संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १५६ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १५६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १५६ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं मनुं तु नवमं प्रिये ।अभूद् राजा धनवर्मा स्वल्पराज्यः सुराष्ट्रके ॥१॥महान्ति चान्यराज्यानि वीक्ष्योद्वेगमनाः सदा ।नाह भूषाधिभूपोऽस्मि स्वल्पभूपोऽस्मि खर्वटी ॥२॥विना कीर्तिं च साम्राज्यं शान्तिर्मे हृदये न वै ।तस्माद् यत्नं करोम्येव साम्राज्यस्य कृतेऽनिशम् ॥३॥विचार्येत्थं निजग्रामात् सपत्नीपुत्रबान्धवः ।ययावश्वपट्टतीरं यात्रार्थं तपसे तथा ॥४॥लोमशस्याऽऽश्रमं गत्वा ननाम पादयोः पुरः ।दत्तासने निषसाद पृष्ठश्च कुशलं प्रति ॥५॥लोमशं प्रत्युवाचाऽसौ कुशलं कृपया तव ।ग्रामः पुत्राः सुताः पत्नी गावः क्षेत्राणि कर्षुकाः ॥६॥सर्वे वै स्वस्तिमन्तोऽत्र भवतः कृपया गुरो ।हृदयं चाऽप्यतृप्तं मे ग्रामराज्येन क्षुद्रवत् ॥७॥समीहते महद्राज्यं तत्प्राप्त्यर्थं व्रतं वद ।श्रुत्वा श्रीलोमशस्तस्मै देहशुद्धिव्रतं तु प्राक् ॥८॥दत्वाऽनादिकृष्णनारायणमन्त्रं सुपुण्यदम् ।प्राहाऽत्राऽऽम्रवणे वृक्षतले चाराधय प्रभुम् ॥९॥सुतपाः सुजपश्चापि सुभक्तिश्चिरधैर्यवान् ।सपत्नीकः सुपुत्रादिः कुरु श्रेष्ठं तपो नृप! ॥१०॥अनिकेता कन्दमूलफलाहारा अरागिणः ।भूशयाना ब्रह्मशीला अपरिग्रहवर्तिनः ॥११॥नित्यं त्रिषवणस्नानास्त्रिपूजाकारिणोऽन्वहम् ।'ओम् अनादिश्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥१२॥इतिमन्त्रपराः सर्वे वत्सरं प्रतपन्त्विह ।ततो वर्षाऽपरं लक्ष्मीगायत्रीजापकास्त्विह ॥१३॥ 'ओं महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि ।तन्नो लक्ष्मीः प्रचोदयादिति वसन्तु वत्सरम् ॥१४॥इष्टसिद्धिस्तूर्णमेव श्रीहरिः सम्प्रदास्यति ।इत्युक्तास्ते गुरुं नत्वा प्रपूज्य शुद्धभावतः ॥१५॥अश्वपट्टसरोवारौ स्नात्वा चाम्रवणं ययुः ।मासं वर्षं तथाऽन्यार्धं व्यतीयुस्तपतां वने ॥१६॥प्रसन्नोऽहं तदा लक्ष्मि त्वया साकं जगाम तान् ।गोचरश्चाऽभवं चाग्रे धनवर्माऽऽप संमुदम् ॥१७॥कुटुम्बं यस्य सर्वं च ससंभ्रमं ननाम माम् ।मयेष्टवरदानार्थं प्रेरितो नृपतिर्द्रुतम् ॥१८॥प्रपूज्य स्वागतरीत्या ययाचे वरमुत्तमम् ।सर्वमानवराजानामधिकं राज्यमुत्तमम् ॥१९॥मया तथाऽस्त्विति दत्तं साम्राज्यं मनुविश्रुतम् ।भविता त्वं धनवर्मन् सकुटुम्बो मनुर्महान् ॥२०॥दक्षपुत्रो हि सावर्णो भावी यो नवमो मनुः ।दक्षसावर्णिनामा वै एकसप्ततिसाधिकः ॥२१॥तावत्कालं स्वर्गलोके वस स्वतन्त्रमण्डलः ।इत्युक्तमात्रे तत्रैव विमानं सूर्यसन्निभम् ॥२२॥देवाऽप्सरोभि राघुष्टं शोभनं त्वाययौ भुवि ।तावन्मे कृपया राजा सकुटुम्बो मृतिं ययौ ॥२३॥देवदेहो ययौ स्वर्गं स्वतन्त्रतारकाधिपः ।भविता दक्षसावर्णिः प्राप्ते काले मनुर्हि सः ॥२४॥इति ते कथितो लक्ष्मि मनुर्वै नवमोऽप्यथ ।कथयामि दशमं ते मनुं ब्रह्मसवर्णकम् ॥२५॥ब्रह्मसावर्णिनामानं पूर्वं तु जडविप्रकम् ।बालकृष्णसरःप्रान्ते वसन्तं मतिरास ह ॥२६॥तपः करोमि विपुलं किं विप्रत्वे सुखं त्विह ।राज्ये सुखं परं चास्ते सर्वभोगप्रपूरितम् ॥२७॥विचार्येत्थं जडविप्रो नाम्ना बलीश्वरः स्वयम् ।दशवर्षाणि सततं जलवासाः सरोवरे ॥२८॥अभवद् ध्यायमानो मां श्रीपतिं वल्लभं प्रभुम् ।सोऽहं समाधिसंस्थं तं मत्स्यभक्षितनाडिकम् ॥२९॥शैवालावृतसर्वाऽस्थिपञ्जरं मम भक्तकम् ।उद्धर्तुं च त्वया साकं ह्यगमं तस्य सन्निधौ ॥३०॥मया चान्तःप्रविश्यैवोत्थापितः स बलीश्वरः ।न तस्य विद्यते चर्म नाडीव्रातेन्द्रियाणि च ॥३१॥कथं पश्येच्छृणुयाच्च स्पृशेद् वदेत् कथं हि सः ।कथं तिष्ठेत् प्रचलेच्च प्राणसञ्चरणं कुतः ॥३॥रक्तं नास्ति न च मज्जोदरं सन्ति न कुक्षयः ।एवंभूतं तु मां भक्तं ब्रह्मरन्ध्रे मयि स्थितम् ॥३३॥प्रविश्य चास्य देहे तत्पञ्जरे धातवः कृताः ।मया पुष्टिं गमिताश्च स्नायूमज्जादयोऽभवन् ॥३४॥नाड्यश्चापि मया सर्वास्तत्रैव नूतनीकृताः ।रक्तं प्रपूरितं तत्र केशाः प्ररोहितास्तटः ॥३५॥चर्मावनद्धो देहोऽस्येन्द्रियप्राणमनोऽन्वितः ।सम्पन्नः स समाधेस्तु हृद्यागत्य बहिर्ययौ ॥३६॥उत्थितः स जलाद् यावन्मां ददर्श पुरःस्थितम् ।श्रीयुतं परमात्मानं योजयन्तं वराय तम् ॥३७॥सोऽपि वीक्ष्य हरिं मां तु तपःफलमयाचत ।पुपूज जलमात्रेण हृदयेन च वै मुहुः ॥३८॥हरेकृष्ण बालकृष्ण सिद्धिपते जगत्पते ।मायापते पतीनां च पते राजपते प्रभो ॥३९॥महाराज्यं देहि मेऽत्र ब्राह्मण्यं चापि सर्वदा ।तथाऽस्त्विति मया दत्तो वरस्तस्मै महात्मने ॥४०॥पतितः पादयोनश्च कमलानि शुभानि च ।आर्पयत् पादयोर्नश्च पपौ पादामृतं च नः ॥४१॥आवाभ्यामर्पितं भोज्यं क्षीरात्मकं हि कल्पितम् ।बुभुजे जलपानं च कृत्वा तूर्णं विदेहवत् ॥४२॥त्यक्त्वा देहं विमानेन मया साकं त्वया तथा ।अम्बरं चाजगामैव दिव्यदेहो हि भक्तराट् ॥४३॥मयाऽर्पितः स देवेभ्यो देवलोके वसत्यपि ।अथ कालान्तरे प्राप्य पुत्रतां वेधसः स च ॥४४॥ब्रह्मसावर्णिसंज्ञः स मनुः स्वयं भविष्यति ।मम पूजाप्रतापेन तपसा मनुतां पराम् ॥४५॥अवाप्स्यति स वै लक्ष्मि ब्राह्मण्यनृपतान्वितः ।अथैकादशकं वक्ष्ये मनुं लक्ष्मि निशामय ॥४६॥धर्मसावर्णिनामानं देवानीककुटुम्बिनम् ।आसीत् पूर्वे वैश्यवर्णं कर्षुको धर्मतत्परः ॥४७॥आनन्दवर्णीतिनाम्ना ख्यातः सुराष्ट्रदेशजः ।करोति भगवद्भक्तिं यतते ब्रह्मचर्यके ॥४८॥ऊर्ध्वरेताः सदा चास्ते व्याघ्रारण्ये वसत्यपि ।सोढुभारासरित्तीरे शिंशपाद्रुमसेवनः ॥४९॥वैराग्येण स महता कुरुते श्रीहरेर्जपम् ।शर्कराकन्दमात्रादोऽभवत्तत्र समा दश ॥५०॥ततस्तपोभिरुग्रैश्चाऽऽराधयत्यच्युतं हि माम् ।निद्रां न लभते मायां मोहिनीं च त्यजत्यपि ॥५१॥ 'कृष्णकृष्ण हरेकृष्ण बालकृष्ण जगत्प्रभो ।अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम' ॥५२॥एवं रटति नित्यं स जपति श्रीनरायणम् ।विंशतिर्हि समास्तस्य जपतो निर्ययुः सुखाः ॥५३॥ततः स कर्षुको देवानीको ध्यानपरोऽभवत् ।शारद्यां पूर्णिमायां वै चान्द्रतेजोऽतिशोभिते ॥५४॥वने सुभूतले तत्र शिशपावृक्षसन्निधौ ।पूर्णचन्द्राननं दिव्यं मां स ददर्श चागतम् ॥५५॥उत्थाय सहसा वैश्यः पपात मम पादयोः ।पुपूज शुभपुष्पाद्यैः शार्करकन्दमूलकैः ॥५६॥मया प्रवर्तितः सोऽपि वरार्थं सोऽप्ययाचत ।ब्राह्मण्यं चापि देवत्वं महैश्वर्यं च सम्पदः ॥५७॥तथाऽस्त्विति मया चोक्तो निवारितः तपःश्रमात् ।अश्वपट्टमहाक्षेत्रं ययौ श्रीलोमशाश्रमम् ॥५८॥अहं चाऽदृश्यभावश्च स्वधाम प्रजगाम ह ।देवानीकोऽभजन्मां च वसन् ऋषिकुले ततः ॥५९॥कालेन देहमुत्सृज्य ययौ सत्यंशुभं पदम्।ब्रह्मणो लोकमेवाऽसौ धर्मगृहे सुपुण्यवान् ॥६०॥धर्मपुत्रोऽभवद् विप्रो मानसो धर्मसंगृही ।कुंकुमवापिकाक्षेत्रे यद्वंशे मम पूर्वजाः ॥६१॥तव पूज्या वसन्त्येव सौराष्ट्रे बहुविस्तरे ।जालायने तु सौवीरे सारकटे तु गैरिके ॥६२॥गोक्षुरे क्षारपाटे च पूर्वजा मे वसन्ति वै ।धर्मपुत्रः स देवानीकः स्वयं पुण्यपुञ्जकैः ॥६३॥मदिच्छया हि विप्रत्वं धर्मसावर्णितामपि ।प्राप्यैव भविता चैकादशो मनुर्नृपेश्वरः ॥६४॥तावत्कालं सत्यलोके धर्मगृहे विराजते ।अथ लक्ष्मि द्वादशं च मनुं वच्मि शृणु प्रिये ॥६५॥अब्रिक्ते भूतले नारायण्यास्तीरेऽवसद् घृणी ।घृणेषिकाख्यः शूद्रश्च धर्मकर्मविवर्जितः ॥६६॥कुटुम्बपोषणपरो मत्स्यवृत्तिर्विशेषतः ।तस्यैकदाऽभवद् वृष्टिरुद्वेलानि जलानि तु ॥६७॥नारायण्या महानद्याश्चाब्धिवत् प्रसृतानिह ।गृहं ग्रामं प्रवाह्यैव निन्युः पूरेऽस्य वै तदा ॥६८॥स्त्रीपुत्रसहितः शूद्रः प्रोह्यमाणो गृहान्वितः ।जलमध्येऽभवत्तत्र नौकायामिव वै तदा ॥६९॥गृहं काष्ठकृतं स्वल्पं समूलं तरति जले ।मानतां स तदा चक्रे रुद्रस्य स्वाऽवनार्थिकाम् ॥७०॥यद्यहं जीवमासाद्य लभेयं स्वगृहस्थलीम् ।साऽन्वयो रुद्रपूजा वै करिष्ये सर्वदा शुभाम् ॥७१॥मत्स्यान् विवर्जयिष्ये च करिष्ये नाऽपि हिंसनम् ।वर्तयिष्ये रुद्रभक्त्या वन्यमूलफलादिभिः ॥७२॥धर्ममात्रं करिष्ये च रक्षतु मां सतीपतिः ।इत्येवं मानतां कृत्वा सकुटुम्बो गृहे जले ॥७३॥भजनं प्रचकाराऽसौ रुद्रस्य मत्स्वरूपिणः ।'हर कष्टं हर दुःखं रक्ष प्राणान् सतीपते ॥७४॥महादेव महाकाल ब्रह्मविष्णुस्वरूपवन् ।जय शंभो जय रुद्र जय श्रीपार्वतीपते ॥७५॥जयाऽन्तकाल रक्ष त्वं त्वदीयोऽस्मि प्रजीवय ।इत्येवं भजनं चक्रे तल्लीनः सकुटुम्बकः ॥७६॥रुद्रेच्छयाऽस्य वारिस्थं तरद्गृहं तटं ययौ ।पूराणां विगमे सोऽपि गृहान्निर्गत्य भूतलम् ॥७७॥अवतीर्य ययौ दूरं यत्रास्ते श्रीवनं पुरम् ।भिक्षयोदरयात्रां च तदा शाकादिभिर्व्यधात् ॥७८॥ततः पार्श्वेऽरण्यभागे ययौ कुटुम्बशोभितः ।रुद्रमाराधयामास वर्जयित्वा स्वदुर्गुणान् ॥७९॥पञ्चसम्वत्सरः कालश्चैवं त्वस्य जगाम ह ।फलमूलाशनस्यैव तावद्रुद्रः समाययौ ॥८०॥सतीयुतोऽतिसौम्यश्च वनी योगी यथा महान् ।प्राह घृणिन् कथं चास्ते वने किं ते समीहितम् ॥८१॥रुद्रोऽहं वद चेष्टं ते ददामि तोषितस्त्वया ।घृणेषिकस्तदा वव्रे पुत्रत्वं राज्यमित्यपि ॥८२॥तथाऽस्त्विति हरः प्राह पूजां लब्ध्वा तिरोऽभवत् ।घृणेषिकश्च वर्षान्ते ज्वरेण सकुटुम्बकः ॥८३॥देहं त्यक्त्वा ययौ दिव्यगणो भूत्वा किलासकम् ।यत्र रुद्रो महादेवो विराजते सतीपतिः ॥८४॥रुद्रपुत्रोऽभवत्तत्र रुद्रगृहेऽवसत् सदा ।भविता रुद्रसावर्णिर्मनुः साम्राज्यभोगवान् ॥८५॥इत्येवं ते कथितोऽयं मनुर्द्वादशसंख्यकः ।त्रयोदशं मनुं देवसावर्णिं शृणु पद्मजे ॥८६॥ब्राह्मणोऽभूत् पुरा केतुमाले दीनानदीतटे ।वैष्णवो यज्ञभागादितत्परो देवपूजकः ॥८७॥षोडशाद्युपचारै सः सूर्यं विष्णुं सतीं हरम् ।गणेशं पूजयत्येव तर्पयत्येव वै पितॄन् ॥८८॥यज्ञे देवान् घृताद्यैश्च तर्पयत्येव नित्यदा ।तस्य चाहं प्रसन्नश्च यज्ञे तद्गोचरोऽभवम् ॥८९॥वरार्थं रोधयामास ययाचे स वरोत्तमम् ।साम्राज्यं तव पूजार्थं देवपूजार्थमित्यपि ॥९०॥अन्ते ब्रह्मपदं चापि प्रदेहि मेऽध्वरायण ।तथाऽस्त्विति मया दत्तो वरस्तस्मै महात्मने ॥९१॥सुधर्मनाम्ने तस्मै वै वरं दत्वा तिरोऽभवम् ।सोऽपि देहं परित्यज्य रुचेः प्रजापतेर्गृहे ॥९२॥मालिन्यां पुत्र एवाऽसौ जातो देवाऽभिधः खलु ।रौच्यः स भविता लक्ष्मि देवसावर्णिनामकः ॥९३॥देवताश्च मिलित्वैव मनुत्वे स्थापनं तदा ।करिष्यन्त्यस्य देवस्य त्रयोदशस्य वै मनोः ॥९४॥रुचिर्वै ब्रह्मणः पुत्रो ब्रह्मचर्यमुवास ह ।पितरस्तं तदा प्राहुर्गार्हस्थ्यं कुरु पुत्रक ॥९५॥पुत्रेण पितॄणां स्याद्वै प्रोद्धारस्तृप्तिरित्यपि ।ततः श्राद्धं चकाराऽसौ गार्हस्थ्यं प्रचकार ह ॥९६॥मालिन्यां च सुतं रौच्यं जनयामास वै मनुम् ।त्रयोदशो मनुः सोऽयं भविष्यति महाबलः ॥९७॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने नवमादित्रयोदशमनूनां प्राग्जन्मजन्मचरित्राणां निरूपणं नाम षट्पञ्चाशदधिकशततमोऽध्यायः ॥१५६॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP