संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ४१ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ४१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४१ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-उपवीतं रक्षयेच्च नरो नारी समाहितः ।सन्ध्यां कुर्वीत च नमेद् गुरुवर्गं सदा वधूः ॥१॥उपाध्यायं च पितरं ज्येष्ठभ्रातरमित्यपि ।नृपं मातुलं श्वशुरं मातामहपितामहौ ॥२॥वर्णश्रेष्ठं च पितृव्यं मातामहीं च मातरम् ।पितृसहोदरीं गुर्वीं श्वश्रूं पितामहीं तथा ॥३॥धात्रीं ज्येष्ठां सपत्नीं च भगिनीं प्रणमेद् वधूः ।अनुवर्तनमेतासां मनोवाक्कायकर्मभिः ॥४॥प्रपालयेच्च ता दृष्ट्वोत्तिष्ठेत् समभिवादयेत् ।नैतैरुपविशेत् सार्धं विवदेन्नाऽऽत्मकारणात् ॥५॥जीवितार्थमपि द्वेषाद् गुरून् नैवाऽपमानयेत् ।उद्रिक्ताऽपि गुरुद्वेषकरी वधूः पतत्यधः ॥६॥भर्ता भ्राता तथा विद्याप्रदाता जननी पिता ।पूजनीया विशेषेण पञ्च ते गुरवोऽग्रगाः ॥७॥आत्मनः सर्वयत्नेन प्राणत्यागेन चापि वै ।तेषां हितं सदा कार्यं श्वश्र्वाश्च श्वशुरस्य च ॥८॥मूत्रं कृत्वा त्रिराचामेत् तथैव भोजनोत्तरम् ।मलं त्यक्त्वा स्नानमेव समाचरेत् सुखार्थकम् ॥९॥केशानां गुप्तदेहस्य स्पर्शे प्रक्षालनं नसः ।कर्तव्यं कर्णनाभ्यादेः स्पर्शेऽपि चरणस्पृशौ ॥१०॥अग्नौ श्मशाने काष्ठे वा शाद्वले गोमये न च ।जले जीर्णे देवगृहे वल्मीके जन्तुगर्तके ॥११॥मलमूत्रादि कुर्यान्न राजमार्गे तुषादिषु ।न क्षेत्रे न बिले तीर्थे नोद्याने नगराशये ॥१२॥नित्यमुद्यममग्ना स्यात् साध्व्याचाररता सती ।गुर्व्यग्रे प्रौढपादा न भवेद् वधूः कदाचन ॥१३॥गुरोर्निन्दा तथा गुर्व्याः परिवादोऽपि यत्र वा ।प्रवर्तते तत्र कर्णौ पिधातव्यौ यथाऽन्यतः ॥१४॥गन्तव्यं च तथा सेवा कर्तव्या भावनान्विता ।प्रयुञ्जीत सदा वाचं मधुरां हितकारिणीम् ॥१५॥लौकिकं वैदिकं वापि तथाऽऽध्यात्मिकमित्यपि ।आददीत यतो ज्ञानं तं न द्रुह्येद् वधूजनः ॥१६॥गुर्वीवत्प्रतिपूज्याश्च सवर्णा गुरुयोषितः ।अभ्यञ्जनस्नापनाद्यैर्गात्रसम्मार्दनादिभिः ॥१७॥केशप्रसाधनाद्यैश्च गुर्व्यः सेव्या वधूजनैः ।अभिवाद्या गुरुपत्नी प्राधीयीत श्रुतीस्ततः ॥१८॥सावित्रीं श्रीहरिं नाम वेदान्ताँश्चात्मशोषितान् ।अधीयीताऽभ्यसेन्नित्यं ब्रह्मनिष्ठा समाहिता ॥१९॥ओंकारमादितः कृत्वा व्याहृतीश्च ततः परम् ।ततोऽधीयीत मन्नाम श्रीमत्कृष्णनरायणम् ॥२०॥न जीर्णमलवद्वस्त्रा भवेद् वधूटिका क्वचित् ।सख्यं सखीभिः कुर्याच्च कुर्यादात्महितं वधूः ॥२१॥वयसः कर्मणोऽर्थस्य श्रुतस्याऽभिजनस्य च ।देशवाग्बुद्धिसारूप्यमाचरन्ती गृहे वसेत् ॥२२॥वृद्धैर्वृद्धाभिरुत्कृष्टं सेवितं वृषमेव सा ।निषेवेत न तेनेयं यान्ती दुष्यति कर्हिचित् ॥२३॥त्रिवर्गसेविका स्याच्च स्याच्च विभागशालिनी ।सा गृहिणी सदा प्रोक्ता स्वर्गादिसत्यधारिणी ॥२४॥धर्मस्याऽऽयतनं यत्नाच्छरीरं परिपालयेत् ।नहि देहं विना नारायणोऽहं प्राप्तिगोचरः ॥२५॥न हिंस्यात् सर्वभूतानि नान्याऽहितं चरेत् क्वचित् ।न देवद्रव्यहर्त्री स्याद् विषं देवस्य वै धनम् ॥२६॥देवद्रोहं न कुर्वीत गुरुद्रोहं तथैव च ।स्वामिद्रोहं न कुर्वीत श्वश्रूद्रोहं न चाचरेत् ॥२७॥अनृताद् बहुभोगाच्च परपीडाविधापनात् ।शापाद् रोगाच्च वै दीर्घादायुष्यं नाशमेति हि ॥२८॥न संवसेत् सुमूर्खाभिः पापाभिश्च क्वचिद् वधूः ।सहवासात् संगमाद्यैः पापं संक्रमते यतः ॥२९॥न कुर्याच्छुष्कवैराणि मर्मभीन्दि न चोच्चरेत् ।बह्वीभिश्च समं कुर्यान्न विरोधं वधूः क्वचित् ॥३०॥न देवगुरुविप्राणां दीयमानं निवारयेत् ।न चात्मानं प्रशंसेच्च निन्दां चापि विवर्जयेत् ॥३१॥न पापं पापिनां ब्रूयान्मिथ्यादोषं न चार्पयेत् ।नाऽश्नीयात् स्वामिना सार्धं त्वेकस्थाल्यां कदाचन ॥३२॥न कुर्यात् कस्यचित् पीडां सुतां शिष्यां तु शिक्षयेत् ।नात्मानं चावमन्येत दैन्यं च वर्जयेत् सदा ॥३३॥न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ।न गालीः संवदेत् क्वापि नाऽश्लीलानि वदेत्तथा ॥३४॥नैव स्वप्याच्छून्यगेहे निर्जने वा परासने ।चैत्यवृक्षं न वै छिन्द्याद् गुरून्न वञ्चयेत् क्वचित् ॥३५॥न देवायतने गच्छेद् वामं कृत्वा तु मन्दिरम् ।न व्याधिदूषिताभिश्च संसर्गं रचयेद् वधूः ॥३६॥न निन्देद् योगिनः सिद्धान् व्रतिनो वा यतींस्तथा ।देवान् देवनिवासाँश्च साध्वीः सतीश्च गुर्विकाः ॥३७॥रात्रौ तिलसमायुक्तं दधि त्यजेन्न भक्षयेत् ।नाऽश्नीयात् पयसा तक्रं कृमिदुष्टं विवर्जयेत् ॥३८॥अर्थानामुचिते पात्रे दानं दद्याद्धि भूतये ।नित्यं दद्याज्जलान्नादि क्वचिद् दद्याद् व्रतादिषु ॥३९॥दद्यादपत्यविजयैश्वर्यार्थं चापि शोभनम् ।हरेर्मे चातिप्रीत्यर्थं दद्याद्वै ब्रह्मवादिषु ॥४०॥दानेनोपासितं पात्रं तारयत्येव सर्वथा ।भक्तिपूर्वं प्रदातव्यं देयपात्रप्रमोदकृत् ॥४१॥भूमिं दद्यादिक्षुयुक्तां यवगोधूमशालिनीम् ।विद्यां दद्यात्तथा दद्यात् सुवर्णं रजतं मणीन् ॥४२॥हीरकं रत्नभूषादि दद्याद् वस्त्राणि कम्बलान् ।अन्नं शाकं च पात्राणि प्रदद्यान्मधुसर्पिषी ॥४३॥तिलान् दद्यात् प्रीयतां मे हृषीकेशः प्रभुः पतिः ।एवमुक्त्वा यतीन् साधून् साध्वीः प्रपूज्य चार्पयेत् ॥४४॥फलमूलानि पानानि शाकानि चौषधं तथा ।दद्याच्छत्रं तथोपानद् यदिष्टं स्यात् समर्पयेत् ॥४५॥कन्यादानं चरेत् साध्वी रूपाढ्यगुणशालिनि ।कुलिने युनि समृद्धे वित्तपूर्णे नरे दृढे ॥४६॥सर्वाभरणसंयुक्ता दातव्या कन्यका निजा ।विक्रयो नैव कन्यायाः कर्तव्यः श्रेयसां प्रहन् ॥४७॥भूमिं गां च हिरण्यं च धनं वस्त्रं च धान्यकम् ।जामातुर्यौतकं दत्त्वा सर्वं भवति चाऽक्षयम् ॥४८॥यौतकेन विना दत्ता दासीत्वमुपगच्छति ।अत्यशने विदूरस्थे व्यसनाढ्येऽतिदुर्जने ॥४९॥कुलहीने च मूर्खे च न दातव्या कदाचन ।अतिवृद्धे चातिदीने रोगिणि सर्वनाशके ॥५०॥अतिक्रुद्धेऽप्यसन्तुष्टे दातव्या न हि कन्यका ।कन्यादात्री लभेत् स्वर्गं पतिं च परमेश्वरम् ॥५१॥कन्यादाता लभेत् पत्नीं परत्र वरवर्णिनीम् ।कण्डनी पेषणी चूल्ली जलकुंभी प्रमार्जनी ॥५२॥पञ्चसूना गृहस्थानां नश्यन्ति पञ्चसन्मखैः ।जन्तुभ्यः संप्रदद्याच्च दद्यात् पितृभ्य इत्यपि ॥५३॥यादोभ्यश्च तथा दद्याद् दद्याद् गोवृक्षपत्रिषु ।देवताभ्यः प्रदद्याच्चाऽतिथिभ्योऽपि यथाधनम् ॥५४॥एवं दानेन वै दोषा नश्येयुर्नाऽत्र संशयः ।दानं शुद्धिं तथा पात्रं शुद्धं तारयति ध्रुवम् ॥५५॥पावकः सर्वथा मेध्यो मेध्याश्च योषितः सदा ।साधवश्चातिमेध्याश्च देवतास्ते त्रयो मताः ॥५६॥सुरापी व्याधिता द्वेष्ट्री न कर्तव्या वधूः क्वचित् ।विरोधेन न वै भाव्यं पत्न्या पत्यादिभिः क्वचित् ॥५७॥यत्राऽविरोधो दम्पत्योस्त्रिवर्गस्तत्र वर्द्धते ।मृते जीवति वा पत्यौ या नान्यमुपगच्छति ॥५८॥सेह कीर्तिमवाप्नोति मोदते स्वगृहे सती ।स्त्रीभिर्भर्तृवचः कार्यमेष दोषो न विद्यते ॥५९॥आज्ञापितं शुभं चाप्यशुभं कुर्यादसंशया ।भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः ॥६०॥बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाऽशनैः ।संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ॥६१॥श्वश्रूश्वशुरयोः कुर्यात् पादयोर्वन्दनं सदा ।हिता भर्तुर्दिवं गच्छेदिह कीर्तिरवाप्य सा ॥६२॥क्रीडाशरीरसंस्कारसमाजोत्सवदर्शनम् ।हास्यं परगृहे यानं त्यजेत् प्रोषितभर्तृका ॥६३॥पतिं विना न तिष्ठेत दिवा सन्धौ च वा निशि ।पूजयेद् विधिना कान्तं रमयेद् रामयेत्तथा ॥६४॥परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते ।वाक्पाणिपादचापल्यं वर्जयेद्वै वधूजनः ॥६५॥आचरेत् सदृशीं वृत्तिमजिह्मामशठां तथा ।दंभहेतुकपाषण्डिबकवृत्तीश्च वर्जयेत् ॥६६॥पादौ प्रतापयेन्नाऽग्नौ न चैनमभिलंघयेत् ।विरुद्धं वर्जयेत्कर्म प्रेतधूमं विवर्जयेत् ॥६७॥गुरुं शास्त्रं तथाऽऽचार्यं राजानं स्त्रीं पतिं तथा ।नाऽऽक्रामेज्जननीं श्वश्रूं तच्छायां च विवर्जयेत् ॥६८॥वर्जयेत्परशय्यादि परद्रव्याणि वर्जयेत् ।रसास्वादवती भूत्वा नाऽन्यं नरं समाश्रयेत् ॥६९॥अस्नेहा न भवेत् क्वापि गुप्तचारा च नो भवेत् ।सौवर्णराजताब्जानां शंखरज्ज्वादिचर्मणाम् ॥७०॥पात्राणामासनानां च कार्या शुद्धिर्हि वारिणा ।उष्णेन स्रुक्स्रुवयोश्च धान्यानां प्रोक्षणेन च ॥७१॥तक्षणाद् दारुशृंगादेर्यज्ञपात्रस्य मार्जनात् ।त्रपुसीसकताम्राणां क्षाराऽम्लोदकवारिभिः ॥७२॥भस्माऽद्भिर्लोहकांस्यानां भूशुद्धिर्मार्जनादिना ।अमेध्याक्तस्य मृत्तोयैर्गन्धलेपाऽपकर्षणात् ॥७३॥नोत्संगे भक्षयेत् भक्ष्यान् न नग्ना च स्वपेत् क्वचित् ।न दन्तैर्नखरोमाणि छिन्द्यात् सुप्तं न बोधयेत् ॥७४॥कुद्वारेण प्रविशेन्न बाहुभ्यां न नदीं तरेत् ।नाऽङ्गारभस्मकेशादिष्वधितिष्ठेत् कदाचन ॥७५॥यन्त्रचूल्लीप्रदीपादिदीपने कुशला भवेत् ।सावधाना भवेद् वार्याहरणेऽध्वनि सर्वदा ॥७६॥कूपसरित्तटाकादितीरे ध्यानवती भवेत् ।पादन्यासेऽपि कृष्यादौ तृणादौ कुशला भवेत् ॥७७॥करीषकाष्ठप्रभृत्यादानेऽपि कुशला भवेत् ।कोणे जीर्णे जन्तुमये स्थलेऽपि कुशला भवेत् ॥७८॥मार्गे यानेऽपि च वधूर्निजं कान्तं ह्यनुव्रजेत् ।सावधाना भवेत् पृष्ठे यथा नान्यभ्रमा भवेत् ॥७९॥पुत्राऽपत्यादिबालानां रक्षणे कुशला भवेत् ।पथ्याऽपथ्यादिसंज्ञाना ग्राह्यादौ कुशला भवेत् ॥८०॥पुत्रान् संशोधयेत् साध्वी संस्कारयेच्छुभैर्वृषैः ।उपादिशेत् सुखान् धर्मान्चास्तिक्यं पालयेत् सदा ॥८१॥स्नायाज्जलेन च वधूर्वर्जयित्वा शिरः सदा ।तैलस्नानं तु शिरसो विदध्यान्नित्यमेव ह ॥८२॥उद्वर्तनं शुभं स्नानं ज्ञानस्नानं चरेत्तथा ।ब्रह्मचिन्तनकं स्नानं शोधनं चाचरेत् सदा ॥८३॥सहस्रपरमां नित्यं शतमध्यां दशावराम् ।मालिकां श्रुहरेर्नाम्नो जपेच्छान्तिस्थिता वधूः ॥८४॥पितॄन् प्रपूजयेन्नित्यं त्रेधा ते पितरः स्मृताः ।प्रत्यक्षा मानवाश्चात्र देवाः स्वर्गगतात्तथा ॥८५॥अन्ये प्रेता जन्मलाभास्त्रयस्ते पितरो मताः ।माता पिता गुरुः श्वश्रूः पतिः प्रत्यक्षगोचराः ॥८६॥चन्द्रमाऽर्कोऽग्निरित्येते दिवि स्थिता हि देवताः ।प्रेतभावं गताश्चान्यजन्मानो मृतपूर्वजाः ॥८७॥तृतीयास्ते प्रबोद्धव्यास्तान्नमेद् गृहधारिणी ।चन्द्रः पिता रविः पितामहोऽग्निः प्रपितामहः ॥८८॥सोमपश्च बर्हिषच्च अग्निष्वात्तश्च ते क्रमात् ।यज्ञीया आज्यपा विप्राः साधवस्तान् प्रभोजयेत् ॥८९॥चान्द्रा मातापित्राद्याश्च सौर्या द्विजादयः शुभाः ।आग्नयोऽतिथयः सन्तः पितरस्तेऽक्षिगोचराः ॥९०॥तान् वधूर्भोजयेन्नित्यं यथाशक्ति यथाधनम् ।गवादीन् सेवयेल्लक्ष्मीसम्पत्सौभाग्यवाञ्च्छया ॥९१॥देवताभ्यो नमः कुर्याद् वृद्धान्नित्यं नमेत्तथा ।गुरुं नमेज्जपेन्मालां मम नामयुतां वधूः ॥५२॥जपकाले न भाषेत स्मरेच्छ्रीपतिमच्युतम् ।हरेराराधनं पुण्यं नित्यमाराधयेद्धरिम् ॥९३॥निवेदयेन्निजात्मानं वधूः श्रीपरमात्मनि ।सन्ध्यायाच्छ्रीहरिं नित्यं सर्वशान्तिप्रदं पतिम् ॥९४॥देवायाऽन्नं प्रदद्याच्च देवयज्ञः स वै भवेत् ।मूर्तये वा जले भूम्यां वैश्वदेवेऽपि चाऽर्पयेत् ॥९५॥शेषं गोभ्यः श्वपचेभ्यः श्वभ्यो भूतेभ्य आर्पयेत् ।दीनपतितपक्षिभ्यो भूतयज्ञः स उच्यते ॥९६॥साधुं विप्रं सतीं बालान् भोजयेत् पितृयज्ञकः ।अतिथिं भोजयेत् तृप्तिं कारयेत् पितृवत् सदा ॥९७॥अभ्यागतान् यथाशक्ति पूजयेदतिथीन् सतीः ।भिक्षां च भिक्षवे दद्यात् साधवे ब्रह्मचारिणे ॥९८॥अर्थिभ्योऽपि प्रदद्याच्च वधूर्वै लोभवर्जिता ।मानुषोऽयं यज्ञ उक्तो महाशीर्वादसाधनम् ॥९९॥मह्यं दद्यात् सदाऽन्नं च श्रीमते परमात्मने ।ब्रह्मवेत्त्रे प्रदद्याच्च ब्रह्मयज्ञः स वै मतः ॥१००॥सर्वथा भोजनकार्ये करौ प्रक्षालयेत् सती ।शुद्धिपूर्वं प्रदद्याद्वै तेन तृप्यन्ति देवताः ॥१०१॥भोजनार्थं चोपविशेत् पादौ प्रक्षाल्य वै करौ ।आपोशानक्रियां कृत्वा प्राणेभ्यः प्रार्प्य वै ततः ॥१०२॥प्रशंसापूर्वकं चान्नं भुञ्ज्याज्जुहुयादात्मनि ।नाऽद्यात्सूर्यग्रहात्पूर्वं प्रतिसायं शशिग्रहात् ॥१०३॥ग्रहकाले न चाऽश्नीयात् स्नात्वाऽश्नीयात् समर्पयेत् ।स्वार्थार्थं भोजनं यस्या भोगार्थं काममैथुनम् ॥१०४॥वृत्त्यर्थं च कला यस्यास्तस्याः शून्यान्तजीवनम् ।न दक्षाभिमुखी स्वप्यात् पश्चिमाभिमुखी न च ॥१०५॥न चाकाशे न नग्ना वा नाऽन्याऽऽसने वधूः सती ।संस्मरेच्छ्रीहरिं मां वै सर्वकार्येषु चान्वहम् ॥१०६॥दिवानिशं स्मरेन्मां वै मोक्षदं पुरुषोत्तमम् ।यथेष्टं मां प्रसेवेत वधूः संकोचमन्तरा ॥१०७॥एतान् धर्मान् सदाचारान् पालयन्ती सुखस्थिता ।प्रमोदते गृहे नित्यं सुखाधिक्यवती भवेत् ॥१०८॥पठनाच्छ्रवणादस्य धर्माचारफलं लभेत् ।पालनात्पापनाशः स्यान्मोक्षमार्गगतिर्भवेत् ॥१०९॥तीर्थदानव्रतभक्तिफलं लभेत् सती वधूः ।धर्मार्थकाममोक्षांश्च पुत्रपुत्रीर्लभेत्तथा ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां वधूटीधर्मसदाचारादिवर्णननामैकचत्वारिंशोऽध्यायः ॥४१॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP