संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १४६

द्वापरयुगसन्तानः - अध्यायः १४६

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं भक्तस्य गायकस्य मे ।
जपतो मेऽभिधानानि दिव्यता चाऽत्र जायते ॥१॥
यत्र मे गायनं लक्ष्मि भजनं मम कीर्तनम् ।
महोत्पाता न वै तत्र जायन्तेऽपि कदाचन ॥२॥
मम भक्तिविहीनानां महोत्पाता भवन्ति वै ।
तेषां शान्तिः प्रकर्तव्याऽन्यथा नश्यन्ति मानवाः ॥३॥
श्रीनारायणीश्रीरुवाच-
महोत्पातेषु जातेषु का शान्तिस्तेषु विद्यते ।
सर्वदेहिहितार्थं मे ब्रूहि शान्तिं तथाविधाम् ॥४॥
श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि महोत्पाता दिव्याऽन्तरिक्षभूमिजाः ।
जायन्ते यत्र ये तेषां शान्तिं वदामि तत्त्वतः ॥५॥
सौम्या शान्तिस्तु दिव्येषु ह्यन्तरिक्षेषु चाऽभया ।
वैष्णवी शान्तिरिष्टा च भौमोत्पातेषु पद्मजे ॥६॥
विजिगीषुः परं शत्रुं भूतिकामश्च यो भवेत् ।
परैरभिचारितश्च शत्रुनाशेच्छुकश्च यः ॥७॥
महद्भयविनाशार्थमभयां शान्तिमाचरेत् ।
साधुभिश्चापि विप्रैश्च कारयेच्छान्तिमुत्तमाम् ॥८॥
राजयक्ष्माभिभूतस्तु क्षतक्षीणोऽतिरोगवान् ।
यज्ञकामो धर्मकामः सौम्यां शान्तिं प्रकारयेत् ॥९॥
भूकम्पेऽन्नविनाशे च दुर्भिक्षे चातिवर्षणे ।
शलभादिभयोत्पन्ने चौरप्रमत्तजे भये ॥१०॥
शान्तिं तु वैष्णवीं तत्र विष्णुभक्तः प्रकारयेत् ।
पशूनां मारणे प्राप्ते नराणामपि मारणे ॥११॥
देहिनां दारुणे मृत्यौ रौद्रीं शान्तिं विधापयेत् ।
यज्ञं च हवनं चापि चरेद् रुद्रादिपूजनम् ॥१२॥
वेदनाशे शास्त्रनाशे नास्तिकेषु जनेषु च ।
अपूज्यपूजने जाते ब्राह्मीं शान्तिं समाचरेत् ॥१३॥
परमेष्ठिप्रपूजादि कारयेद् वेदवेदिभिः ।
भविष्यत्यभिषेके च परचक्रभयेऽपि च ॥१४॥
स्वराष्ट्रभेदेऽरिवधे रौद्रीं शान्तिं प्रकारयेत् ।
त्र्यहातिरिक्ते पवने झंझावातेऽतिदारुणे ॥१५॥
सर्वविगर्हिते भक्ष्ये वातजे विकृते भये ।
व्याधौ वा वातजे जाते वायवीं शान्तिमाचरेत् ॥१६॥
अनावृष्टिभये जाते चातिवृष्टिभयेऽपि च ।
विकृतिवर्षणे जाते विकृते च जलाशये ॥१७॥
जलोत्पन्ने भये तत्र वारुणीं शान्तिमाचरेत् ।
अभिशापभये जाते मन्त्रशापभयेऽपि च ॥१८॥
मिथ्याशापभये प्राप्ते भार्गवीं शान्तिमाचरेत् ।
जाते प्रसववैकृत्ये गर्भरोगे च प्रस्रवे ॥१९॥
शुष्के च प्रसवे कुर्याच्छान्तिं प्राजापतीं रमे ।
उपस्काराणां वैकृत्ये भवनानां तथा रमे ॥२०॥
शकटानां वाहनानां त्वाष्ट्रीं शान्तिं समाचरेत् ।
बालानां बालिकानां च विकृतौ च भयेऽपि च ॥२१॥
विनाशे चाजीवने च कौमारीं शान्तिमाचरेत् ।
दावभये वह्निभये त्वाग्नेयो शान्तिमाचरेत् ॥२२॥
आज्ञाभंगे तु सञ्जाते जाते भृत्यादिसंक्षये ।
अश्वादीनां विकारे तु रोगात्मके ह्युपस्थिते ॥२३॥
गीतिकादौ विकारे च कण्ठादिपतनेऽपि च ।
गलरोगे व्रणादौ च गान्धर्वीं शान्तिमाचरेत् ॥२४॥
गजानां तु विकारेऽपि शान्तिमाङ्गीरसीं चरेत् ।
पिशाचादिभये जाते भूतप्रेतादिवल्गने ॥२५॥
डाकिन्यादिकृते कष्टे नैर्ऋतीं शान्तिमाचरेत् ।
अपमृत्युभये प्राप्ते दुःस्वप्ने चाऽवलोकिते ॥२६॥
नारके वा तादृशे वा प्राप्ते दुःखे यमादिभिः ।
असद्गतौ याम्यवासे याम्यां शान्तिं विधापयेत् ॥२७॥
धननाशे द्रव्यनाशे भूषारत्नादिनाशने ।
सम्पदां च विनाशे तु कौबेरीं शान्तिमाचरेत् ॥२८॥
वृक्षाणां चापि सस्यानां कन्दानां फलिनां तथा ।
वल्लीनां च कणानां च मूलानां फलवैकृतौ ॥२९॥
अर्थानां भूतियोगानां नाशे शान्तिं तु पार्थिवीम् ।
कारयेद् वेदविद्भिस्तां शान्तिकर्माऽभिवेदिभिः ॥३०॥
प्रथमे दिनयामे च रात्रौ वा समुपद्रवे ।
हस्ते स्वातौ च चित्रायामादित्ये चाश्विने तथा ॥३१॥
अर्यम्णि चापि जाते वा तथाऽन्योपद्रवेषु च ।
अद्भुतेष्वपि जातेषु वायवीं शान्तिमाचरेत् ॥३२॥
द्वितीये दिनयामे तु रात्रौ वा समुपद्रवे ।
पुष्याग्रे च विशाखासु पित्र्यासु भरणीषु च ॥३३॥
उत्पातेषु तथा भाग्ये त्वाग्नेयीं शान्तिमाचरेत् ।
तृतीये दिनयामे च रात्रौ च समुपद्रवे ॥३४॥
रोहिण्यां वैष्णवे ब्राह्मे वासवे वैश्वदैवते ।
ज्येष्ठायां च तथा मैत्र्ये ह्युपद्रवेषु सर्वथा ॥३५॥
ऐन्द्रीं शान्तिं कारयेच्च विप्रैर्मन्त्रप्रवेदिभिः ।
चतुर्थे दिनमाने तु रात्रौ वा समुपद्रवे ॥३६॥
सार्पे पौष्णे तथाऽऽर्द्रायामहिर्बुध्न्ये च दारुणे ।
मूले वरुणदैवत्ये वारूणीं शान्तिमाचरेत् ॥३७॥
मित्रमण्डलवेलासु जायमाने ह्युपद्रवे ।
अद्भुतेषु विचित्रेषु शान्तिद्वयं प्रकारयेत् ॥३८॥
शान्तिर्वर्म भवत्येव रक्षत्युपद्रवादितः ।
शान्तिः पत्नी हि धर्मस्य दक्षस्य दुहिता मता ॥३९॥
धर्मयुक्ता मया चापि युक्ता बलेन योजिता ।
मम शक्तिस्वरूपा च मद्बलेनाऽभिवेशिता ॥४०॥
तत्तद्देवबलैः पुष्टा हरत्यद्यान्युपद्रवान् ।
उपघाताः पलायन्ते शान्तिनामककर्मभिः ॥४१॥
जनापचारान्नियतमपरज्यन्ति देवताः ।
देवनामपरागाच्च ह्युपसर्गः प्रवर्तते ॥४२॥
दिव्यान्तरिक्षभौमाख्यस्तच्छान्तिस्तत्र शान्तिदा ।
ग्रहर्क्षवैकृतो दिव्यश्चोपसर्गः प्रकीर्तितः ॥४३॥
उल्कापातो दिशां दाहः परिवेषस्तथैव च ।
गन्धर्वनगरं चापि वृष्टिस्तु विकृता तथा ॥४४॥
रक्तवृष्टिर्विषतापश्चान्तरिक्षोपसर्गकाः ।
चरस्थिरभवौ भौमो भूकम्पश्चापि भूमिजः ॥४५॥
जलाशयानां वैकृत्यं भौमः सोऽप्युपसर्गकः ।
भौमे त्वल्पफलं ज्ञेयं चिरेण स विपच्यते ॥४६॥
अभ्रजो मध्यफलदो मध्यकालफलप्रदः ।
अद्भुते तु समुत्पन्ने यदि वृष्टिः शिवा भवेत् ॥४७॥
सप्ताहाभ्यन्तरे ज्ञेयमद्भुतं निष्फलं भवेत् ।
अद्भुतानां निवृत्तिस्तु विनाशान्त्या न जायते ॥४८॥
त्रिभिर्वषैरद्भुतं स्यात् सुमहद्भयकारणम् ।
राज्ञः शरीरे लोके वा पुरद्वारे पुरोहिते ॥४९॥
पाकमायाति पुत्रेषु तथा कोशे च वाहने ।
ऋतुस्वभावाज्जायन्ते ह्यद्भुता उपसर्गकाः ॥५०॥
शान्तिकर्मोपशमिताः शुभावहा भवन्ति ते ।
कालमासप्रभेदे तु शुभास्ते शान्तिमन्तरा ॥५१॥
वज्राशनिमहीकम्पाऽसस्थनिर्घातनिस्वनाः ।
परिवेषरजोधूमरक्ताऽर्काऽस्तमयोदयाः ॥५२॥
द्रुमोद्भेदकरस्नेहो बहुशः सफलद्रुमः ।
गोपक्षिमधुवृद्धिश्च शुभाः फाल्गुनचैत्रयोः ॥५३॥
ऋक्षोल्कापातकलुषं कपिलाऽर्केन्दुमण्डलम् ।
कृष्णं श्वेतं च पीतं च धूसरं ध्वान्नलोहितम् ॥५४॥
रक्तं पुष्पारुणं सान्ध्यं नमः क्षुब्धार्णवोपमम् ।
सरितां चाम्बुसंशोषश्चैते ग्रीष्मे शुभावहाः ॥५५॥
शक्रायुधपरिवेषो विद्युदुल्काधिरोहणम् ।
कम्पोद्वर्तनवैकृत्यं हसनं दारुणं क्षितेः ॥५६॥
नद्योदपाने सरसां विधूनतरणप्लवाः ।
शृङ्गिणां च वराहाणां वर्षासु शुभदा हि ते ॥५७॥
शीतानिलतुषाराश्च नर्दनं मृगपक्षिणाम् ।
रक्षोभूतपिशाचानां दर्शनं वागमानुषी ॥५८॥
दिशो धूमान्धकाराश्च सनभोवनपर्वताः ।
उच्चैः सूर्योदयाऽस्तौ च हेमन्ते चेच्छुभावहाः ॥५९॥
दिव्यस्त्रीरूपगन्धर्वविमानाद्भुतदर्शनम् ।
ग्रहनक्षत्रताराणां दर्शनं वागमानुषी ॥६०॥
गीतवादित्रनिर्घोषो वनपर्वतसानुषु ।
सस्यवृद्धी रसोत्पत्तिः शरत्सु चेच्छुभावहाः ॥६१॥
हिमपाताऽनिलोत्पातविरूपाद्भुतदर्शनम् ।
कृष्णाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम् ॥६२॥
चित्रगर्भोद्भवः स्त्रीषु गोऽजाश्वमृगपक्षिषु ।
पत्राऽङ्कुरलतानां च विकाराः शिशिरे शुभाः ॥६३॥
देवतार्चाः प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च ।
वमन्त्यग्निं तथा धूमं स्नेहं रक्तं तथा वसाम् ॥६४॥
आरमन्ति रुदन्त्येताः प्रस्विद्यन्ति हसन्त्यपि ।
उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति धमन्ति च ॥६५॥
विक्षिपन्ति भुञ्जते वा कोशप्रहरणध्वजान् ।
अवाङ्मुखा वै भवन्ति स्थानात् स्थानं भ्रमन्ति च ॥६६॥
एवमाद्या हि दृश्यन्ते विकाराः सहसोत्थिताः ।
लिङ्गायतनवप्रेषु तत्र वासं न रोचयेत् ॥६७॥
राज्ञी वा व्यसनं तत्र स च देशो विनश्यति ।
देवयात्रासु चोत्पातान् दृष्ट्वा देशभयं वदेत् ॥६८॥
पितामहस्य हर्म्येषु तत्र वासां न रोचयेत् ।
पशूनां रुद्रजं दुःखं नृपाणां लोकपालजम् ॥६९॥
सेनापतीनां वै स्कन्दविशाखादिसमुद्भवम् ।
लोकानां विष्णुवस्वीन्द्रविश्वकर्मसमुद्भवम् ॥७०॥
विनायकोद्भवं दुःखं नायकानां च शासिनाम् ।
देवप्रेष्यानृपप्रेष्यादेवस्त्रीणां नृपस्त्रियाः ॥७१॥
वासुदेवोद्भवं ग्रहोद्भवं दुःखं न चान्यथा ।
देवतागतदुःखेषु श्रुतिवेत्ता पुरोहितः ॥७२॥
देवतार्चां स्नापयेच्चाच्छादयेच्च विभूषयेत् ।
पूजयेद् गन्धमाल्यान्नमधुपर्कादिसम्पदा ॥७३॥
उपतिष्ठेच्च विधिवज्जुहुयात् सप्तरात्रकम् ।
अग्नौ ततो नित्यमेव भोजयेद् ब्राह्मणान् सतः ॥७४॥
साधून् साध्वीर्मिष्टभोज्यमिष्टपानैः सदक्षिणम् ।
प्राप्तेऽष्टमे दिने धेनुभूरत्नदानमाचरेत् ॥७५॥
कांचनानि प्रदद्याच्च ग्रहशान्तिं समापयेत् ।
शान्तिपाठान् कारयित्वा पापं समुपशामयेत् ॥७६॥
एवं कृते तु ते विघ्नाः शान्तिं यान्ति न संशयः ।
अथाऽनग्निर्दीप्यते चेद् राष्ट्रे यस्य निरिन्धनः ॥७७॥
न दीप्यते चेन्धनवान् तद्राष्ट्रं पीड्यते नृपैः ।
प्रज्वलेदप्सु मांसं वा तथाऽऽर्द्रं वापि किञ्चन ॥७८॥
प्राकारस्तोरणं द्वारं नृपवेश्म सुरालयम् ।
एतानि यत्र दीप्यन्ते तत्र राज्ञो भयं भवेत् ॥७९॥
विद्युता वा प्रदह्यन्ते तदापि नृपतेर्भयम् ।
स्वामिनो वा भयं तत्र यत्राग्निश्चाऽस्थले भवेत् ॥८०॥
अनैशानि तमांसि स्युर्विना पांसुरजांसि च ।
धूमश्चाऽनग्निजो यत्र तत्र विद्यान्महाभयम् ॥८१॥
तडित् त्वनम्रे गगने भयं स्याद् ऋक्षवर्जिते ।
दिवा सतारे गगने भयं तथैव जायते ॥८२॥
ग्रहनक्षत्रवैकृत्ये तारविषमदर्शने ।
पुरवाहनयानेषु चतुष्पान्मृगपक्षिषु ॥८३॥
आयुधेषु च दीप्तेषु धूमायत्सु तथैव च ।
निर्गमस्तु च कोशात्तु संग्रामस्तुमुलो भवेत् ॥८४॥
विनाऽग्निं विस्फुलिंगाश्च दृश्यन्ते यत्र कुत्रचित् ।
स्वभावाच्चापि पूर्यन्ते धनूँषि विकृतानि च ॥८५॥
विकारश्चायुधानां स्यात् तत्र संग्राममादिशेत् ।
त्रिरात्रोपोषितस्तत्र जुहुयाद्वै पुरोहितः ॥८६॥
समिद्भिः क्षीरवृक्षाणां सर्षपैश्च घृतेन च ।
अग्निमन्त्रैर्हवनेन शान्तिस्तेषां प्रजायते ॥८७॥
साधून् सतीर्ब्राह्मणाँश्च बालाँश्च बालिकाः स्त्रियः ।
भोजयेत् पूजयेद् देवान् महोत्सवं प्रकारयेत् ॥८८॥
सुवर्णंं धनरत्नानि दद्याद् गा भुवमम्बरम् ।
अग्निजोपद्रवाणां शस्त्राणां शान्तिस्तदा भवेत् ॥८९॥
पुरेषु येषु दृश्यन्ते पादे पादे प्रगामिनः ।
रुदन्तो वा हसन्तो वा स्रवन्तो वा रसान् बहून् ॥९०॥
अरोगाश्च विना वातं शाखां मुञ्चन्ति वै द्रुमाः ।
फलं मूलं तथा कालं दर्शयन्ति त्रिहायना ॥९१॥
एवं वै स्वं दर्शयन्ति फलं पुष्पं तथाऽऽन्तरे ।
क्षीरं स्नेहं तथा रक्तं मधु तोयं स्रवन्ति च ॥९२॥
शुष्यन्त्यरोगाः सहसा शुष्का रोहन्ति वा पुनः ।
उत्तिष्ठन्तीह पतिताः पतन्ति च तथोत्थिताः ॥९३॥
एवं तत्र फलं लक्ष्मि शृणु भिन्नं वदामि ते ।
रोदने व्याधिरायाति हसने देशविप्लवः ॥९४॥
शाखाप्रपतने स्याद्वै संग्रामो योधृनाशकः ।
बालानां मरणं कुर्याद् बालवल्ली प्रपुष्पिता ॥९५॥
स्वराष्ट्रभेदं कुरुते फलपुष्पमथाऽऽन्तरे ।
क्षयः स्याद् गोक्षीरे चापि स्नेहे दुर्भिक्षमापतेत् ॥९६॥
वाहनापचयो मद्ये रक्ते संग्राम आपतेत् ।
मधुस्रावे भवेद् व्याधिर्जलस्रावे न वर्षति ॥९७॥
अरोगशोषिता वृक्षा दुर्भिक्षं सूचयन्ति वै ।
शुष्केषु सम्प्ररोहस्तु वीर्यमन्नं हिनस्ति च ॥९८॥
उत्थाने पतितानां च भयं भेदकरं भवेत् ।
स्थानात् स्थानं तु गमने देशभंगस्तदा भवेत् ॥९९॥
ज्वलत्स्वपि तु वृक्षेषु रुदत्स्यपि धनक्षयम् ।
एतत् पूजितवृक्षेषु सर्वं राज्ञो विपद्यते ॥१००॥
पुष्पे फले वा विकृते राज्ञौ मृत्युं द्रुमो दिशेत् ।
एवं वृक्षेषु जातेषु शीघ्रमाच्छाद्य तद्द्रुमान् ॥१०१॥
गन्धमाल्यादिभिः सर्वान् भूषयेत्पूजयेत्तथा ।
वृक्षोपरि महच्छत्रं कुर्यात् पापोपशान्तये ॥१०२॥
शिवं विष्णुं श्रियं शिवामभ्यर्चयेद् द्रुमेषु वै ।
पशुं चान्नं त्वर्पयेच्च रुद्रशान्तिं प्रकारयेत् ॥१०३॥
रुद्रेभ्य इति वृक्षेषु हुत्वा रुद्रो जपेत्ततः ।
पायसाऽऽज्यमध्वाढ्यैः प्रपूज्य भूदानमाचरेत् ॥१०४॥
गीतं नृत्यं प्रकुर्याच्च रुद्रशान्तिस्ततो भवेत् ।
एवं लक्ष्मि प्रजाराजभयं सर्वं व्यपोहति ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने दैवाऽन्तरिक्षभौमोत्पातानां शान्तिकर्माचारादिकथननामा षट्चत्वारिंशदधिकशततमोऽध्यायः ॥१४६॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP