संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २३३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २३३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २३३ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं गरदस्यापि मोक्षणम् ।काशमित्रे रम्यदेशे श्रीनगरे सुखावहे ॥१॥झिल्लिमासरितस्तीरेऽभवद्भक्तो लवादनः ।कुटुम्बवान् विप्रवर्योऽधीतविद्यः सुधार्मिकः ॥२॥ख्यातवंशी महामानः श्रीपुराधिपमानितः ।राजा श्रीनगरस्याऽऽसीन्नाम्ना श्रीमानवेश्वरः ॥३॥तेन सम्मानितो नित्यं सभायां कृतशेखरः ।न्यायालयेऽपि मूर्धन्यः प्रजायां चातिमानवान् ॥४॥लवादनोऽपरो राजा राजेव वर्तते तदा ।कृतराज्यसमस्ताऽभ्युदयः शिक्षाविभागके ॥५॥सैन्यस्थानातिकुशलो व्यापारे निपुणस्तथा ।बुद्धिमान् वर्तते चैवं राज्ञ्याऽप्यतीव मानितः ॥६॥एवविधः प्रधानोऽयं गुरुश्चापि नृपस्य वै ।करोति राज्यकार्याणि राष्ट्रकार्याणि यान्यपि ॥७॥नृपे प्रजायां सैन्ये वा राष्ट्रे क्षतिं प्रवीक्ष्य सः ।निःसंशयः समानश्च बुद्ध्या वारयति क्षतिम् ॥८॥नृपं प्रजाश्च सैन्यानि त्वापद्गतानि रक्षति ।आस्तिको देववल्लोके मानपात्रं स वर्तते ॥९॥नित्यं सूर्यं हरं विष्णुं चन्द्रमसं च वेधसम् ।वह्निमिन्द्रं सुवर्णं च मायां जीवं सचार्हति ॥१०॥दशायतनभक्तोऽयं दशधर्मान् करोत्यपि ।जलदानं चर्मदानं लक्ष्मीदानं तु नैकधा ॥११॥ओषध्यर्पणमाभूषार्पणं घृतार्पणं तथा ।धनुर्दानं स्वर्णदानं कन्यादानं कथार्पणम् ॥१२॥एवं धर्मान् करोत्येव तथाऽन्यानपि चोचितान् ।गृहक्षेत्रालयवाट्युद्यानार्पणं करोत्यपि ॥१३॥राज्यलक्ष्मीव्ययाऽऽदानसमर्थो वर्तते महान् ।एवंविधोऽयं भक्तश्च दशदेवान् प्रसेवते ॥१४॥ज्ञानवानपि धर्मात्मा क्वचित्तामसभाववान् ।करोति तामसं कार्यं दण्डे हिंसात्मकं महत् ॥१५॥राजानं राजपुत्रं वा स्वपुत्रं वा परं प्रजाः ।दण्ड्यं दण्डं करोत्येषो धर्मशास्त्रानुसारतः ॥१६॥अथ काले गते राजा प्रौढो युवाऽतिराजसः ।मृगयायां प्रवृत्तोऽभूद् व्यवाये च शनैः शनैः ॥१७॥प्रजायां सव्यवायं वै प्रसह्य प्रकरोति हि ।तेनाऽस्य मानवेशस्य प्रजासु निन्दनं तथा ॥१८॥त्रासः प्रजायते नित्यं प्रजाधर्षणकारणात् ।पुत्रा नृपतेरभवन् पञ्च पुत्र्यश्च विंशतिः ॥१९॥राज्ञ्यः सप्ताऽभवँश्चापि युवत्यश्च तथापि सः ।कामनाबलसंकृष्टो व्यवाये वर्तते सदा ॥२०॥मद्यासवपिशतादश्चातिपापपरोऽभवत् ।अथाऽस्य निग्रहार्थं वै प्रजा लवादनाय ह ॥२१॥मुहुः सम्प्रार्थयामासुर्धर्मदण्डप्रदानकम् ।लवादनः शुशोचापि राजद्रोहो भवेत्तथा ॥२२॥अदण्डे तु प्रजाद्रोहः कर्तव्यमत्र किं मया ।एवं विचार्यमाणे च मार्गः शनैरबुध्यत ॥२३॥युवराजाय दातव्यं राज्यं राजा निरर्थकः ।शासनीयः स्वयमेव भविष्यत्यपसत्तया ॥२४॥लवादनेनैकदा तु राज्ञे सत्त्वस्थिताय च ।आवेदितं शुभं वाक्यं ज्ञानगोष्ठ्या हितावहम् ॥२५॥असारः खलु संसारस्तत्र सारो हि मोक्षणम् ।सेवया तु सतां यद्वा नारायणसमाश्रयात् ॥२६॥पापनाशस्तथा मोक्षः प्रजायते हि देहिनाम् ।राज्यं सम्पद् बान्धवाश्च प्राणयाने ह्युपागते ॥२७॥न रक्षन्ति महाराजं चक्रवर्तिनमित्यपि ।रक्षत्येव कृतो धर्मो नाऽधर्मो रक्षति क्वचित् ॥२८॥धर्म एव परे लोके सेवितः सेवते जनम् ।अधर्मो बाधते त्वत्र परे लोकेऽपि शत्रुवत् ॥२९॥निवृत्तिं प्राप्य भगवान् भजनीयो हितैषिणा ।पुत्रे योग्ये धुरं दत्वा मोक्षः साध्यः सुखार्थिना ॥३०॥कामानां नैव सीमाऽस्ति वर्धन्ते तृष्णया सह ।पातयन्ति निरये तेऽर्दयन्ति ज्वालयन्ति च ॥३१॥कामाँस्त्यक्त्वा हृदयस्थान् नारायणार्पणं चरेत् ।व्यवहारस्य भक्तेश्च कामानां न सह स्थितिः ॥३२॥भक्तिं कर्तुं व्यवहारं कामाँस्त्यजेत् वृषार्थवान् ।तस्माद् राज्यं कुमाराय देयं शान्तेश्वराय ते ॥३३॥ज्येष्ठपुत्राय योग्याय शोभनं तद् भविष्यति ।श्रुत्वा राजाऽन्तरे वह्निज्वालयेव ह्यदह्यत ॥३४॥सतृष्णस्य विषं सर्वं चामृतं ह्यपि पद्मजे ।हितवाक्यं त्यागवाक्यं विषायते न संशयः ॥३५॥स तु नीत्याऽवदत्तं स्वप्रधानं गुरुमुत्तमम् ।लवादन गुरो योग्यं भवता मे निवेदितम् ॥३६॥तथापि कस्यचित् कालस्याऽन्ते दास्यामि तत्तथा ।पुत्रे तु योग्यता पक्वा तावद्राज्ये भविष्यति ॥३७॥अभ्यासेन ततो राज्यं दास्ये शैघ्र्यं न विद्यते ।इत्युत्तरितो गुरुराण् मौनमाप्याऽनमन्नृपम् ॥३८॥राजाऽपि कैतवं नित्यमचिन्तयन्निजार्थकम् ।गुरुश्चाऽयं राज्यगुरुः प्रधानश्च सभाधिपः ॥३९॥उत्सादनीयः स्थानाद्वै स्थापनीयोऽपरो गुरुः ।तदा मे भविता क्षेमं कुशलं सर्वदा तथा ॥४०॥विचार्येत्थं त्रिमासान्ते स्थानाद् दूरीचकार तम् ।लवादनोऽपि दैवेच्छां मत्वाऽत्यजन्निजं पदम् ॥४१॥निवृत्तिं प्राप्य देवान् स ह्यभजद् दश तान् सदा ।राजा व्यवर्धत चातिव्यवाये स्वप्रजासु वै ॥४२॥प्रसह्य कन्यका नीत्वा प्रजायास्तु सुरूपिणीः ।करोति कामनां तासु विमुञ्चति कृतार्थकः ॥४३॥आक्रोशश्च प्रजास्वेव व्यवर्धतातिरोषतः ।राजाऽयं नाशनीयो वै प्रधानस्य विवासकः ॥४४॥एकशब्दः श्रूयते वै सर्वप्रजासु सर्वथा ।प्रजाव्यवायव्यसनी नाशनीयः नृपोऽपि वै ॥४५॥अन्यथा महती हानिर्भवेदेव प्रजासु वै ।इतिनिश्चित्य च सर्वे प्रजाग्र्यास्तु लवादनम् ॥४६॥मिमिलुर्नृपनाशाय दैवेन नोदिता हि ते ।लवादनेन सहिता ययुः सेनापतिं प्रति ॥४७॥सूर्यकान्ताभिधं चापि कथायामासुरुद्व्रतम् ।राज्ञो विनाशनं स्याद्वै यदि धर्मे न याति सः ॥४८॥भवान् प्रजानां शास्ताऽपि नीतिमाश्रयतु ध्रुवाम् ।राजाऽयं राज्यपदतोऽवतार्य एव सर्वथा ॥४९॥सूर्यकान्तो मर्मवाक्यं श्रुत्वा तथाऽस्तु चाऽवदत् ।अथ सर्वे ययुः शान्तेश्वरं तु युवराजकम् ॥५०॥राजाऽयं विपथे त्वास्ते पदयोग्यो न विद्यते ।अवतार्य पदात् त्वं च स्थाप्यः प्रजाभिरादरात् ॥५१॥अन्यथा महती हानिर्भविष्यतीति विद्धि वः ।कुमारोऽपि तथाऽस्त्वेवं प्राहाऽथ महिषीं प्रति ॥५२॥श्रेष्ठोत्तमां प्रति सर्वेऽकथयन्नितिनिर्णयम् ।सापि दैववशात्तथास्त्वेवं प्राह विवेकिनी ॥५३॥अथ प्रजाभिर्महती सभा कृता निवृत्तये ।तत्र राज्ञी तथा राज्ञ्यः कुमाराश्च प्रजोत्तमाः ॥५४॥सेनापतिः प्रधानश्चाययुर्निर्णयहेतवे ।प्रधानाय नवीनाय निर्णयं ते न्यवेदयन् ॥५५॥गर्तमणिः प्रधानस्तु निर्णयं नाऽभ्यमोदयत् ।उत्थाय प्रययौ भूपं न्यवेदयदनिष्टकम् ॥५६॥राजा रोषेण सहसा गर्तमणिमुवाच ह ।कारागारे प्रकरोतु सेनापति कुमारकम् ॥५७॥राज्ञीं प्रजाः पूर्वप्रधानं च तथा विरोधिनः ।श्रुत्वा गर्तमणिना वै राजभटा नृपाज्ञया ॥५८॥प्रहिता निगडे कर्तुं राजविरोधिनो द्रुतम् ।शतशोऽथ राजभटा दुद्रुवुः परितस्तदा ॥५९॥विधृता बहवस्तत्र कृताश्च निगडेषु वै ।अथ लवादनस्तत्र राज्ञीं राजकुमारकम् ॥६०॥सेनापतिं प्रसंप्राप्य मन्त्रणां संविधाय सः ।गरं तीव्रतमं नीत्वा राजानं शरणं ययौ ॥६१॥पुष्पहारं सगरलं कण्ठे राज्ञो न्यधात्तदा ।राजा सुगन्धमासाद्य शनैर्मूर्च्छामवाप ह ॥६२॥मृतस्तूर्णं ततो गर्तमणिः संभ्रंशितः पदात् ।लवादनः प्रधानस्य पदे प्रजाभिरादृतः ॥६३॥कारागारस्थिताः सर्वे लवादनेन मोचिताः ।शान्तेश्वरो युवराजो राजधिष्ण्येऽभिषेचितः ॥६४॥मानवेशो मृतश्चेति घोषितं वै प्रजास्वपि ।राज्ञ्यस्ताश्च कुमाराश्च नृपौर्ध्वदैहिकं व्यधुः ॥६५॥यज्ञो नृपस्य शुद्ध्यर्थं कृतवान् स लवादनः ।विप्रा अनाथाः सन्तश्च साध्व्यश्च कन्यकास्तथा ॥६६॥प्रजाजना भोजिताश्च तोषिताः स्वर्णदानकैः ।गोदानैर्गृहदानैश्च कन्यादानैः कुमारकाः ॥६७॥धर्मकार्यैर्मखे राजा मृतः पुण्येन योजितः ।यमपूर्यां च सूर्म्यादियातना बहुदुःखदाः ॥६८॥भुक्त्वा स्वर्गं ययौ पश्चान्मखपुण्येन वै नृपः ।युवराजोऽभवद् राजा राज्यं धर्म्यं व्यधाद्धि सः ॥६९॥साधुभक्तोऽभवन्नित्यं नारायणपरायणः ।सहस्रसाधवस्तस्य भुंजते नित्यमेव तु ॥७०॥करोति राज्यं धर्म्यं च लवादनाऽनुमोदितः ।अथ साधूत्तमो नाम्ना किंशुकायनसद्गुरुः ॥७१॥आत्मनिष्ठो भगवन्निष्ठितो लवादनं गुरुम् ।तथा शान्तेश्वरं भूपं सेनानी सूर्यकान्तकम् ॥७२॥प्रजाग्र्याँश्चोपादिदेश हितं कल्याणदं तदा ।कर्मभिर्देहिनो लोके जायन्ते च वियन्ति च ॥७३॥धर्मो ज्ञानं विरागश्च भक्तिर्हरौ च साधुषु ।कृतं यत् सेवनं पुण्यं दानं सह प्रयाति वै ॥७४॥धर्मी नृपः पितृतुल्योऽधर्मी दण्ड्यस्तु शत्रुवत् ।धर्मिणा भूभृता श्रेयः प्रजानां नित्यदा भवेत् ॥७५॥साघुसेवाविधाता वै राजा प्रजासु राजते ।बिडालबकवृत्तिस्तु प्रजाभिः परिभूयते ॥७६॥यस्तु निर्मलहृत् कृष्णसेवापरो जितेन्द्रियः ।प्रजारक्षाकरो भूपो वर्धतेऽनुग्रहैः सताम् ॥७७॥बाल्ये कश्चित् साधुधर्मा यौवने विपरीतकृत् ।बाल्ये दुष्टोऽपि कश्चित्तु यौवने धार्मिको भवेत् ॥७८॥सतां समागमैर्देही त्वाबाल्याज्जीवनावधिम् ।सत्पुमानेव जायेत श्रेयोमार्गस्थितः सदा ॥७९॥असत्पुमानसत्संगादसन्नेवाऽभिवर्धते ।सहवासव्यवहारखानपानापमानतः ॥८०॥गुणा अगुणा दृश्यन्ते बाले युनि विशेषतः ।बाल्ये पुण्यप्रतापेन धर्मी युन्यपि सभवेत् ॥८१॥शमेन मनसः शान्तिर्दमेन बाह्यवाजिनाम् ।ताभ्यां दोषाः प्रदातव्याः कामक्रोधादयोऽखिलाः ॥८२॥उभावेतौ त्यागिनां च गृहिणां हितकारिणौ ।साधुसेवापराणां तु दोषा नश्यन्ति मूलतः ॥८३॥जीवो विवेकनिपुणो नाशयेद् दोषमण्डलम् ।साक्षी कृष्णश्चान्तरात्मा प्रापयेद्धाम चोत्तमम् ॥८४॥कल्याणमूर्तिर्भगवान् जीवानां श्रेयसे भुवि ।प्राविर्भवति श्रीकान्तस्तं प्रसेव्य विमुच्यते ॥८५॥यद्यपि श्रीहरिर्धाम्नि स्थित एव तु मुक्तिदः ।समर्थोऽस्ति तथाप्यत्र प्रेमिभक्ता भवन्ति ये ॥८६॥नार्यो नराः प्रेमिणो वै तेषां यो विरहो हरेः ।असह्यः क्षणमात्रं तु तन्नाशाय यथा सुखम् ॥८७॥तेभ्यो दातुं भक्तिवशो भक्तेच्छापूरणाय च ।तदिहानुप्रमोदादिपूरं रूपं दधाति सः ॥८८॥योगं दत्वा पूरयति भक्तसर्वमनोरथान् ।सजातीयो हि भवति प्रेमवृद्ध्यर्थमेव ह ॥८९॥कृपैव सा हरेर्बोध्या भक्तजातीयजन्मनि ।असंख्यदिव्यसद्गुणैश्वर्यप्रतापतेजसा ॥९०॥पूरयन्नरनारीणां मनांसि तद्वशे स्थितः ।पुत्रत्वेन पतित्वेन सुहृत्त्वेन सखित्वतः ॥९१॥पितृमातृसतीत्वेन साधुत्वेन प्रवर्तते ।शिष्यत्वेन गुरुत्वेन नृपत्वेन च वर्तते ॥९२॥सुखयित्वा यथेष्टं तान् धर्मस्थापनमुत्तमम् ।आसुराणां विनाशं च कुर्वंस्तदानुषंगिकम् ॥९३॥तिरोभवति भक्तानां तृप्त्युत्तरं निजेच्छया ।अनादिश्रीकृष्णनारायणः श्रीकम्भरात्मजः ॥९४॥गोपालबालः श्रीकृष्णो भक्त्या ग्राह्यः श्रियः पतिः ।कामं क्रोधं छलं लोभं मानमिर्ष्यां च मत्सरम् ॥९५॥त्यक्त्वा पापानि सन्दह्य भजेत्तं माणकीपतिम् ।भक्त्या सतां सेवया च स प्रभुः सम्प्रसीदति ॥९६॥अग्निदस्य गरदस्य नारीहत्योद्भवस्य च ।पापं नश्यति कृष्णस्य सेवया तत्सतामपि ॥९७॥बालघ्नस्य धेनुहत्योद्भवस्य नृपनाशिनः ।मातृघ्नस्य तथा पापं लीयते कृष्णसेविनः ॥९८॥'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ।जपन्तु सततं मन्त्रं पापशुद्धिर्भविष्यति ॥९९॥इत्युक्त्वा कमले किंशुकायनः प्रददौ मनुम् ।लक्षप्रजाभ्यस्तत्रैव सर्वान् व्यधात् सुवैष्णवान् ॥१००॥अनादिश्रीकृष्णनारायणं भेजुश्च मां हि ते ।लवादनो दशदेवैर्मां ततः पुरुषोत्तमम् ॥१०१॥विशेषेणाऽभजत् सर्वे चान्ये राजप्रजादयः ।भेजुर्मां श्रीकृष्णनारायणं चात्मनिवेदिनः ॥१०२॥साधवः प्रययुर्बद्रीनारायणं ततः खलु ।लवादनस्य वार्धक्ये सेवया तुष्टतां गतः ॥१०३॥अहं लक्ष्मि पुरो दिव्यमूर्तिराविर्बभूव ह ।गरदस्य महत्पापं विधूय दिव्यवर्ष्मणा ॥१०४॥दिव्यमुक्तं विधायैवाऽनयं धामाऽक्षरं मम ।राज्ञीः सर्वास्तथा सेनापतिं च नृपतिं नवम् ॥१०५॥भक्त्या तुष्टोऽनयं सर्वानक्षरं क्रमशः पदम् ।प्रजाश्च भक्तिसम्पन्नाः पावनीश्चानयं पदम् ॥१०६॥एवं मया समस्तास्ते साधुद्वारा विमोचिताः ।मायाबन्धनरहिताः कृता लक्ष्मि परेऽक्षरे ॥१०७॥गरदानमहत्पापं सर्वं भक्त्या लयं गतम् ।एवं भक्त्या विलीयन्ते पापानि सर्वथा रमे ॥१०८॥भुक्तिं मुक्तिं प्रयान्त्येव भजनस्य बलान्मम ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेत् सदा ॥१०९॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने लवादनाख्यप्रधानस्य राज्ञे गरदस्य भगवद्भक्त्या किंशुकायनसाधुसेवया च तस्य च राज्ञीनां च प्रजानां च मोक्षणमित्यादिनिरूपणनामा त्रयस्त्रिंशत्यधिकद्विशततमोऽध्यायः ॥२३३॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP