुभ्यो दैवतवद्भ्यो दत्तान्येतानि पद्मजे ।नित्यदा खलु दातारं पापात् प्रमोक्षयन्ति हि ॥८६॥पुण्यपुञ्जैर्योजयन्ति नयन्ति दिवमुत्तमम् ।सत्यलोकं च वैराजान् लोकान् नयन्ति तानि ह ॥८७॥विष्णुलोकान् सदाशिवलोकान् नयन्ति तानि ह ।मायालोकानीशलोकान् गोलोकान् प्रापयन्ति च ॥८८॥लक्ष्मीलोकान् मुक्तलोकान् श्रीलोकान् प्रापयन्ति च ।अव्याकृताऽमृतधामविशेषान् प्रापयन्ति च ॥८९॥पार्षदानां महालोकान्नारीलोकान्नयन्ति च ।साध्वीलोकान् सतीलोकान् दातारं प्रापयन्ति च ॥९०॥वह्निलोकान् धर्मलोकान् चन्द्रलोकान्नयन्ति च ।यद्यदिष्टतमं लोके यच्च स्याद् दयितं प्रियम् ॥९१॥तत्तद् देयं सुपात्राय फलमक्षयदं हि तत् ।प्रियकृल्लभते नित्यं प्रियं प्रियप्रदो भवेत् ॥९२॥प्रियो भवति भूतानामिह चापि परत्र च ।अमित्रमपि दीनं चेच्छरणैषिणमागतम् ॥९३॥व्यसने योऽनुगृह्णाति स वै नारायणो मतः ।कृशायाऽधीतविद्याय वृत्तिक्षीणाय सीदते ॥९४॥दद्यात् कष्टं नाशयेच्च स वै नारायणो मतः ।सत्कर्मपरमान् साधून् पुत्रदारकुटुम्बिनः ॥९५॥अयाचमानान् दद्याच्च सर्वोपायैः प्रतुष्टये ।लालसा नैव भोगेषु स्वर्गेष्वपि प्रकुर्वते ॥९६॥नित्यतुष्टा निराशाश्च कृताऽवसथवासिनः ।ब्रह्मपरा प्रदातव्याः सर्वस्मृद्धिभिरादरात् ॥९७॥यदि ते प्रतिगृह्णीयुः श्रद्धापूतं प्रदापितम् ।दत्तं तत् कोटिपुण्यानां प्रदं मोक्षप्रदं भवेत् ॥९८॥धार्मिका भक्तिमन्तो वै विद्वांसो व्रतिनो जनाः ।तापसाः शीलयोगाश्च दान्ताः पात्राणि साधवः ॥९९॥तेषु दत्तं महायज्ञो नित्यं ब्रह्ममखो भवेत् ।विशिष्टः सर्वयज्ञेभ्यश्चानृण्यसम्प्रदः सदा ॥१००॥कुप्यन्ति नैव चाऽलाभे लुभ्यन्ति न तृणेष्वपि ।तुष्यन्ति सुखिनो दृष्ट्वा मोदन्ते वर्द्धयन्ति च ॥१०१॥नारायणं च मां नित्यं स्मरन्ति कीर्तनैः सदा ।साधवो ब्राह्मणा ब्रह्मधराश्च ऋत्विजोऽमलाः ॥१०२॥पुरोहितास्तथाऽऽचार्यास्तादृश्यः साध्विकाः स्त्रियः ।मातरः पुत्रकल्याणकर्त्र्यः पूज्यतमाश्च याः ॥१०३॥वित्तादिना सदा पूज्या नमस्कार्या यथायथम् ।दातव्याश्चर्द्धिभिर्नित्यं देवा देव्यो हि ता मताः ॥१०४॥यथा स्वाम्याश्रयो धर्मः स्त्रीणां लोके सनातनः ।तथा स्वाम्याश्रयो धर्मो दानात्मा देवताश्रयः ॥१०५॥साधुभ्यः प्रथमं दद्याद् ब्रह्मविद्भ्यः शुभं मुहुः ।अनाथेभ्यस्ततो दद्याद् भिक्षुकेभ्यस्ततः परम् ॥१०६॥विप्रेभ्यश्च ततो दद्यान्नारीभ्यश्च ततः परम् ।ब्राह्मणेभ्यस्ततो दद्यादन्येभ्यश्च ततः परम् ॥१०७॥दासादिभ्यस्ततो दद्यादेवं दाता प्रमोदते ।दानफलं च लोकेषु भुक्त्वा ब्रह्म प्रयात्यनु ॥१०८॥पुरुषोत्तमसामाख्यस्तोत्रेणैत्यक्षरं पदम् ।सर्वदानफलं सौख्यं मोदमानन्दमुत्सवम् ॥१०९॥लभते शाश्वतमूर्तिर्ब्रह्मसायुज्यमास्थितः ।पठनाच्छ्रवणादस्य ब्रह्मसायुज्यभाग् भवेत् ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने दानफलभोगोत्तरं पुरुषोत्तमसामजपफलमक्षरधामस्थशाश्वताऽऽनन्दात्मकं भुंक्ते दातेत्यादिनिरूपणनामानवाधिकशततमोऽध्यायः ॥१०९॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP