संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ४१

द्वापरयुगसन्तानः - अध्यायः ४१

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
उपवीतं रक्षयेच्च नरो नारी समाहितः ।
सन्ध्यां कुर्वीत च नमेद् गुरुवर्गं सदा वधूः ॥१॥
उपाध्यायं च पितरं ज्येष्ठभ्रातरमित्यपि ।
नृपं मातुलं श्वशुरं मातामहपितामहौ ॥२॥
वर्णश्रेष्ठं च पितृव्यं मातामहीं च मातरम् ।
पितृसहोदरीं गुर्वीं श्वश्रूं पितामहीं तथा ॥३॥
धात्रीं ज्येष्ठां सपत्नीं च भगिनीं प्रणमेद् वधूः ।
अनुवर्तनमेतासां मनोवाक्कायकर्मभिः ॥४॥
प्रपालयेच्च ता दृष्ट्वोत्तिष्ठेत् समभिवादयेत् ।
नैतैरुपविशेत् सार्धं विवदेन्नाऽऽत्मकारणात् ॥५॥
जीवितार्थमपि द्वेषाद् गुरून् नैवाऽपमानयेत् ।
उद्रिक्ताऽपि गुरुद्वेषकरी वधूः पतत्यधः ॥६॥
भर्ता भ्राता तथा विद्याप्रदाता जननी पिता ।
पूजनीया विशेषेण पञ्च ते गुरवोऽग्रगाः ॥७॥
आत्मनः सर्वयत्नेन प्राणत्यागेन चापि वै ।
तेषां हितं सदा कार्यं श्वश्र्वाश्च श्वशुरस्य च ॥८॥
मूत्रं कृत्वा त्रिराचामेत् तथैव भोजनोत्तरम् ।
मलं त्यक्त्वा स्नानमेव समाचरेत् सुखार्थकम् ॥९॥
केशानां गुप्तदेहस्य स्पर्शे प्रक्षालनं नसः ।
कर्तव्यं कर्णनाभ्यादेः स्पर्शेऽपि चरणस्पृशौ ॥१०॥
अग्नौ श्मशाने काष्ठे वा शाद्वले गोमये न च ।
जले जीर्णे देवगृहे वल्मीके जन्तुगर्तके ॥११॥
मलमूत्रादि कुर्यान्न राजमार्गे तुषादिषु ।
न क्षेत्रे न बिले तीर्थे नोद्याने नगराशये ॥१२॥
नित्यमुद्यममग्ना स्यात् साध्व्याचाररता सती ।
गुर्व्यग्रे प्रौढपादा न भवेद् वधूः कदाचन ॥१३॥
गुरोर्निन्दा तथा गुर्व्याः परिवादोऽपि यत्र वा ।
प्रवर्तते तत्र कर्णौ पिधातव्यौ यथाऽन्यतः ॥१४॥
गन्तव्यं च तथा सेवा कर्तव्या भावनान्विता ।
प्रयुञ्जीत सदा वाचं मधुरां हितकारिणीम् ॥१५॥
लौकिकं वैदिकं वापि तथाऽऽध्यात्मिकमित्यपि ।
आददीत यतो ज्ञानं तं न द्रुह्येद् वधूजनः ॥१६॥
गुर्वीवत्प्रतिपूज्याश्च सवर्णा गुरुयोषितः ।
अभ्यञ्जनस्नापनाद्यैर्गात्रसम्मार्दनादिभिः ॥१७॥
केशप्रसाधनाद्यैश्च गुर्व्यः सेव्या वधूजनैः ।
अभिवाद्या गुरुपत्नी प्राधीयीत श्रुतीस्ततः ॥१८॥
सावित्रीं श्रीहरिं नाम वेदान्ताँश्चात्मशोषितान् ।
अधीयीताऽभ्यसेन्नित्यं ब्रह्मनिष्ठा समाहिता ॥१९॥
ओंकारमादितः कृत्वा व्याहृतीश्च ततः परम् ।
ततोऽधीयीत मन्नाम श्रीमत्कृष्णनरायणम् ॥२०॥
न जीर्णमलवद्वस्त्रा भवेद् वधूटिका क्वचित् ।
सख्यं सखीभिः कुर्याच्च कुर्यादात्महितं वधूः ॥२१॥
वयसः कर्मणोऽर्थस्य श्रुतस्याऽभिजनस्य च ।
देशवाग्बुद्धिसारूप्यमाचरन्ती गृहे वसेत् ॥२२॥
वृद्धैर्वृद्धाभिरुत्कृष्टं सेवितं वृषमेव सा ।
निषेवेत न तेनेयं यान्ती दुष्यति कर्हिचित् ॥२३॥
त्रिवर्गसेविका स्याच्च स्याच्च विभागशालिनी ।
सा गृहिणी सदा प्रोक्ता स्वर्गादिसत्यधारिणी ॥२४॥
धर्मस्याऽऽयतनं यत्नाच्छरीरं परिपालयेत् ।
नहि देहं विना नारायणोऽहं प्राप्तिगोचरः ॥२५॥
न हिंस्यात् सर्वभूतानि नान्याऽहितं चरेत् क्वचित् ।
न देवद्रव्यहर्त्री स्याद् विषं देवस्य वै धनम् ॥२६॥
देवद्रोहं न कुर्वीत गुरुद्रोहं तथैव च ।
स्वामिद्रोहं न कुर्वीत श्वश्रूद्रोहं न चाचरेत् ॥२७॥
अनृताद् बहुभोगाच्च परपीडाविधापनात् ।
शापाद् रोगाच्च वै दीर्घादायुष्यं नाशमेति हि ॥२८॥
न संवसेत् सुमूर्खाभिः पापाभिश्च क्वचिद् वधूः ।
सहवासात् संगमाद्यैः पापं संक्रमते यतः ॥२९॥
न कुर्याच्छुष्कवैराणि मर्मभीन्दि न चोच्चरेत् ।
बह्वीभिश्च समं कुर्यान्न विरोधं वधूः क्वचित् ॥३०॥
न देवगुरुविप्राणां दीयमानं निवारयेत् ।
न चात्मानं प्रशंसेच्च निन्दां चापि विवर्जयेत् ॥३१॥
न पापं पापिनां ब्रूयान्मिथ्यादोषं न चार्पयेत् ।
नाऽश्नीयात् स्वामिना सार्धं त्वेकस्थाल्यां कदाचन ॥३२॥
न कुर्यात् कस्यचित् पीडां सुतां शिष्यां तु शिक्षयेत् ।
नात्मानं चावमन्येत दैन्यं च वर्जयेत् सदा ॥३३॥
न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ।
न गालीः संवदेत् क्वापि नाऽश्लीलानि वदेत्तथा ॥३४॥
नैव स्वप्याच्छून्यगेहे निर्जने वा परासने ।
चैत्यवृक्षं न वै छिन्द्याद् गुरून्न वञ्चयेत् क्वचित् ॥३५॥
न देवायतने गच्छेद् वामं कृत्वा तु मन्दिरम् ।
न व्याधिदूषिताभिश्च संसर्गं रचयेद् वधूः ॥३६॥
न निन्देद् योगिनः सिद्धान् व्रतिनो वा यतींस्तथा ।
देवान् देवनिवासाँश्च साध्वीः सतीश्च गुर्विकाः ॥३७॥
रात्रौ तिलसमायुक्तं दधि त्यजेन्न भक्षयेत् ।
नाऽश्नीयात् पयसा तक्रं कृमिदुष्टं विवर्जयेत् ॥३८॥
अर्थानामुचिते पात्रे दानं दद्याद्धि भूतये ।
नित्यं दद्याज्जलान्नादि क्वचिद् दद्याद् व्रतादिषु ॥३९॥
दद्यादपत्यविजयैश्वर्यार्थं चापि शोभनम् ।
हरेर्मे चातिप्रीत्यर्थं दद्याद्वै ब्रह्मवादिषु ॥४०॥
दानेनोपासितं पात्रं तारयत्येव सर्वथा ।
भक्तिपूर्वं प्रदातव्यं देयपात्रप्रमोदकृत् ॥४१॥
भूमिं दद्यादिक्षुयुक्तां यवगोधूमशालिनीम् ।
विद्यां दद्यात्तथा दद्यात् सुवर्णं रजतं मणीन् ॥४२॥
हीरकं रत्नभूषादि दद्याद् वस्त्राणि कम्बलान् ।
अन्नं शाकं च पात्राणि प्रदद्यान्मधुसर्पिषी ॥४३॥
तिलान् दद्यात् प्रीयतां मे हृषीकेशः प्रभुः पतिः ।
एवमुक्त्वा यतीन् साधून् साध्वीः प्रपूज्य चार्पयेत् ॥४४॥
फलमूलानि पानानि शाकानि चौषधं तथा ।
दद्याच्छत्रं तथोपानद् यदिष्टं स्यात् समर्पयेत् ॥४५॥
कन्यादानं चरेत् साध्वी रूपाढ्यगुणशालिनि ।
कुलिने युनि समृद्धे वित्तपूर्णे नरे दृढे ॥४६॥
सर्वाभरणसंयुक्ता दातव्या कन्यका निजा ।
विक्रयो नैव कन्यायाः कर्तव्यः श्रेयसां प्रहन् ॥४७॥
भूमिं गां च हिरण्यं च धनं वस्त्रं च धान्यकम् ।
जामातुर्यौतकं दत्त्वा सर्वं भवति चाऽक्षयम् ॥४८॥
यौतकेन विना दत्ता दासीत्वमुपगच्छति ।
अत्यशने विदूरस्थे व्यसनाढ्येऽतिदुर्जने ॥४९॥
कुलहीने च मूर्खे च न दातव्या कदाचन ।
अतिवृद्धे चातिदीने रोगिणि सर्वनाशके ॥५०॥
अतिक्रुद्धेऽप्यसन्तुष्टे दातव्या न हि कन्यका ।
कन्यादात्री लभेत् स्वर्गं पतिं च परमेश्वरम् ॥५१॥
कन्यादाता लभेत् पत्नीं परत्र वरवर्णिनीम् ।
कण्डनी पेषणी चूल्ली जलकुंभी प्रमार्जनी ॥५२॥
पञ्चसूना गृहस्थानां नश्यन्ति पञ्चसन्मखैः ।
जन्तुभ्यः संप्रदद्याच्च दद्यात् पितृभ्य इत्यपि ॥५३॥
यादोभ्यश्च तथा दद्याद् दद्याद् गोवृक्षपत्रिषु ।
देवताभ्यः प्रदद्याच्चाऽतिथिभ्योऽपि यथाधनम् ॥५४॥
एवं दानेन वै दोषा नश्येयुर्नाऽत्र संशयः ।
दानं शुद्धिं तथा पात्रं शुद्धं तारयति ध्रुवम् ॥५५॥
पावकः सर्वथा मेध्यो मेध्याश्च योषितः सदा ।
साधवश्चातिमेध्याश्च देवतास्ते त्रयो मताः ॥५६॥
सुरापी व्याधिता द्वेष्ट्री न कर्तव्या वधूः क्वचित् ।
विरोधेन न वै भाव्यं पत्न्या पत्यादिभिः क्वचित् ॥५७॥
यत्राऽविरोधो दम्पत्योस्त्रिवर्गस्तत्र वर्द्धते ।
मृते जीवति वा पत्यौ या नान्यमुपगच्छति ॥५८॥
सेह कीर्तिमवाप्नोति मोदते स्वगृहे सती ।
स्त्रीभिर्भर्तृवचः कार्यमेष दोषो न विद्यते ॥५९॥
आज्ञापितं शुभं चाप्यशुभं कुर्यादसंशया ।
भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः ॥६०॥
बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाऽशनैः ।
संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ॥६१॥
श्वश्रूश्वशुरयोः कुर्यात् पादयोर्वन्दनं सदा ।
हिता भर्तुर्दिवं गच्छेदिह कीर्तिरवाप्य सा ॥६२॥
क्रीडाशरीरसंस्कारसमाजोत्सवदर्शनम् ।
हास्यं परगृहे यानं त्यजेत् प्रोषितभर्तृका ॥६३॥
पतिं विना न तिष्ठेत दिवा सन्धौ च वा निशि ।
पूजयेद् विधिना कान्तं रमयेद् रामयेत्तथा ॥६४॥
परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते ।
वाक्पाणिपादचापल्यं वर्जयेद्वै वधूजनः ॥६५॥
आचरेत् सदृशीं वृत्तिमजिह्मामशठां तथा ।
दंभहेतुकपाषण्डिबकवृत्तीश्च वर्जयेत् ॥६६॥
पादौ प्रतापयेन्नाऽग्नौ न चैनमभिलंघयेत् ।
विरुद्धं वर्जयेत्कर्म प्रेतधूमं विवर्जयेत् ॥६७॥
गुरुं शास्त्रं तथाऽऽचार्यं राजानं स्त्रीं पतिं तथा ।
नाऽऽक्रामेज्जननीं श्वश्रूं तच्छायां च विवर्जयेत् ॥६८॥
वर्जयेत्परशय्यादि परद्रव्याणि वर्जयेत् ।
रसास्वादवती भूत्वा नाऽन्यं नरं समाश्रयेत् ॥६९॥
अस्नेहा न भवेत् क्वापि गुप्तचारा च नो भवेत् ।
सौवर्णराजताब्जानां शंखरज्ज्वादिचर्मणाम् ॥७०॥
पात्राणामासनानां च कार्या शुद्धिर्हि वारिणा ।
उष्णेन स्रुक्स्रुवयोश्च धान्यानां प्रोक्षणेन च ॥७१॥
तक्षणाद् दारुशृंगादेर्यज्ञपात्रस्य मार्जनात् ।
त्रपुसीसकताम्राणां क्षाराऽम्लोदकवारिभिः ॥७२॥
भस्माऽद्भिर्लोहकांस्यानां भूशुद्धिर्मार्जनादिना ।
अमेध्याक्तस्य मृत्तोयैर्गन्धलेपाऽपकर्षणात् ॥७३॥
नोत्संगे भक्षयेत् भक्ष्यान् न नग्ना च स्वपेत् क्वचित् ।
न दन्तैर्नखरोमाणि छिन्द्यात् सुप्तं न बोधयेत् ॥७४॥
कुद्वारेण प्रविशेन्न बाहुभ्यां न नदीं तरेत् ।
नाऽङ्गारभस्मकेशादिष्वधितिष्ठेत् कदाचन ॥७५॥
यन्त्रचूल्लीप्रदीपादिदीपने कुशला भवेत् ।
सावधाना भवेद् वार्याहरणेऽध्वनि सर्वदा ॥७६॥
कूपसरित्तटाकादितीरे ध्यानवती भवेत् ।
पादन्यासेऽपि कृष्यादौ तृणादौ कुशला भवेत् ॥७७॥
करीषकाष्ठप्रभृत्यादानेऽपि कुशला भवेत् ।
कोणे जीर्णे जन्तुमये स्थलेऽपि कुशला भवेत् ॥७८॥
मार्गे यानेऽपि च वधूर्निजं कान्तं ह्यनुव्रजेत् ।
सावधाना भवेत् पृष्ठे यथा नान्यभ्रमा भवेत् ॥७९॥
पुत्राऽपत्यादिबालानां रक्षणे कुशला भवेत् ।
पथ्याऽपथ्यादिसंज्ञाना ग्राह्यादौ कुशला भवेत् ॥८०॥
पुत्रान् संशोधयेत् साध्वी संस्कारयेच्छुभैर्वृषैः ।
उपादिशेत् सुखान् धर्मान्चास्तिक्यं पालयेत् सदा ॥८१॥
स्नायाज्जलेन च वधूर्वर्जयित्वा शिरः सदा ।
तैलस्नानं तु शिरसो विदध्यान्नित्यमेव ह ॥८२॥
उद्वर्तनं शुभं स्नानं ज्ञानस्नानं चरेत्तथा ।
ब्रह्मचिन्तनकं स्नानं शोधनं चाचरेत् सदा ॥८३॥
सहस्रपरमां नित्यं शतमध्यां दशावराम् ।
मालिकां श्रुहरेर्नाम्नो जपेच्छान्तिस्थिता वधूः ॥८४॥
पितॄन् प्रपूजयेन्नित्यं त्रेधा ते पितरः स्मृताः ।
प्रत्यक्षा मानवाश्चात्र देवाः स्वर्गगतात्तथा ॥८५॥
अन्ये प्रेता जन्मलाभास्त्रयस्ते पितरो मताः ।
माता पिता गुरुः श्वश्रूः पतिः प्रत्यक्षगोचराः ॥८६॥
चन्द्रमाऽर्कोऽग्निरित्येते दिवि स्थिता हि देवताः ।
प्रेतभावं गताश्चान्यजन्मानो मृतपूर्वजाः ॥८७॥
तृतीयास्ते प्रबोद्धव्यास्तान्नमेद् गृहधारिणी ।
चन्द्रः पिता रविः पितामहोऽग्निः प्रपितामहः ॥८८॥
सोमपश्च बर्हिषच्च अग्निष्वात्तश्च ते क्रमात् ।
यज्ञीया आज्यपा विप्राः साधवस्तान् प्रभोजयेत् ॥८९॥
चान्द्रा मातापित्राद्याश्च सौर्या द्विजादयः शुभाः ।
आग्नयोऽतिथयः सन्तः पितरस्तेऽक्षिगोचराः ॥९०॥
तान् वधूर्भोजयेन्नित्यं यथाशक्ति यथाधनम् ।
गवादीन् सेवयेल्लक्ष्मीसम्पत्सौभाग्यवाञ्च्छया ॥९१॥
देवताभ्यो नमः कुर्याद् वृद्धान्नित्यं नमेत्तथा ।
गुरुं नमेज्जपेन्मालां मम नामयुतां वधूः ॥५२॥
जपकाले न भाषेत स्मरेच्छ्रीपतिमच्युतम् ।
हरेराराधनं पुण्यं नित्यमाराधयेद्धरिम् ॥९३॥
निवेदयेन्निजात्मानं वधूः श्रीपरमात्मनि ।
सन्ध्यायाच्छ्रीहरिं नित्यं सर्वशान्तिप्रदं पतिम् ॥९४॥
देवायाऽन्नं प्रदद्याच्च देवयज्ञः स वै भवेत् ।
मूर्तये वा जले भूम्यां वैश्वदेवेऽपि चाऽर्पयेत् ॥९५॥
शेषं गोभ्यः श्वपचेभ्यः श्वभ्यो भूतेभ्य आर्पयेत् ।
दीनपतितपक्षिभ्यो भूतयज्ञः स उच्यते ॥९६॥
साधुं विप्रं सतीं बालान् भोजयेत् पितृयज्ञकः ।
अतिथिं भोजयेत् तृप्तिं कारयेत् पितृवत् सदा ॥९७॥
अभ्यागतान् यथाशक्ति पूजयेदतिथीन् सतीः ।
भिक्षां च भिक्षवे दद्यात् साधवे ब्रह्मचारिणे ॥९८॥
अर्थिभ्योऽपि प्रदद्याच्च वधूर्वै लोभवर्जिता ।
मानुषोऽयं यज्ञ उक्तो महाशीर्वादसाधनम् ॥९९॥
मह्यं दद्यात् सदाऽन्नं च श्रीमते परमात्मने ।
ब्रह्मवेत्त्रे प्रदद्याच्च ब्रह्मयज्ञः स वै मतः ॥१००॥
सर्वथा भोजनकार्ये करौ प्रक्षालयेत् सती ।
शुद्धिपूर्वं प्रदद्याद्वै तेन तृप्यन्ति देवताः ॥१०१॥
भोजनार्थं चोपविशेत् पादौ प्रक्षाल्य वै करौ ।
आपोशानक्रियां कृत्वा प्राणेभ्यः प्रार्प्य वै ततः ॥१०२॥
प्रशंसापूर्वकं चान्नं भुञ्ज्याज्जुहुयादात्मनि ।
नाऽद्यात्सूर्यग्रहात्पूर्वं प्रतिसायं शशिग्रहात् ॥१०३॥
ग्रहकाले न चाऽश्नीयात् स्नात्वाऽश्नीयात् समर्पयेत् ।
स्वार्थार्थं भोजनं यस्या भोगार्थं काममैथुनम् ॥१०४॥
वृत्त्यर्थं च कला यस्यास्तस्याः शून्यान्तजीवनम् ।
न दक्षाभिमुखी स्वप्यात् पश्चिमाभिमुखी न च ॥१०५॥
न चाकाशे न नग्ना वा नाऽन्याऽऽसने वधूः सती ।
संस्मरेच्छ्रीहरिं मां वै सर्वकार्येषु चान्वहम् ॥१०६॥
दिवानिशं स्मरेन्मां वै मोक्षदं पुरुषोत्तमम् ।
यथेष्टं मां प्रसेवेत वधूः संकोचमन्तरा ॥१०७॥
एतान् धर्मान् सदाचारान् पालयन्ती सुखस्थिता ।
प्रमोदते गृहे नित्यं सुखाधिक्यवती भवेत् ॥१०८॥
पठनाच्छ्रवणादस्य धर्माचारफलं लभेत् ।
पालनात्पापनाशः स्यान्मोक्षमार्गगतिर्भवेत् ॥१०९॥
तीर्थदानव्रतभक्तिफलं लभेत् सती वधूः ।
धर्मार्थकाममोक्षांश्च पुत्रपुत्रीर्लभेत्तथा ॥११०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां वधूटीधर्मसदाचारादिवर्णननामैकचत्वारिंशोऽध्यायः ॥४१॥

N/A

References : N/A
Last Updated : May 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP